________________
नितविषमखरमुखरवैः पृथुभिः खुरपुटैर्जर्जरितवसुंधरैर्मुरजवाद्यमिवाभ्यस्यन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, प्रसारितमिव कंधरायाम्, उल्लिखितमिव पार्श्वयोः, द्विगुणीकृतमिव जघनभागे, जैवप्रतिपक्षमिव गरुत्मतः, त्रैलोक्यसंचरणसहायमिव मारुतस्य, अंशावतारमिवोच्चैःश्रवसः, वेगैसब्रह्मचारिणमिव मनसः, हरिचर - णमिव सकलवसुंधरोल्लङ्घनक्षमम्, वरुणहंसमिव मानसप्रचारम्, मधुमासदिवसमिव विकसिताशोकपाटलम्, व्रतिनमिव भस्मसितपुण्ड्रकाङ्कितमुखम्, कमलवनमिव मधुपङ्कपिङ्गकेसरम्, ग्रीष्मदिवसमिव महायाममुग्रतेजसं च, भुजंगमिव सदागत्यभिमुखम्, उदधिपुलिनमिव
-
176
**:
गमनं तस्माज्जनितः समुत्पन्नो यो विषमोऽसदृशः खरः कठिनो मुखेरवो येषां तैः । पृथुभिर्विस्तीर्णेर्जर्जरिता जर्जरीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्यमिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् । पुनरप्यस्य शालिहोत्रप्रोक्तमवयवेषु गुणातिशयं वेगलाघवक्रियातिशयं च प्रतिपादयितुमस्य विशेषणान्याह - उत्कीर्णेति । उत्कीर्णमिव यन्त्रघर्षितमिव जङ्घासु प्रसिद्धासु । विस्तारितमि प्रसारितमिवोरसि हृदये । श्लक्ष्णीकृतमिव सौन्दर्यविशेषमापादितमिव मुखे वदने । प्रसारितमिव विस्तीर्णीकृतमिव कंधरायां ग्रीवायाम् ! उल्लिखितमिवोत्कीर्णमिव पार्श्वयोः प्रसिद्धयोः । नानागुणव्यञ्जकरेखोपरेखावत्त्वादित्युपमानम् । द्विगुणीकृतमिव द्विगुणतामापादितमि जघनभागेऽग्रभागे । जयप्रतिपक्षमिव वेगर्दस्युमिव गरुत्मतो गरुडस्य । त्रैलोक्यसंचरणसहायमिव त्रिविष्टपगमनसखायमिव मारुतस्य बायोः । उच्चैःश्रवस इति । उच्चैःश्रवा अमृतमथनसमुत्पन्नोऽश्वो देवराजस्येतस्यांशावतारमिवांशेनावतरणमिव । मनोवेग सब्रह्मचारिणं सतीर्थ्यमिव । ऋद्धस्य राजमातङ्ग इतिवन्मनसोऽभिन्नत्वेऽपि संबन्धः । सकलवसुंधरोल्लङ्घनक्षमं हरिचरणमिव जनार्दनापादमिव ।. वरुणस्य प्रचेतसो यो हंसस्तमिव । इति उभयविशेषणानि - मानसप्रचारं मानसं मनस्तद्वत्प्रचारो गमनं यस्य स तम् । पक्षे मानससरसि प्रचारो यस्येति विग्रहः । अत्र वरुणेतिपदमुत्कर्षातिशयप्रतिपादनार्थम् । मध्विति । मधुमासो वसन्तमासस्तस्य यो दिवसो दिन चैत्रमासदिनं तद्बदिव विकसितो योऽशोकः कङ्केल्लिस्तद्वत्पाटलं श्वेतरक्तम् । पक्षे विकसितानि विनिद्राण्यशोकानि कङ्केल्लिपुष्पाणि पाटलानि पाटलवृक्षकुसुमानि यस्मिन् । अशौकैः पाटल इति वा । भालस्थश्वेतपट्टाभिप्रायेणाह - व्रतिनमिति । व्रतिनं संन्यासिनमिव भस्मवत्सितं शुक्लं यत्पुण्ड्रकं तिलकं तेनाङ्कितं चिह्नितं मुखं यस्य स तम् । पक्षे भस्मनः सितं तिलकम् । शेषं पूर्ववत् । कमलस्य नलिनस्य यद्वनं तदिव । मधुयुक्तो यः पङ्को वचाकर्दमस्तेन पिङ्गानि बभ्रूणि । रक्तपीतानीत्यर्थः । केसराणि स्कन्धरोमाणि यस्मिन् । उक्तं हि वैद्य के'अश्वस्य वातादिदोषशान्तये मधुयुक्तवचादिचूर्णस्य पङ्कस्तेन तनुलेपनम्' । पक्षे मधु पुष्परसस्तस्य पङ्कः कर्दमस्तेन पिङ्गानि केसराणि यस्मिन् । ग्रीष्मस्य निदाघस्य दिवसो वासरस्तमिव महायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् । उग्रतेजस च । विशेषणमुभयत्र समानम् । भुजंगः सर्पस्तद्वदिव सदा निरन्तरं या गतिर्गमनं तस्या अभिमुखं संमुखम् । पक्षे सदागतिर्वायुस्तस्याभिमुखम् । वातपानकारित्वात् । उदधिः समुद्रस्तस्य पुलिनं सैकतं तद्वदिव शङ्खा कम्बवस्तेषां मालिका पङ्क्तिः सैवाभरणं भूषणं यस्येत्यभङ्गश्लेषः । अश्वानां गले शङ्खमालिकाबन्धनस्य सर्वत्र प्रसिद्धत्वात्समुद्रपुलिनोपमानम् । भीतं भयाकुलं तद्वदिव स्तब्धौ निश्चली कर्णौ श्रोत्रे यस्येत्यभङ्गश्लेषः । विद्याधरा व्योमचारिणस्तेषां राज्यमाधिपत्यं तदिव चक्रवर्ती यो नरस्तस्य वाहनं उद्वहनं उचितं योग्यम् ।
टिप्प० 1 अग्रभागध्वनिः । 2 वेगे प्रतिस्पर्धिनमित्यर्थः ।
पाठा० - १ विषमस्वरमुख; विषममुख. २ जय. ३ वेगरथ ४ विकासित ५ उग्रतेजसा भुजगम्.
कादम्बरी |
कथायाम्