SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ न्तःकरणमस्य दिव्यताम्' इति विचिन्तयन्त्रेवारुरुक्षुरासनादुदतिष्ठत् । मनसा च तं तुरङ्गममेनुपसृत्य 'महात्मन्नर्वन्, योऽसि सोऽसि । नमोस्तु ते । सैर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् । अपरिगतानि दैवतान्यप्यनुचितपरिभवभाञ्जि भवन्ति' इत्यामन्त्रयांबभूव । विदिताभिप्राय इव स तमिन्द्रायुधश्चटुलशिरः केसरसटाहतिकूणिताकेकरतारकेण तिर्यक्चक्षुषा विलोक्य मुहुर्मुहुस्ताडयता क्षितितलमुत्खातधूलिधूसरितक्रोडरोमराजिना दक्षिणखुरेणारोहणायाह्वयन्निव स्फुरितघ्राणविवरघर्घरध्वनिमिश्रं मधुरमपैरुषहुंकारपरम्परानुबद्धमतिमनोहरं हेषारवमकरोत् । अथानेन मधुरहेषितेनं दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारुरोह चन्द्रापीडः । समारुह्य तं प्रादेशमात्रमिव त्रैलोक्यमखिलं मन्यमानो निर्गत्य जलधरविमुक्तोपलासारपरुषेण जर्जर - ** आस्वादितः प्रभावो माहात्म्यं येषां ते तथा नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृह्येमं लोकं बभ्रमुर्भ्रमितवन्तः । असंशयं निःसंशयमनेनापि केनापि महात्मना महापुरुषेण शापभाजा भवितव्यम् । मदन्तःकरणं मन्मानसमस्य तुरङ्गस्य दिव्यतां देवत्वमावेदयतीव ज्ञापयतीव । इति विचिन्तयन्त्रेवेति ध्यायन्नेव आरुरुक्षुरारोढुमिच्छुरासनात्सिंहासनादुदतिष्ठदुत्थितो बभूव । तं तुरङ्गममनुपसृत्य तत्समीपेऽनागत्य मनसैवं महात्मन् हे अर्वन् हे अश्व, योऽसि सोऽसि यत्तद्भवसि । अतोऽलक्ष्यस्वरूपायानाकलनीयात्मने ते तुभ्यं नमो नमस्कारोऽस्तु । सर्वथा सर्वप्रकारेणास्माकमारोहणेन योऽतिक्रमोऽवज्ञा स मर्षणीयः सहनीयः । अपरिगतान्यज्ञातानि दैवतान्यनुचितोऽयोग्यो यः परिभवः क्लेशस्तद्भाजि भवन्तीति हेतोरामन्त्रयांबभूवामन्त्रणं चकार । स इन्द्रायुधोऽश्वस्तं चन्द्रापीडं स्वस्मिन्नारोहणेऽनुमतिरेव नापराध इति स्वाभिप्रायं स्वाङ्गक्रियाभिः स्पष्टयन्विदितो ज्ञातोऽभिप्राय आरोहणानुमतिलक्षणो येनैतादृश इव हेषारवं हेषाशब्दमकरोदित्यन्वयः । अथ हेषारवं विशेषयन्नाह - स्फुरितेति । स्फुरितो धूतो यो घ्राणविवरो नासिकारन्ध्रं तस्य यो घर्घरध्वनिरव्यक्तः शब्दस्तेन मिश्र संयुक्तं मधुरं कर्णसुखदमतएवापरुषमकठोरं हुंकारस्य हुंकृतेर्या परम्परा संतानं तयानुबद्धं सहितमत एवातिमनोहरमतिरमणीयम् । चटुलं चञ्चलं यच्छिर उत्तमाङ्गं तस्य या केसरलक्षणा सटा जटा तस्या आहतिराघातस्तया कूणिता किंचिन्निम्ना आकेकरा किंचिद्वक्रा तारका कनीनिका यस्मिन्नेवंभूतेन चक्षुषा नेत्रेण तिर्यक्तिरश्चीनं विलोक्य निरीक्ष्य मुहुर्मुहुर्वारंवारं क्षितितलं पृथ्वीतलं ताडयतास्फालयतोत्खातोत्खनिता या धूलिः पांसुस्ता धूसरिता धूम्रा क्रोडरोमराजिर्भुजान्तरालकपङ्क्तिर्यस्मिन्नेवंविधेन दक्षिणखुरेणापसव्यशफेनारोहणायाधिरोहणायाह्वयन्निवाह्वानं कुर्वन्निव । अथेत्यानन्तर्ये । अनेन मधुरहेषितेन दत्तारोहणाभ्यनुज्ञ इव दत्तारोहणेऽभ्यनुज्ञा यस्यैवंविध इव चन्द्रापीड इन्द्रायुधमारुरोहाधिरूढः । तमिति । तमिन्द्रायुधं समारुह्यारोहणं कृत्वाखिलं समग्रं त्रैलोक्यं त्रिविष्टपं प्रादेशमात्रमिति तर्जन्यङ्गुष्ठे वितते सति यन्मानं तत्प्रादेशः कथ्यते । यदाह - 'प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम्' इत्यभिधानचिन्तामणिः । तद्वदिव मन्यमानो ज्ञायमानः । निर्गत्येति । निर्गत्य ततो बहिरागत्य स चन्द्रापीडोऽश्वसैन्यमपश्यदित्यन्वयः । अश्वसैन्यं विशिनष्टि - इन्द्रायुधं वा । बधिरीकृतमकर्णतां प्रापितं सकलत्रिभुवनविवरं येन तत् । केन । जलेति । जलधरविमुक्तो य उपलासारः करकासारस्तद्वत्परुषेण रूक्षेण टिप्प० 1 जानन्नित्यर्थः । पाठा० - १ उपसृत्य; समुपसृत्य. २ सर्वथा स्थितेन. ३ कूणित. ४ रोहणाय. ५ अपरुषम्. ६ हेषितेन. ७ त्रैलोक्यं मन्यमानः ८ प्रलयजलधर. ९ उपलसारपातपरुषेण. चन्द्रापीडस्य विद्यागृहात् प्रत्यावर्तनम् पूर्वभागः । 179
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy