________________
यतेव रसातलमतिनिष्टुरेण खुरपुटानां रवेण रजोनिरुद्धघ्राणघोरघोषेण च हेषितेने बधिरीकृतसकलत्रिभुवनविवरम्, अशिशिरदीधितिसंस्पर्शस्फुरितविमलफलकेनो/कृतेन कुन्तलतावनेनोन्नालनीलोत्पलकलिकावनगहनं सर इव गगनतलमलकुर्वाणम्, उद्दण्डमायूरातपत्रसहसान्धकारिताष्टदिङ्मुखतया स्फुरितशतमन्युचापकलापकल्माषमिव जलधरवृन्दम्, उद्धमत्फेनपुञ्जधवलितमुखतयानवरतवल्गनचटुलतया च प्रलयसागरजलकल्लोलसंघातमिव समुद्गतम्, अदृष्टंपर्यन्तमश्चसैन्यमपश्यत् । तच्च सागरजलमिव चन्द्रोदयेन चन्द्रापीडनिर्गमेन सकलमेव संचचालाश्चीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्य -
***********
रसातलं पृथ्वीतलं जर्जरयतेव प्रशिथिलावयवं कुर्वतेवातिनिष्टुरेणातिकठिनेन खुरपुटानां शफपुटानां रवेण ध्वनिना । पुनः केन । रजसा निरुद्धमावृतं यद्माणं घोणा तस्य यो घोरघोषो घोरध्वनिस्तेन हेषितेन शब्दितेन । चकारः समुच्चयार्थः । पुनः प्रकारान्तरेण विशेषयन्नाह . अशिशिरेति । अशिशिरदीधितिः सूर्यस्तेन यः संस्पर्शः संश्लेषस्तेन स्फुरितं देदीप्यमानं विमलफलक निर्मलावरणं यस्मिंस्तेनो/कृतेनोर्ध्वं स्थापितेन कुन्तलताः । कुन्तः प्रासः । सरलत्वाल्लतोपमानम् । तासां वनं तेनो नालानि मृणालानि यास्वेवंविधा या नीलोत्पलकलिका इन्दीवरकोरकास्तासां वनं तेन गहनं सर इव तटाक इव गगनतलमाकाशतलमलकुर्वाणं शोभा विदघानम् । अत्र लोहफलकस्य नीलत्वसाम्यात्रीलोत्पलोपमानं कुन्तानां च सरलत्वसाम्यान्मृणालोपमानम् । नीलत्वसाम्याद्गगनतलस्य सरस उपमानम् । ऊर्ध्वं दण्डा येष्वेवंविधानि यानि मायूरातपत्राणि मयूरपिच्छनिर्मितानि छत्राणि तेषां सहसं तेनान्धकारिता अन्धकार प्रापिता अष्टौ दिङ्मुखास्तेषा भावस्तत्ता तया स्फुरितो दीप्यमानः शतमन्युरिन्द्रस्तस्य यश्चापकलापो धनुःसमुदायस्तेन कल्माष कर्बुर जलधरवृन्दमिव मेघसमूहमिव । उद्घमदहिनिःसरयः फेनोऽश्चमुखकफस्तस्य पुञ्जस्तेन धवलितानि शुभ्रीकृतानि यानि मुखानि तेषां भावस्तत्ता तयानवरतं निरन्तर यद्वल्गनमन्योन्यसंघट्टस्तेन या चटुलता चञ्चलता तया च प्रलयकालीनो यः सागरः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तेषा संघातमिव समहमिव समद्गतं प्रादुर्भतम् । फेनचलत्वसाम्येन सागरोपमानमिति । अदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत । सोऽश्वसैन्यमपश्यदित्यन्वयस्तु प्रागेवोक्तः । तच्चेति । तच्च सकलमेव समग्रमेवाश्चीयं सैन्यं चन्द्रापीडनिर्गमेन संचचालाचालीत् । केन किमिव । चन्द्रोदयेन सागरजलमिव समुद्रपानीयमिव । अहंपूर्वमहंपूर्वमित्यहमहमिका । स्पर्धेत्यर्थः । तया प्रणामलालसाः प्रणामे नमस्कृती लालसा लोलुपा राजपुत्रा नृपसुतास्तं चन्द्रापीडं पर्यवारयन्त परिवेष्टनमकुर्वत । राजसुतान्विशेषयन्नाह - सरभसेति । सरभसं सवेगमपनीटिप्प० - 1 पूर्वसंपादकेनाऽत्र वर्णनस्याऽस्येदमर्थघटनं कृतं । अशिशिरदीधितेः सूर्यस्य संस्पर्शेन स्फुरितं देदीप्यमानम् (चमत्कुर्वत्) विमलं फलकम् अग्रदेशः (तीक्ष्णाग्रलोहमुखम्) यस्य तेन, ऊ/कृतेन ऊर्ध्वमुखं स्थापितेन, कुन्ताः भल्लाः एव लताः (लतावल्लम्बाकारत्वात्) तासां वनेन समूहेन (करणभूतेन), उन्नालानां नीलोत्पलकलिकानां वनेन काननेन गहनं नीरन्ध्र सरः सरोवरमिव गगनतलम् अलंकुर्वाणं शोभयत् । नीलोत्पलवनेन यथा सरोवरमलंक्रियते तथा कुन्तसमूहेन गगनमलंकृतमित्याशयः । 2 छत्रसहसेण अन्धकारितानि (अन्धकारयुक्तानि कृतानि) अष्टदिङ्मुखानि येन स मायूरातपत्रसहसान्धकारिताष्टदिङ्मुखस्तत्तया इन्द्रधनुश्चित्रितं मेघवृन्दमिव स्थितमित्यर्थो बोध्यः । 3 शुभ्रीकृतानि वदनानि यस्मिन् तद्भावः तत्ता तया । इत्यर्थ उचितः ।
-
-
पाटा० - १ खुररजो; प्रचुररजो. २ हेषितेन. ३ भुवनं. ४ अशिशिरकिरणदीधितिपरामर्श. ५ ऊर्चीकृत. ६ अन्धकारित. ७ कल्माषितम्. ८ पूर्व तम्. ९ अधीय सन्यम्; अप्रमेयमश्वसैन्यम्. १० चन्द्रोदयेनेव.
180
कादम्बरी।
कथायाम