________________
रथैः सहापूर्यतोरुदण्डद्वयम् । अरिजनेन सह तनिमानमभजत मध्यभागः । त्यागेन सह प्रथिमानमाततान नितम्बभागः । प्रतापेन सहारुरोह रोमराजिः । अहितकलवालकलताभिः सह प्रलम्बतामुपययौ भुजयुगलम् । चरितेन सह धवलतामभजत लोचनयुगलम् । आज्ञया सह गुरुर्बभूव भुजशिखर देशः । स्वरेण सह गम्भीरतामाजगाम हृदयम् ।
एवं च क्रमेण समारूढयौवनारम्भं परिसमाप्तसमग्रकलाविज्ञानमधीताशेषविद्यं चावगम्यानुमोदितमाचार्येश्चन्द्रापीडमानेतुं राजा बलाधिकृतं बलाहकनामानमाहूय बहुतुरगबलपदातिपरिवृतमतिप्रशस्तेऽहनि प्राहिणोत् । स गत्वा विद्यागृहं द्वाःस्थैः समावेदितः प्रविश्य क्षितितलावलम्बितचूडामणिना शिरसा प्रणम्य स्वभूमिसमुचिते राजसमीप इव सविनयमासने राजपुत्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्तमानं बलाहकश्चन्द्रापीडमुपसृत्य दर्शितविनयो व्यजिज्ञपत्"कुमार, महाराजः समाज्ञापयति-'पूर्णा नो मनोरथाः । अधीतानि शास्त्राणि ।
***********
महत्त्वमाततान विस्तारमवाप । 'तनु विस्तारे लिटि रूपम् । प्रतापेन कोशदण्डप्रसवतेजसा सह रोमराजिस्तनूरुहश्रेणिरारुरोहारूढा बभूव । 'रुह जन्मनि इत्यस्य लिटि रूपम् । अहितेति । अहितकलत्राणां शत्रु स्त्रीणामलकलताभिः केशलताभिः सह भुजयुगलं बाहुयुग्म प्रलम्बतां दीर्घतामुपययौ प्राप । चरितेनाचारेण सह लोचनयुगलं नेत्रयुग्मं धवलतां शुभ्रतामभजत प्रापत् । आज्ञया निर्देशेन सह भुज़शिखरदेशः स्कन्धप्रदेशः । 'अंसो भुजशिरः स्कन्धे' इति कोशः । गुरुर्महान्बभूवाभूत् । स्वरेण शब्देन सह गम्भीरतां गाम्भीर्यता हृदयं स्वान्तमाजगामागमत् । यद्यपि लक्ष्म्या विस्तारस्य मनोरथेषु पूर्णत्वस्यैवमरिजने कृशत्वादेः स्वस्ववाक्यादेव लाभेऽपि सातिशयत्वं व्यङ्ग्यम् ।
एवमिति । एवं पूर्वोक्तप्रकारेण समारूढः प्राप्तो यौवनारम्भो येन स तम् । परिसमाप्तं समग्रकलाविज्ञानं यस्य स तम् । अधीता अशेषविद्या येनैवंभूतं चन्द्रापीडमवगम्य ज्ञात्वाचारध्यापकैरनुमोदितं श्लाषितम् । अथ राजा चन्द्रापीडमानेतुं बलेन धाम्नाधिकृतं सहित बलाहकनामानं पुरुषभृत्यमाहूयाह्वानं कृत्वा बहवो ये तुरगा अवास्तेषां बलं साधनं पदातिः (तयः) पत्ति(त्तय)स्ताभ्यां परिवृतं सहितमतिप्रशस्तेऽतिशोभनेऽहनि दिने प्राहिणोप्रेषयामास । सेति । स बलाहको विद्यागृहं गत्वा द्वाःस्थैर्वारपालकैः समावेदितो निवेदितः प्रविश्य प्रवेशं कृत्वा क्षितितले वसुधापीठेऽवलम्बित आश्रितः चूडामणिः शिरोमणिर्यस्यैवंविधेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य स्वभूमिसमुचिते स्वस्य भूमौ यत्समुचितं योग्यं तस्मिनासने विष्टरे राजपुत्रेण नृपपुत्रेणानुमतोऽनुज्ञातो राजसमीप इव नृपसंनिधाविव सविनयं यथा स्यात्तथा न्यषीदत्तस्थौ । स्थित्वा चेति । मुहूर्तमात्रं स्थित्वावस्थानं कृत्वा बलाहकश्चन्द्रापीडमुपसृत्य समीपे गत्वा दर्शितः प्रकटीकृतो विनयः । सेवकार्थो येनेवभूतो व्यजिज्ञपद्विज्ञापनां चकार । हे कुमार, महाराजस्तारापीडः समाज्ञापयत्याज्ञां ददाति । तदेवाह - पूर्णेति । नोऽस्माकं मनोरथाश्चिन्तितानि पूर्णाः संपूर्णाः । जाता इति शेषः । अधीतानि पठितानि -
टिप्प० -1 बाहुयुग्मं प्रलम्बतां दीर्घताम्, शत्रुस्त्रीणाम्, अलकलता लतावल्लम्बमानाः केशाश्च प्रलम्बतां लम्बितताम् (भाविभर्तुविरहेण असंयमनात्) उपपयौ, इत्यर्थः । 2 नेत्रयुग्मं धवलताम्, आचारश्च बाल्यचापल्यदोषराहित्यरूपं स्वच्छत्वमभजत । 3 अंसदेशो विशालः, आज्ञा च गुरुः गौरववाहिनी सर्वेषा शिरोधार्येत्यरर्थः । 4 बलाधिकृतं सेनाध्यक्षमित्यर्थः । 5 स्वोचिता या भूमिः (स्थानम्, राजपुत्रस्य वामपार्श्वम्) तत्र समुचिते इत्यर्थः ।
पाठा० - १ शिखरदेशः. २ एवं क्रमेण. ३ सकल. ४ बृहत्तुरग. ५ द्वारपैः. ६ प्रवेशितः. ७ विलम्बित; चुम्बित. ८ व्यजिज्ञापयत्.
(तारापीडस्य गृहागमनादेशः।
पूर्वभागः ।