________________
शङ्खमालिकाभरणम्, भीतमिव स्तब्धकर्णम्, विद्याधरराज्यमिव चक्रवर्तिनरवाहनोचितम्, सूर्योदयमिव सकलभुवनाहिम्, अश्वातिशयमिन्द्रायुधमद्राक्षीत् । दृष्ट्वा च तमदृष्टपूर्वममानुषलोकोचिताकारमखिलत्रिभुवनराज्योचितमशेषलक्षणोपपन्नमश्वरूपातिशयमतिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श विस्मयं हृदयम् । आसीच्चास्य मनसि सरभसपरिवर्तनवलितवासुकिभ्रमितमन्दरेण मथ्नता जलधिजलमिदमश्वरत्नमनभ्युद्धरता किं नाम रत्नमुद्धृतं सुरासुरलोकेन । अनारोहता च मेरुशिलातलविशालमस्य पृष्ठमाखण्डलेन किमासादितं त्रैलोक्यराज्यफलम् । उच्चैःश्रवसा विस्मितहृदयो वञ्चितः खलु जलनिधिना शतमखः । मन्ये च भगवतो नारायणस्य चक्षुर्गोचरमियंता कालेन नायमुपगतो येनाद्यापि तो गरुडारोहणव्यसनितां न त्यजति । अहो खल्वतिशयितत्रिदशराज्यसमृद्धिरियं तातस्य -
*********** पक्षे चक्रवर्ती यो नरवाहनो वत्सराजसुतो विद्याधरस्तस्योचितं योग्यम् । विद्याधरादिषु नरवाहनराजकीयत्वस्य प्रसिद्धत्वादित्युपमानम् । सूर्योदयमिव सकलं समग्रं भुवनं जगदेवा? मूल्यं तस्याहं योग्यम् । सर्वोत्कृष्टमित्यर्थः । पक्षे सकलभुवनास्यार्घः पूजा तस्याहम् । योग्यमित्यर्थः । 'सकलभुवननाथार्हम्' इति कुत्रचित्पाठः । तत्र समग्रभुवनस्य नाथः स्वामी तस्याहं योग्यम् । पक्षे सकलभुवनस्य नाथ आशीस्तस्या अहँ योग्यम् । ध्वान्तध्वंसकत्वेन त्रिभुवनेन मङ्गलशंसनमस्य क्रियत इति भावः । अधेषु तुरङ्गमेष्वतिशयमत्युत्कृष्टमेवंविधमिन्द्रायुधमद्राक्षीदपश्यदिति । अन्वयस्तु प्रागेवोक्तः । तमदृष्टपूर्वमनवेक्षितपूर्वं दृष्ट्वा विलोक्यातिधीरप्रकृतेरप्यतिसाहसभावस्यापि चन्द्रापीडस्य हृदयं विस्मयमाश्चर्यं पस्पर्श स्पृष्टवदित्यन्वयः । तमेव विशेषयन्नाह - अमान्विति । अमानुषो यो लोको देवलोकस्तस्योचितो योग्य आकार आकृतिर्यस्य स तम् । अखिलं समग्रं त्रिभुवनराज्यं यस्य, अखिलं त्रिभुवनराज्यं वा तस्योचितं योग्यम् । अशेषलक्षणैरुपपन्नं सहितम् । अवस्य यद्रूपं तदेवातिशयमत्युत्कृष्ट यस्मिन् । अस्य चन्द्रापीडस्य मनसि चित्त इदमासीद्धभूव । तदेवाह - सरभसेति । सरभसं वेगवत्तरं परिवर्तनार्थं वलितो बद्धो यो वासुकिः सर्पस्तेन भ्रमितो यो मन्दरो मेरुस्तेन जलधिजलं समुद्रपानीयं मथ्नता विलोडयतेदमश्वरत्नमनभ्युद्धरतागृह्णता सुरासुरलोकेन । किमिति प्रश्ने । नामेति कोमलामन्त्रणे । रत्नं वसूद्धृतम् । न किंचिदुद्धृतमिति भावः । अनेति । मेरुशिलातलवद्विशाल विस्तीर्णमस्य पृष्ठं पृष्ठप्रदेशमनारोहतानधिरोहताखण्डलेनेन्द्रेण त्रैलोक्यराज्यफलं किमासादितम् । न किमपीत्यर्थः । उच्चैरिति । खलु निश्चयेन उच्चैःश्रवसा कृत्वा विस्मितहृदयो हर्षितहृदयो जलनिधिना समुद्रेण शतमख इन्द्रो वञ्चितो विप्रतारितः । गुणातिशयं प्रतिपादयितु वितर्कमाह - मन्ये चेति । अहमिति मन्य इति जाने । इयता कालेन भगवतो नारायणस्य चक्षुर्गोचर नेत्रविषयमयं नोपगतो न प्राप्तः । हेतुमाह - येनेति । येन हेतुनाप्येतावत्कालपर्यन्तमपि । तां गरुडारोहणव्यसनितां वैनतेयाधिरोहणासक्ततां न त्यजति न जहाति । अहो इत्याश्चर्ये । खलु निश्चयेन तातस्य मत्पितुरियं राज्यलक्ष्मीराधिपत्यश्रीरतिशयि - - - टिप्प० -1 मतान्तरेण स्वयं नरवाहनो न विद्याधरः । किन्तु उदयनाभिधानाद्वत्सराजाद्वासवदत्तानाम्न्यां महिष्यां नरवाहनदत्ताख्यः पुत्रो बभूव यो हि विद्याधरराज्यमधितष्ठाविति कथासरित्सागरे कथा । 2 अश्वरूपो यः अतिशयः लोकातीतः कश्चिदतिरेकः (अद्भुतः पदार्थः) तम् । 3 सरभसं यत्परिवर्तन मथन तत्र वलितो वेष्टितः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ भुवनाभ्यर्हम्. २ विस्मयः. ३ विवर्तन. ४ चलित. ५ जलनिधि. ६ अभ्युद्धरता; अनुद्धरता पूर्वम्. ७ सुरलोकेन. ८ इयतापि. ९ त गरुडाधिरोहणव्यसनिता. १० परित्यजति. ११ अतिशय. १२ राज.
इन्द्रायुधः
पर्वभागः
I
NIY177)