________________
कर्णपल्लवः, पुरः प्रधावता तरुणवीरपुरुषप्रायेणानेकसहससंख्येन पदातिपरिजनेन जय जीवेति च मधुरवचसा मङ्गलेप्रायमनवरतमुच्चैः पठता बन्दिजनेन स्तूयमानः, नगराभिमुखं प्रतस्थे । क्रमेण च तं समासादितविग्रहमनङ्गमिवावतीर्णं नागरमार्गमनुप्राप्तमवलोक्य सर्व एव परित्यक्तसकलव्यापारो रजनिकरोदयपरिबुध्यमानर्कुमुदवनानुकारी जनः समजनि । 'सत्यस्मिन्मुखकुमुदकदम्बकविकृताकृतिः कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो, वयमति पुण्यभाजो यदमानुषीमस्याकृतिमन्तःसमारूढप्रीतिरसनिःस्यन्दविस्तारितेन कूतूहलोत्तानितेन लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै रूपान्तरधारिणे भगवते चन्द्रापीडच्छद्मने पुण्डरीकेक्षणाय' इति वदनारचितप्रणामाञ्जलिर्नगरलोकः प्रणनाम । सर्वतश्च संमुपावृत्तकपाटपुटप्रकटवातायनसहसतया चन्द्रापीडदर्शनकुतूहलानगरमपि समुन्मीलितलोचननिवहमिवाभवत् ।
***********
पुर इति । पुरोऽग्रे प्रधावता प्रचलता तरुणा युवानो ये वीरपुरुषाः सुभटनरास्तत्प्रायेण तत्तुल्येनानेकेषां सहसाणां संख्या यस्मिन्स तेन पदातिपरिवारेण पत्तिपरिजनेन । पुनः कीदृशः । बन्दिजनेन याचकजनेन स्तूयमानो नयमानः । अनवरतं निरन्तरं मधुरवचसा मिष्टवाक्येन जय जीवेति मङ्गलप्रायं मङ्गलात्मकमुच्चैः पठता पाठं कुर्वता । अन्वयस्तु प्रागेवोक्तः।
क्रमेणेति । क्रमेण परिपाट्या तं चन्द्रापीडं नगरमार्ग पुरीपद्धतिमनुप्राप्तमागतमवलोक्य निरीक्ष्य रजनीकरश्चन्द्रस्तस्योदयेनोद्गमेन परिबुध्यमानं विकास प्राप्यमाणं यत्कुमुदवनं तस्यानुकारी सादृश्यकरणशीलः सर्व एव जनो लोकः समजनि बभूव । तमेव विशिनष्टि - समेति । समासादितः प्राप्तो विग्रहः शरीरं येनैवंभूतमनङ्ग काममिवावतीर्णं गृहीतावतारम् । पूर्वमीश्वरेण शरीरस्य दग्धत्वात्समासादितेत्युक्तम् । कीदृशो जनः । परित्यक्तो दूरीकृतः सकलव्यापारः समग्रव्यापृतिर्येन स तथा तेन । सतीति । अस्मिंश्चन्द्रापीडे सति कार्तिकेयो गुहः कुमारशब्दं विडम्बयति । नाममात्रं धत्त इति भावः । तस्मिन्निति शेषः । अस्मिन्नर्थे हेतुगर्भितं विशेषणमाह - मुखेति । मुख्यान्येव कुमुदानि । विकाससाम्यात्तदुपमानम् । तेषां कदम्बकं समूहस्तेन विकृता बीभत्साकृतिराकारो यस्य स तथा । अहो इत्याश्चर्ये । वयमतिपुण्यभाजो गरिष्ठसुकृतभाजः । यदिति हेत्वर्थे । अस्य कुमारस्यामानुषीं देवसंबन्धिनीमाकृतिमाकारं लोचनयुगलेन नेत्रयुग्मेनानिवारिताः पश्यामो विलोकयाम इत्यन्वयः । लोचनयुगलं विशिनष्टि । अन्त इति । अन्तः स्वान्ते समारूढः समुत्पन्नो यः प्रीतिरसः स्नेहरसस्तस्य निःस्यन्दः सारस्तेन विस्तारितेन विस्तीर्णीकृतेन । कुतूहलमाश्चर्यं तेनोत्तानितेनोर्ध्वमुखेन । नोऽस्माकमद्य जन्मवत्तोत्पत्तिमत्ता सफला फलवती जाता जज्ञे । सर्वथेति । सर्वथा सर्वप्रकारेणास्मै चन्द्रापीडच्छद्मने पुण्डरीकेक्षणाय कृष्णाय भगवते रूपान्तरधारिणे नम इति वदनिति ब्रुवन्नारचितो विहितः प्रणामार्थमञ्जलिर्येनैवंभूतो नगरलोकः प्रणनाम प्रणामं चक्रे । समुपावृत्तेति । सर्वतः सर्वत्र समुपावृत्तं समुद्घाटितं कपाटपुटमररसंपुटं यस्मिन्नेवंभूतं प्रकटं स्पष्टं वातायनसहसं गवाक्षसहसं तस्य भावस्तत्ता तया चन्द्रापीडस्य यद्दर्शनकुतूहलं दर्शनाश्चर्यं तस्मानगरमपि द्रङ्गमपि समुन्मीलितं विकसितं लोचननिवहं यस्मिन्नेतादृशमिवाभवद्वभूव । अत्रावलोकननिमित्तत्वसाम्याद्वातायनसहसस्य विकसितनेत्रोपमानम् ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 तद्बहुलेनेत्यर्थः । 2 स्ववाचकत्वेन स्वीकृत्य कुमारशब्द कदर्थयतीत्यर्थः । यतो हि मुखानि षड् वदनानि कुमुदानीव तेषां कदम्बक समूहः, तथा च अस्वाभाविकमुखबाहुल्यात् विकृताकारे कार्तिकेये कुमारशब्दो विडम्बनायै । अस्मिंस्तु कुत्सितो मारो यस्मादिति कुमार इति व्युत्पत्त्या कामादप्यधिकदर्शनीयेऽस्मिन्कुमारशब्द उपयुज्यत इत्याशयः । 3 समपावृतम् इत्यपि पाठः । 4 पुरमिति प्रसिद्धा व्याख्या । पाठा० - १ वीरप्रायेण. २ प्रायालापम्. ३ नगराभिमुखः, ४ पुष्पकुमुद. ५ सत्यस्मिन्संप्रति मुख. ६ मुखकलापविडम्बन; मुखकमल. ७ यदिमाम्; यत इमाम्. ८ प्रणामाञ्जलि. ९ समपावृत; समुपावृत. १० कपाटप्रकट.
(182
कादम्बरी ।
कथायाम्