________________
एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमितिकृत्वा 'जैलधिजलादुत्थितमयोनिजमिदमश्वरत्नमासादितं मया महाराजाधिरोहणयोग्यम्' इति संदिश्य प्रेहितः । दृष्ट्वा चै निवेदितं लक्षणविद्भिः- ‘देव, यान्युच्चैःश्रवसः श्रूयन्ते लक्षणानि तैरयमुपेतः । नैवंविधो भूतो भावी वा तुरङ्गमः' इति । तदयमनुगृह्यतामधिरोहणेन । इदं च मूर्धाभिषिक्तपार्थिवकुलप्रसूतानां विनयोपपन्नानां शूराणामभिरुपाणां कैलावतां च कुलक्रमागतानां राजपुत्राणां सहस्त्रं परिचारार्थमनुप्रेषितं तुरङ्गमारूढं द्वारि प्रणामलालसं प्रतिपालयति' । इत्यभिधाय विरतवचसि बलाहके चन्द्रापीडः पितुराज्ञां शिरसि कृत्वा नवजलधरध्यानगम्भीरया गिरा 'प्रवेश्यतामिन्द्रायुधः' इति निर्जिगमिषुरादिदेश ।
अथ वंचनानन्तरमेव प्रवेशितम्, उभयतः खंलीनककटकावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम्, अतिप्रमाणम्, ऊर्ध्वकरपुरुषप्राप्यपृष्ठभागम्,
1
प्रतोल्यां तिष्ठति । खलु निश्चयेन । एष इन्द्रायुधः पारसीकाधिपतिना यवनाधीशेन देवस्य स्वामिनस्त्रिभुवनाश्चर्यमिति कृत्वेति संदिश्येति कथयित्वा च प्रहितः प्रेषितः । इति वाच्यमाह - इदमश्वरत्नं मयासादितं प्राप्तं महाराजस्य स्वामिनस्तारापीडस्याधिरोहण आरोहणे योग्य समुचितम् । अस्मिन्नर्थे हेतुमाह - जलधीति । जलधिजलात्समुद्रोदकादुत्थितमतएवायोनिजं पुंस्त्रीसंबन्धादनुत्पन्नम् । दृष्ट्वा चेति । लक्षणविद्भिः शालिहोत्रशास्त्रज्ञैर्दृष्ट्वा निरीक्ष्य । तमिति शेषः । निवेदितं कथितम् । राज्ञ इति शेषः । देव हे स्वामिन्, यान्युच्चैःश्रवस इन्द्रतुरङ्गमस्य लक्षणानि चिह्नानि श्रूयन्त आकर्ण्यन्ते तैर्लक्षणैरयमिन्द्रायुध उपेतः सहितः । एवंविध एतादृशस्तुरङ्गमो न भूतः पूर्वं नासीन्न भावी भविष्यति नाग्रे । तदिति हेत्वर्थे । अयमश्वोऽधिरोहणेनानुगृह्यतामनुग्रहविषयीक्रियताम् । इदं राजपुत्राणां सहस्रं परिचारार्थ सेवार्थमनुप्रेषितम् । तुरङ्गमप्रेषणानन्तरं पश्चात्प्रेषितमिति भावः । एतदेव विशिनष्टि - मूर्धाभिषिक्ता ये पार्थिवा राजानस्तेषां कुलं वंशस्त्र प्रसूतानामुत्पन्नाना, 'विनयेन मर्यादयोपपन्नानां सहितानाम्, शूराणां साहसगुणोपेतानाम्, अभिरूपाणां मण्डितानाम्, कलावतां विज्ञानवताम्, कुलक्रमागतानां परम्परयागतानाम्, तुरङ्गमारूढमश्चाधिरूढं द्वारि प्रतोल्यां प्रणामलालसं प्रणामो नमस्कारस्तत्र लालसं कृतस्पृहं प्रतिपालयति कालक्षेपं करोति । इत्यभिधायेत्युक्त्वा बलाहके विरतवचसि सति चन्द्रापीडः पितुराज्ञां जनकनिदेशं शिरसि मस्तके कृत्वारोप्य । नवेति । नवो यो जलधरो मेघस्तस्य यो ध्वानः शब्दस्तद्वद्गम्भीरया मन्द्रया गिरा वाचा ततो निर्जिगमिषुर्निर्गन्तुमिच्छुरिन्द्रायुधः प्रवेश्यतामानीयतामित्यादिदेशाज्ञां दत्तवान् ।
अथ एतद्वाचनानन्तरमेव प्रवेशितं प्रवेशं कारितमिन्द्रायुधनामानमश्वमद्राक्षीदिति दूरेणान्वयः । तत्राश्वस्ययथासंभवं क्रियागुणद्रव्यजातिभिः स्वभावं वर्णयितुं तद्विशेषणान्याह - खलीनेति । खलीनकं मुखयन्त्रणं तस्य कटके वलये तत्रावलग्नाभ्यामासक्ताभ्यां पदे पदे प्रतिपद कृतं विहितमाकुञ्चन आकर्षणे प्रयत्नो याभ्यामेवंविधाभ्यां पुरुषाभ्यामुभयतोऽवकृष्यमाणमितस्ततो विक्षिप्यमाणम् । अतिप्रमाणमतिमहान्तम् । ऊर्ध्वमुच्चैः करो यस्यैवंभूतेन पुरुषेण प्राप्यः स्प्रष्टुं योग्यः पृष्ठभागो यस्य स तम् । अस्य व्यादानस्वभावमाह -
टिप्प० 1 ब्राह्मणेभ्यः क्षत्रियासु जाता मूर्धाभिषिक्ताः । यथाविधि राज्यासनेऽभिषिक्ता वा मूर्धाभिषिक्ता इत्यपि संप्रदायः ।
पाटा० - १ जलनिधि. २ प्रहितम्. ३ निवेदितं च. ४ मूर्धाभिषिक्तानाम्. ५ कुलवताम्. ६ परिवारार्थम्. ७ अधिरूढम् ८ अभिधाय विरराम. ९ वचनान्तम्. १० खलीनकथनक..
इन्द्रायुधः
पूर्वभागः ।
173