________________
आपिबन्तमिव संमुखागतमखिलमाकाशम्, अतिनिष्ठुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण हेषारवेण पूरितभुवनोदरविवरण निर्भर्त्सयन्तमिवालीकवेगदुर्विदग्धं गरुत्मन्तम्, अतिदूरमुन्नमता जवनिरोधस्फीतरोषघुरघुरायमाणेघोरघोणेन शिरोभागेन निजदर्पवशादुल्लङ्घनार्थमाकलयन्तमिव त्रिभुवनम्, असितपीतहरितपाटलाभिराखण्डलचापानुकारिणीभिर्लेखाभिः केल्माषितशरीरम्, आस्तीर्णविविधैवर्णकम्बलमिव कुञ्जरकलभम्, कैलासतटाघातधातुधूलिपाटलमिव हरवृषभम्, असुररुधिरपङ्कलेखालोहितसटमिव पार्वतीसिंहम्, रंहःसंघातमिव मूर्तिमन्तम्, अनवरतपरिस्फुरत्योथऍटोन्मुक्तसूत्कारेणातिजवापीतमनिलमिव नासिकाविवरेणोद्वमन्तम्, अन्तःस्खलितमुखरखलीनखरशिखरक्षोभजन्मनो लालाजलभुवः फे पल्लवानुदधिनिवासपरिपीतामृतरसगण्डूषानिवोदगिरन्तम्, अत्यायतमंतिनिर्मांसतया समुत्कीर्णमिव वदनमुदहन्तम्, आननमण्डलनिहितारुणमणिसमुद्गतैरंशुकलापैरुपेतेनावसक्तरक्तचामरेणेव निश्च -
***********
आपिबेति । संमुखागतमभिमुखागतमखिलं समग्रमाकाशं व्योमापिबन्तमिवास्वादयन्तमिव । निजजवेनेत्यध्याहारः । अतीति । अतिनिष्टुरेणातिकठिनेन मुहुर्मुहुः प्रकम्पितमुदररन्ध्र जठरविवरं येनैवंभूतेन हेषारवेण हेषाशब्देन । कीदृशेन । पूरितेति । पूरितं व्याप्त भवनोदरविवरं येन स तेन । अलीको वितथो यो वेगो जवस्तेन दुर्विदग्धं मिथ्याभिमानिनं गरुत्मन्तं सौपर्णेयं निर्भर्त्सयन्तमिव तिरस्कार कुर्वन्तमिव । क्रियास्वभावमाह - अतीति । अतिदूरमतिशयेनोन्नमतोधं कुर्वता शिरोभागेनोत्तमाङ्गप्रदेशेन । कीदृशेन । जवस्य वेगस्य यो निरोधः स्खलना तेन स्फीतो बहुलो रोषः क्रोधस्तेन घुरघुरायमाणा घुरघुरेतिशब्दं कुर्वाणा घोरा क्रूरा घोणा नासिका य(स्य)स्मिन् स तेन । निजः स्वकीयो यो दर्पोऽहंकार तद्वशात् उल्लङ्घनार्थमतिक्रमणार्थं त्रिभुवन त्रिविष्टपमाकलयन्तमिव विचारयन्तमिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - असितेति । आखण्डलस्येन्द्रस्य यच्चापं धनुस्तदनुकारिणीभिरसितपीतहरितपाटलाभिलेखाभिः कल्माषित कर्बुरितं शरीरं देहो यस्य स तम् । कर्बुरशरीरादेवोत्प्रेक्षामाह - आस्तीर्णेति । आस्तीर्ण आच्छादितो विविधवर्णो विचित्ररागः कम्बलो रल्लको यस्मिन्नेतादृशं कुञ्जरकलभमिव । कैलासस्य रजतानेर्यस्तटाघातो वप्रप्रघातस्तस्य या धातुधूलि रिकक्षोदस्तया पाटलं श्वेतरक्त हरवृषभमिवेश्वरधवलमिव । असुरस्य यो रुधिरपङ्को रक्तकर्दमस्तस्य या लेखा ततिस्तया लोहिता रक्ताः सटाः केसरा यस्यैवंविध पार्वतीसिंहमिव । रंहोवेगस्तस्य संघातं समूहमिव मूर्तिमन्तं देहधारिणम् । क्रियास्वभावमाह - अनवरतेति । अनवरतं निरन्तरं परिस्फुरदितस्ततःप्रसरसोथो मुखाग्रं तस्य पुटादुन्मुक्तो यः सूत्कारोऽव्यक्तः शब्दस्तेनातिजवेन वेगेनापीतमास्वादितमनिलमिव वायुमिव नासिकाविवरेण नासारन्ध्रेणोद्वमन्तं बहिर्निष्कासयन्तम् । द्रव्यस्वभावमाह - अन्तरिति । अन्तर्मध्ये स्खलितं स्खलनां प्राप्तं मुखरं वाचाल यत्खलीनं कैवीयं तस्य खरं लोहकण्टकयुक्तं यच्छिखरमग्रं तस्माद्यः क्षोभः परिश्रमस्तजन्मोत्पत्तिर्येषां ताँल्लालाजल रूपादानं येषा तान्फेनपल्लवान्फेनो मुखकफ उदधौ समुद्रे यो निवासोऽवस्थानं तत्र परिपीतो योऽमृतरसः पीयूषरसस्तस्य गण्डूषानिव चुलुकानिवोगिरन्तं वमन्तम् । अत्यायतमतिविस्तीर्णम् । जातिस्वभावमाह - अतीति । अतिनिर्मासतया सर्वथा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 उन्नमता ऊर्ध्वं गच्छता इत्येव व्याख्योचिता । सघुरघुरशब्दं शिरोभागस्योोत्रमनेन गर्वात्रिभुवनमुल्लङ्घयितुं वितर्कयन्तमिवेत्युत्प्रेक्षा । 2 कविका, इत्यर्थः । 3 तस्मात् जन्म उत्पत्तिर्येषां तानिति व्याख्योचिता । 4 लालाजलात् मुखसावजलात् भवन्ति ते लालाजलभुवः
पाठा० - १ उन्नमता च; अवनमता प्रतिक्षणमतिदूरमुत्रमता च; अबनमता प्रदक्षिणमतिदूरमुत्रमता च. २ माणघोणेन. ३ मुखेन. ४ निजजवदर्पवशात्; निजजवदपविशात्. ५ कल्मिषित; कल्मषित. ६ आस्तीर्णविचित्रवर्णकम्बलम्; आस्तीर्णकम्बलम्. ७ प्रोवोन्मुक्तफत्कारेण; पुटोन्मुक्तफूत्कारेण. ८ फेनलबानुदधीनिवास्य. ९ निर्मासतया. १० गण्ड.
(174)
174
कादम्बरी।
कथायाम्