________________
लशिखरेण कर्णयुगलेन विराजमानम्, उज्ज्वलंकनकशृङ्खलारचितरश्मिकलापकलितया लाक्षालोहितलम्बलोलसटासंतानया जलनिधिसंचरणलग्नग्रविद्रुमपल्लवयेव शिरोधरयोपशोभितम्, अतिकुटिलकनकपत्रलताप्रतानभङ्गरेण पदे पदे रणितरत्नमालेन स्थूलमुक्ताफलप्रायेण तारागणेनेव संध्यारागमरुणेनाश्चालंकारेणालंकृतम्, अचालंकारनिहितमरकतरत्नप्रभाश्यामायमानदेहतया गगनतलनिपतितदिवसकररथतुरङ्गमशामिवोपजनयन्तम्, अतितेजस्वितया जवनिरोधरोषवशात्प्रतिरोमकूपमुद्गतानि सागरपरिचयलग्नानि मुक्ताफलानीव स्वेदलवजालकानि वर्षन्तम्, इन्द्रनीलमणिपादपीठानुकारिभिरञ्जनशिलाघटितैरिवानवरतपतनोत्पतनज -
***********
विगतमांसतया समुत्कीर्णमिव यन्त्रकर्षितमिव वदनमाननमुदहन्तं धारयन्तम् । आननमण्डलं मुखमण्डलं तत्र निहिताः स्थापिता येऽरुणमणयः पद्मरागरत्नानि तेभ्यः समुद्गतैनिःसृतैरंशुकलापैर्दीप्तिसमूहैरुपेतेन सहितेनावसक्तानि लग्नानि रक्तचामराणि लोहितवालव्यजनानि यस्मिन्नेवंभूतेनेव निश्चलं स्थिरं शिखरमग्रं यस्य तेन कुर्णयुगलेन श्रवणद्वितयेन विराजमानं शोभमानम् । तस्य श्रृङ्गारवर्णनद्वारा विशेषयन्नाह-उज्ज्वलेति । उज्ज्वला निर्मला या कनकश्रृङ्खला सुवर्णश्रृङ्खला तया रचिता निर्मिता ये रश्मयोऽधानां संयमनाधोरज्जवस्तेषां कलापस्तेन कलितया सहितया । लाक्षेति । लाक्षा जतु तबल्लोहिता रक्ता लम्बा विस्तीर्णा लोलाञ्चपला या सटाः स्कन्धकेसरास्तस्याः संतानं यस्याः सा तया । जलनिधौ समुद्रे यत्संचरणं भ्रमणं तत्र लग्ना आसक्ता विद्रुमपल्लवाः प्रवालकिसलया यस्यामेवंविधयेव शिरोधरया ग्रीवयोपशोभितं विराजितम् । अलंकारद्वारा विशेषयन्नाह - अतीति । अतिकुटिलातिवक्रा या कनकपत्रलता सुवर्णपत्रभङ्गिस्तस्याः प्रतानं समूहस्तेन भङ्गुरेण वक्रेण, पदे पदे रणिता शब्दिता रत्नमाला यस्मिन्स तेन । स्थूलमुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंभूतेनारुणेन रक्तेनाचालंकारेणालंकृतं भूषितम् । अलंकारस्यारुणत्वान्मुक्ताफलानां च श्वेतत्वादुत्प्रेक्षामाह - तारेति । तारागणेन विभूषितं संध्यारागमिव । संध्यारागपक्षेऽरुणो गरुडाग्रजः प्रकृते रक्तिमा । पुनरुपमानान्तरमाह - अश्चेति । अश्वालंकारे निहितानि स्थापितानि यानि मरकतरत्नान्यश्मगर्भानि तेषां प्रभा कान्तिस्तया श्यामायमानः कृष्णतां समाचरमाणो देहो यस्य तस्य भावस्तत्ता तया गगनतलादाकाशतलानिपतितो यो दिवसकरस्य सूर्यस्य रथतुरङ्गमः स्यन्दनहयस्तस्य शङ्कामारेकामुपजनयन्तमिवोत्पादयन्तमिव । सूर्यरथाश्वानां हरितत्वादिति भावः । अतितेजस्विनो भावोऽतितेजस्विता तया जवस्य वेगस्य यो निरोधोऽन्तरान्तरा रुन्धनं तस्माद्यो रोषः क्रोधस्तद्वशाच्चेति हेतुद्वयम् । प्रतिरोमकूपं प्रतिरोमरन्ध्रमुद्गतानि प्रादुर्भूतानि स्वेदलवजालकानि प्रस्वेदबिन्दुसमूहानि वर्षन्तं वृष्टिं कुर्वन्तम् । धेतत्वसाम्यादुपमानान्तरमाह - सागरेति । सागरपरिचयात्समुद्रोत्पन्नत्वाल्लग्नानि मुक्ताफलानीव रसोद्भवानीव । शालिहोत्रोक्ताः खुरपुटेषु गुणाः । तद्द्वारा विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणिनिर्मितं यत्पादपीठं पदासनं तदनुकारिभिस्तत्सादृश्यधारिभिः । अतोऽञ्जनशिलाघटितैरिव श्यामशिलानिर्मितैरिवानवरतं निरन्तरं यत्पतनोत्पतनमुत्प्लुत्योत्प्लुत्य - - - - - - - - - - - - - - - - -
- - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 लाक्षावत् लोहितः लम्बो लोलश्च सटासंतानः (केसरसमूहः) यस्या इति व्याख्यायाः सरलोऽर्थः । 2 अवाभरणे अतिकुटिलानां स्वर्णनिर्मितपत्राकाराणां लतानां समूहो लग्नः, अत एव वक्राणां लतानां समूहवशात्तदाभरणमपि भङ्गरं वक्रमस्तीत्याशयः 3 रोधनमित्यर्थः । 4 प्रस्तावेऽस्मिन्नन्योऽपि विचारस्तद्यथा अतितेजस्विता स्वेदोद्गमे न हेतुः । किन्त्वयमर्थः-अतितेजस्वितावशात् यो जवनिरोधे रोषः (तेजस्विनो वेगरोधे कृते रोषः स्वाभाविक एव) तस्मात्प्रतिरोमकूपम् (प्रतिरोमकूपात्) उद्गतानि । 5 स्वेदलवजालकानि मुक्ताफलानीव वर्षन्तमित्युत्प्रेक्षा ।
पाठा० - १ रुचिर. २ इव च. ३ रागानुरागेण. ४ तुरग. ५ शङ्काम्. ६ कूपात्समुद्गता; कपात्समुद्गतानि. ७ परिचयाल्लग्नानि. ८ स्वेदजललव. ९ इन्द्रनीलपाद.
(इन्द्रायुधः ।
पर्वभागः ।