________________
शिरसः परस्परोत्पीडनकुपिततुरङ्गमनिवारणायस्ता राजपुत्रास्तं पर्यधारयन्त । एकैकशश्च प्रतिनामग्रीहमावेद्यमाना बलाहकेन विचलितमुकुटपद्मरागकिरणोद्गमच्छलेनानुरागमिवोद्धमद्भिः संघटितसेवाञ्जलिमुकुलतया यौवराज्याभिषेककलशावर्जितसलिललग्नकमलैरिव दूरावनतैः शिरोभिः प्रणेमुः । चन्द्रापीडस्तु तान्सर्वान्मानयित्वा यथोचितमनन्तरं तुरङ्गमाधिरूढेनानुगम्यमानो वैशम्पायनेन, राज्यलक्ष्मीनिवासपुण्डरीकाकृतिना सकलराजन्यकुलकुमुदखण्डचन्द्रमण्डलेनेव तुरङ्गमसेनासवन्तीपुलिनायमानेन क्षीरोदफेनधवलितवासुकिफणामण्डलच्छविना स्थूलमुक्ताकलापजालकावृतेनोपरि चिह्नीकृतं केसरिणमुरहतातिमहता कार्तस्वरदण्डेन ध्रियमाणेनातपत्रेण निवारितातपः, उभयतः समुद्भूयमानचामरकलापपवननर्तित -
***********
तानि दूरीकृतानि यान्यातपत्राणि छत्राणि तैः शून्यानि रिक्तानि शिरांसि येषां ते तथा । परस्परेति । परस्परमन्योन्यं यत्पीडनं तेन कुपिताः कोपं प्राप्ता ये तुरङ्गमा अवास्तेषां निवारणं निषेधनं तत्रायस्ता उद्यताः । अथ च बलाहकेन नामनिवेदननियुक्तपुरुषेण प्रतिनामग्राहं यथा स्यात्तथैकश आवेद्यमाना निवेद्यमानाः । नामग्रहणे नामग्रहणनियुक्ते वा । 'बलाहकोऽम्बुदे गिरौ' इत्यनेकार्थः । शिरोभिः प्रणेमुर्नमस्कारं चक्रुः । तमिति शेषः । शिरांसि विशेषयत्राह - विचलितेति । विशेषेण चलिताः कम्पिता मुकुटाः कोटीराणि तेषां पद्मरागा लोहितमणयस्तेषां किरणानां प्रभाणामुद्गमो बहिःप्रचारस्तस्य छलेन मिषेणानुरागं रक्तिमानमुद्वमद्भिरिवोद्गिरद्भिरिव । संघटीति । संघटितः संगतो यः सेवाया अञ्जलिः स एव मुकुलः कुड्मलस्तस्य भावस्तत्ता तया । शिरसां वर्तुलत्वसाम्यादञ्जलिमुकुलस्य कमलमुकुलसाम्याच्छिरःस्थिताञ्जलिमुकुलोत्प्रेक्षामाह यौवराज्येति । यौवराज्यस्य योऽभिषेकस्तदर्थं ये कलशाः कुम्भास्तैरावर्जितं गृहीतं यत्सलिलं तत्र लग्नानि यानि कमलानि तैरिव दूरावनतैर्दूरतोऽवनतैर्नम्रीभूतेश्चन्द्रापीडं पर्यवारयन्तेत्यन्वयस्तु प्रागेवोक्तः । चन्द्रापीडस्तु नगराभिमुखं प्रतस्थ इत्यन्वयः । तान्सर्वानाजपुत्रान्यथोचितं यथायोग्यं मानयित्वा संमानं दत्त्वानन्तरं पश्चाद्भागेनैव तुरङ्गमाधिरूढेनानुगम्यमानः समनुयायमानः । पुनः कीदृशः । आतपत्रेण छत्रेण निवारितो दूरीकृत आतपो दिनकरप्रकाशो यस्य सः । छत्रं विशेषयन्नाह - राज्येति । राज्यस्याधिपत्यस्य या लक्ष्मीः श्रीस्तस्या यनिवासार्थं पुण्डरीक कमलं तद्वदाकृतिराकारो यस्य स तेन । सकलानि समग्राणि यानि राजन्यकुलानि नृपकुलानि तान्येव कुमुदानि कैरवाणि तेषां खण्डं वनं तत्र चन्द्रमण्डलेनेव शशिबिम्बेनेव । छत्रेण राजचिह्नेन राजन्या विकसितमुखा भवन्तीति भावः । तुरङ्गमसेनाश्ववाहिनी सैव सवन्ती तटिनी तस्याः पुलिनायमानेन सैकतायमानेन । अत्र विततगहनगाम्भीर्यादिगुणवत्त्वादश्वसेनाया नधुपमानम् । क्षीरोदस्य दुग्धसमुद्रस्य यः फेनोऽब्धिकफस्तेन धवलितो यो वासुकिर्नागराजः । वासुकेर्नीलत्वप्रसिद्ध्या एतद्विशेषणम् । तस्य यत्फणामण्डलं तद्वच्छविर्यस्य स तथा तेन । स्थूलमुक्तानां कलापैर्निर्मितजालकैर्गुच्छरावृतेनाच्छादितेन । उपरीति । उपरि ऊर्ध्वं चिह्नीकृतं लाञ्छनीकृतं केसरिण सिंहमुद्हता धारयतातिमहतातिमहीयसा कार्तस्वरदण्डेन सुवर्णदणेडन कृत्वा ध्रियमाणेन धार्यमाणेन । उभयत इति । उभयत उभयपार्ययोः समुद्भूयमानो वीज्यमानो यश्चामरकलापो वालव्यजनसमूहस्तस्य यः पवनः समीरणस्तेन नर्तिता लास्य कारिताः कर्णपल्लवा यस्य स तथा । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 दूरावनतैः शिरोभिः प्रणेमुरित्येवान्चयः 2 शेषस्य श्वेतत्वं सुप्रसिद्धम् । अत एव तच्छत्रस्य वासुकि(शेष)फणामण्डलेन साम्यम् । क्षीरोदफेनेस्तस्य ततोप्यतिशयितशुभ्रत्वमित्यर्थः । 3 छत्रे सिंहमूर्तिः राजचिह्नत्वेनाङ्कितेत्यर्थः ।
पाठा० - १ निवारणायस्ता; निवारणयासितहस्ताः; निवारणयायासि. २ ग्रहणम्. ३ संघट्टित. ४ अभिषेकतया. ५ समानयित्वा. ६ निवासयोग्य. ७ मुक्ताफलककलाप. ८ परिवृतेन. ९ कार्तस्वरेण दण्डेन.
नगरं प्रति प्रस्थानम्
पूर्वभागः ।