________________
राज्यलक्ष्मीर्यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरणतामागच्छन्ति । अतितेजस्वितया महाप्राणतया च सदैवतेवेयमस्याकृतिर्यत्सत्यमारोहणे शङ्कामिव मे जनयति । न हि सामान्यवाजिनाममानुषलोकोचिताः सकलत्रिभुवनविस्मयजनन्य ईदृश्यो भवन्त्याकृतयः । दैवतान्यपि हि मुनिशापवशादुज्झितनिजेशरीराणि शापवचनोपनीतान्येतानि शरीरान्तराण्यध्यासत एव । श्रूयते हि पुरा किल स्थूलशिरा नाम महातपा मुनिरखिलत्रिभुवनललामभूतामप्सरसं रम्भाभिधानां शशाप । सा सुरलोकमपहायाश्चहृदये निवेश्यात्मानमश्चहृदयेति विख्याता वडवा मृत्तिकावत्यां शतधन्वान नाम राजानमुपसेवमाना मर्त्यलोके महान्तं कालमुवास । अन्ये च महात्मानो मुनिजनशापपरिपीतप्रभावा नानाकारा भूत्वा बभ्रमुरिमं लोकम् । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मद -
***********
तातिक्रान्ता त्रिदशराज्यसमृद्धिदेवाधिपत्यश्रीर्ययैवंविधा वर्तते । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - यदिति । एवंविधान्यपि पूर्वोक्तस्वरूपाण्यपि सकलत्रिभुवनदुर्लभानि त्रिजगहुःप्राप्याणि रत्नान्युपकरणतां परिभोग्यतामागच्छन्ति प्राप्नुवन्ति । अतीति । अतितेजस्वितया महाप्राणतया महासाहसपराक्रमतया । चकारः समुच्चयार्थः । अस्य अवस्येयमाकृतिराकारः सदैवता स्वर्वासिना सहवर्तमाना । अधिष्ठितेति यावत् । सत्यमेतद्यस्मादारोहणेऽधिरोहणे मे मम शङ्कामिव जनयति । नहि सामान्यवाजिनां दैवतानधिष्ठिततुरङ्गमाणाममानुषलोकोचिताः सुरलोकयोग्याः सकलं समग्रं यत्रिभुवनं त्रिविष्टपं तस्य विस्मयजनन्य आश्चर्योत्पादिन्य ईदृश्य एतादृशा आकृतय आकारा भवन्ति । देवानामपि रूपान्तरग्रहणं संभवतीत्याशयेनाह - दैवतेति । हीति निश्चितार्थे । दैवतान्यपि नाकिनोऽपि मुनयो योगिनस्तेषां शापवशादननुग्रहबलादुज्झितानि त्यक्तानि निजशरीराणि यैरेवंभूतानि शापवचनोपनीतानि शापवाक्यप्रापितानि शरीरान्तराणि स्वशरीराद्भिनेन्द्रियायतनान्यध्यासत एवाश्रयन्त्येव । श्रूयते हीति । किलेति सत्ये । हि निश्चये । श्रूयते आकर्ण्यते । पुरा पूर्व स्थूलशिरा नाम महातपा मुनिरखिलं समग्र यत्रिभुवनं त्रिविष्टपं तत्र ललामभूतामाभरणभूतामप्सरसं स्वर्वधूम् । क्वचिदेकवचनान्तोऽप्ययम् । तदुक्तम्- 'स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा इति' इति । रम्भाभिधाना रम्भानाम्नी शशाप शापं दत्तवान् । सा सुरलोक देवलोकमपहाय विहायाश्चहृदये तुरङ्गमोरस्यास्मानं निवेश्य संस्थापा । अश्वशरीरं परिगृह्येत्यर्थः । अतएवाश्चहृदयेति विख्याता वडवा मृत्तिकावत्यां मृत्तिकावती नगरी तस्यां भवं शतधन्वानं नाम राजानमुपसेवमाना भजमाना मर्त्यलोके नृलोके महान्तं भूयास कालं समयमुवासोषितवती । अत्र कथा-'स्थूलशिरा नाम महर्षिः कुशसमिदर्थं पर्यटन् महति वभ्रान्तरे पतामः परित्रायस्व परित्रायस्व' इत्युच्चतरं ध्वनिमश्रृणोत् । गत्वा च तत्र क्षामशरीरान्पुरुषास्तत्र लग्नान्प्रलम्बमानानपश्यत् । पृष्टाश्च 'के यूयम् इति । ते च पितर इत्यवोचन् 'त्वया चापत्योत्पत्तिर्न कृता । तद्विरहात्त्वदुपरमे पुनाम्नि नरके पतिष्यामः' इति । तच्छ्रुत्वा महर्षी रम्भाभिधानामेव योषितमिदमुक्तवान्- 'त्वां कामयामः' इति । तया चोक्तम्- 'यथाज्ञापयसि । किंतु देवकार्यं कृत्वागच्छामि । क्षम्यतां तावत्' इति । गतायां संकेतभङ्गो जात इति महर्षिणा क्रुद्धेन 'वडवा भव' इति सा शप्ता 'नरनारायणविग्रहावधिश्च शापो भविष्यति' इति x x x x । अन्ये चेति । अन्ये महात्मानोऽपरे गरीयांसो जना मुनिजनाना तपस्विनां शापेनाननग्रहेण परिपीत -
-
-
-
-
-
-
- - - - - - - - - - - - - - टिप्प० - 1 सदैवता कयाचिद्देवतयेव अधिष्ठिता ।
पाटा० - १ सर्वदैवतेयम्. २ शरीरकाणि. ३ शापवचनबलोपनीतानि. ४ शरीराणि. ५ पुरा स्थूलशिराः. ६ भुवन. ७ वडवा भूत्वा. ८ मूर्तिकावत्याम्.
178
कादम्बरी।
कथायाम्-)