________________
शिक्षिताः सकलाः कलाः । गतः सर्वास्वायुधविद्यासु परां प्रतिष्ठाम् । अनुमतोऽसि विनिर्गमाय विद्यागृहात्सर्वाचार्यैः । उपगृहीतशिक्षं गन्धगजकुमारकमिव वारिविनिर्गतमवगतसकलकलाकलापं पौर्णमासीशशिनमिव नवोद्गत पश्यतु त्वां जनः । व्रजन्तु सफलतामतिचिरदर्शनोत्कण्ठितानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अयमत्रं भवतो दशमः संवत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् । एवं संपिण्डितेनामुना षोडशेन प्रवर्धसे । तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमखिलेमातृभ्योऽभिवाद्य च गुरूणामपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च । संमानय राजलोकम् । पूजय द्विजातीन् । परिपालय प्रजाः । आनन्दय बन्धुवर्गम् । अयं च त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति ।
***********
शास्त्राणि कामन्दकीप्रभृतीनि । सकलाः समग्राः कलाः शिक्षिता अभ्यस्ताः । सर्वास्वायुधविद्यासु धनुरादिविद्यासु परामनिर्वचनीयस्वरूपा प्रतिष्ठा महत्त्वं गतः प्राप्तः । विद्यागृहात्कलाभ्यसनमन्दिराद्विनिर्गमाय निःसरणायानुमतोऽनुज्ञातः । न केवलं महाराजस्यानुज्ञामात्रं किंतु गृहीतसकलकलाकलापोऽयमित्याचार्यैरप्यनुमतोऽसि । उपगृहीतशिक्षमुपगृहीता गुरोः सकाशाच्छिक्षा शास्त्राभ्यासादिरूपा येनैवभूतं त्वा जनो लोकः पश्यतु विलोकयतु । कस्मात्कमिव । वारी गजवन्धनी तस्माद्विनिर्गत वहिरागतं गन्धगजकुमारकमिव । अत्र गन्धशब्दोपादानेन हस्तिनो मुख्यत्वं सूचितम् । पुनरुपमानान्तरं प्रदर्शयन्नाह - सकलेति । अवगता ज्ञाताः प्राप्ताश्च सकलाः समग्रा याः कलाः षोडश द्वासप्ततिर्वा तासा कलापः समूहो येन स तम् । नवोद्गतं नूतनोदितं पौर्णमासीशशिनमिव राकाचन्द्रमिव । अतिचिरेण कालेन यदर्शनमीक्षणं तत्रोत्कण्ठितानि सोत्कलिकानि लोकलोचनानि जननेत्राणि सफलतां साफल्यं व्रजन्तु गच्छन्तु । ते तव दर्शनं विलोकनं प्रति सर्वाण्यन्तःपुराण्यतीव समुत्सुकान्यतिसोत्कण्ठितानि । अत्रेति । अत्र विद्यागृहेऽयं दशमः । संवत्सरो वर्षो भवतस्तव विद्यागृहमधिवसतोऽधितिष्ठतः । अत्र ‘अधिशीस्थासाम्-' इत्याधारे द्वितीया । अथ च षष्ठं वर्षमनुभवस्त्वं प्रविष्टोऽसि । विद्यागृहमिति शेषः । एवमनेन प्रकारेण संपिण्डितेन संकलितेनामुना षोडशेन वर्षेण त्वं प्रवर्धसे वृद्धिं गच्छसि । तदिति हेत्वर्थे । कृतकृत्यत्वादिति भावः । अद्यप्रभृतीतो निर्गत्य दर्शनोत्सुकाभ्योऽखिलमातृभ्यो दर्शनं दत्त्वाभिवाद्य च पादग्रहण कृत्वा गुरुणामपगतं नियन्त्रणं निरोधो यस्यैवभूतो यथासुख राज्यसुखानि नवयौवनललितानि च विलसितान्यनुभव साक्षात्कुरु । समानय राजलोकम् यथा योग्यं समानदानेन राजलोक वशीकुर्वित्यर्थः । द्विजातीन्ब्राहाणान्पूजय । वस्त्रादिप्रदानेनाराधयेत्यर्थः प्रजाः प्रकृतीन् (तीः) परिपालय रक्षां कुरु । बन्धुवर्ग स्वजनवर्गमानन्दय प्रमोदय । अयं चेति । अयं प्रत्यक्षोपलभ्यमानस्त्रिभुवने त्रिविष्टप एकमद्वितीयं रत्नम् । स्वजातिषु सर्वोत्कृष्टमित्यर्थः । आविष्टलिङ्गत्वानपुंसकत्वम् 'वेदाः प्रमाणम्' इतिवत् । अनिलो वायुः गरुडो गरुत्मान्, तयोः समः सदृशो जवो वेगो यस्य तथा । इन्द्रायुध इति नाम यस्यैवंविधस्तुरङ्गमोऽश्वो महाराजेन स्वामिना प्रेषितः प्रहितो द्वारि विद्यागृह - - - - - - - - - - - - - - - - -
- - - - - - - - - - - - - - - टिप्प० -1 'अधिगतसकलकलाकलापम् इत्यपि पाठः । अधिगतः सकलाना (षोडशानाम् कलाना कलापो येन तादृशः पूर्णमासीचन्द्रः । अधिगतः सकलानां चतुःषष्टिकलाना कलापो येन तादृशश्चन्द्रापीड इति च व्याख्या । अवगत इति ज्ञातार्थपाठस्तु चन्द्रापीडपक्ष एव समन्वयेत् ।
पाटा० - १ गतोऽसि. २ सर्वायुध. ३ निर्गमाय. ४ वारिवन्दाद्विनिर्गतसकल; वारिबन्धाद्विनिर्गतमधिगतसकर ५ कलापकम्. ६ उद्गतं. ७ अत्रभवतः, ८ वत्सरः. आपीडितेन, १० अधुना. ११ अखिलाभ्यो मातृभ्य. १२ मातृकाभ्यः. १३ गुरूनपगत. १४ परिपूजय. १५ च ते.
(172
कादम्बरी ।
कथायाम