________________
अनन्तरं च ‘समाप्तसकलविद्यो विद्यागृहानिर्गतोऽयं चन्द्रापीड:- समाकर्णालोकनकुतूहलिन्यः सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टार्धपरिसमाप्तप्रसाधनव्यापाराः, काश्चिद्वामकरतलगतदर्पणाः स्फुरितसकलरजनिकरमण्डला इव पौर्णमासीरजन्यः, काश्चिदा लक्तकरसपाटलितचरणपुटाः कमलपरिपीतबालातपा इव नलिन्यः, काश्चित्ससंभ्रमगतिविगलितमेखलाकलापाकुलितचरणकिसलयाः श्रृङ्खलासंदानमन्दमन्दसंचारिण्य इव करिण्यः, काश्चिज्जलधरसमयदिवसश्रिय इवेन्द्रायुधरागरुचिराम्बरधारिण्यः, काश्चिदुल्लसितधवलनखमयूखपल्लवानूपुररवाकृष्टगृहकलहंसकानिव चरणपुटानुद्वहन्त्यः, काश्चित्करतलस्थितस्थूलहारयष्टयो रतिमिव मदनविनाशशोकगृहीतस्फटिकाक्षवलयां विडम्बयन्त्यः, काश्चित्पयोधरान्तरालगलितमुक्ता तास्तनुविमलसोतोजलान्तरितचक्रवाकमिथुना इव प्रदोषश्रियः, काश्चिन्नूपुरमणिस
***********
अनन्तरमिति । अनन्तरं । चन्द्रापीडदर्शनोत्कण्ठया गवाक्षकपाटोद्घाटनानन्तरमित्यर्थः । समाप्ता पारं प्राप्ता सकला समग्रा विद्या यस्य स तथा । विद्यागृहादयं चन्द्रापीडो निर्गत इति समाकर्ण्य श्रुत्वालोकने विलोकने कुतूहलं यासां ता आलोकनकुतूहलिन्यो ललनाः स्त्रियो हर्म्यतलानि समारुरुहुरारोहणं चक्रुः । सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टस्त्यक्तोऽर्धपरिसमाप्तः प्रसाधनं प्रतिकर्म तस्य व्यापारो याभिस्ताः । काश्चिद्वामकरतले सव्यपाणितले गतः प्राप्तो दर्पणो मुकुरो याभिस्ताः पौर्णमासीरजन्यः राकात्रियामा इव । कीदृश्यः । स्फुरितं स्फुटित सकलं समग्रं रजनिकरमण्डलं शशाङ्कबिम्ब यासु ताः । निर्मलत्ववर्तुलत्वसाम्यादर्पणस्य चन्द्रोपमानम् । काश्चिदिति । काश्चनार्दो योऽलक्तकरसो यावकरसस्तेन पाटलितं श्वेतरक्तीकृतं चरणपुटं यासां ताः । का इव । नलिन्य इव पद्मिन्य इव । कीदृश्यः । कमलेन परिपीतो बालातपो याभिस्ताः । अत्रालक्तकस्य बालातपसाम्यं चरणपुटानां च कमलेन साम्यं सूचितम् । काश्चिदिति । काश्चन स्त्रियः संभ्रमेण या गतिर्गमनं तया विगलितः सस्तो यो मेखलाकलापो रसनाकलापस्तेनाकुलिता व्याकुलीभूताश्चरणकिसलयाः पादपल्लवा यासा ताः । का इव । करिण्य इव हस्तिन्य इव । कीदृश्यः । श्रृङ्खला प्रसिद्धा तस्याः संदानं बन्धनं तेन मन्दमन्दसंचारिण्यो मन्दमन्दगामिन्यः । अत्र गतिप्रतिबन्धसाम्यान्मेखलायाः श्रृङ्खलोपमानम् । काश्चिदिति । काश्चनेन्द्रायुधमिन्द्रधनुस्तस्य राग इव रागो येष्वेवंविधानि रुचिराण्यम्बराणि धारयन्तीत्येवंशीलास्तास्तथा । का इव । जलधरसमयस्य यो दिवसो दिनं तस्य श्रियस्ता इव । इन्द्रायुधं तस्य रागो रक्तिमा तेन रुचिरं यदम्बरमाकाशं तद्धारिण्यः । काश्चिदिति । काश्चन किं कुर्वत्यः । उद्वहन्त्य उद्वहनं कुर्वत्यः । कान् । चरणपुटान् । तानेव विशिनष्टिउल्लसिता उल्लासं प्राप्ता धवला नखमयूखा एव पल्लवा येषु तात्पुररवेण पादकटकध्वनिनाकृष्टानाकर्षितान्गृहकलहंसकान्सद्महंसानिव । काश्चिदिति । काश्चन करतले स्थिता स्थूलहारयष्टिर्यासां ताः । किं कुर्वत्यः । रति मदनस्त्रियं विडम्बयन्त्यो निराकुर्वत्यः । तामेव विशिनष्टि - मदनेति । मदनस्य कन्दर्पस्य यो विनाशोऽभावस्तस्मायः शोकस्तेन गृहीतं स्फटिकाक्षवलयं यया सा ताम् । अतिस्वच्छत्वात्स्फटिकाक्षवलयेन समं मुक्ताफलसाम्यं दर्शितम् । काश्चिदिति । काश्चन स्त्रियः पयोधराणामन्तरालं मध्यभागस्तत्र गलिता सस्ता मुक्तालता यासा ताः । तनु स्तोकं विमलं निर्मलं यत्सोतोजलं प्रवाहपानीयं तेनान्तरितं व्यवधान प्रापितं चक्रवाकमिथुनं रथाङ्गाह्वमिथुनं यास्वेवंविधाः । प्रदोषो रजनीमुखं तस्य श्रिय इव शोभा इव । काश्चिदिति । काश्चन योषितो नूपुरमणिभ्यः समुत्थितं प्रकटीभूतं यदिन्द्रायुधं शक्रधनुस्तस्य भावस्तत्ता तया । परिचयेन संबन्धेन वात्सल्येन वा । अनुगताः पश्चादागता गृहमयूरिका इव सदन -
पाठा० - १ आगच्छति चन्द्रापीडः. २ सर्वस्मिनगरे. ३ मुक्ताहार. ४ लता विमल.
(चन्द्रापीडप्रवेशे पुरनारीणां भावाः)
पूर्वभागः ।
183