________________
नासगौरवेण सहपांसुक्रीडनतया सहसंवृद्धतया च सर्वविश्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि तमुष्णकरमिव वासरोऽनुगच्छन्न क्षणमपि विरहयांचकार ।
एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य त्रिभुवनविलोभनीयोऽमृतरस इव सागरस्य, सकललोकहृदयानन्दजननश्चन्द्रोदय इव प्रदोषस्य, बहुविधरागविकारभङ्गुरः सुरधनुःकलाप इव जलधरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य, अभिनवाभिव्यज्यमानरागरमणीय सूर्योदय इव कमलवनस्य, विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनो यौवनारम्भः प्रादुर्भवन्रमणीयस्यापि द्विगुणां रमणीयतां पुपोष । लब्धावसरः सेवैक इव निकटीबभूवास्य मन्मथः । लक्ष्म्या सह वितस्तार वक्षःस्थलम् । बन्धुजनमनो -
**** *******
संस्तवस्तत्कृतबहुमानेन संमानेन, शुकनासस्य गौरवेण पूज्यत्वेन, सह सार्धं यत्पांसुना धूल्या क्रीडनं खेलनं तस्य भावस्तत्ता तया, सह सार्धं संवृद्धः संवर्धितस्तस्य भावस्तत्ता तया । चकारो हेतुसमुच्चयार्थः । मित्रं विशेषयन्नाह - सर्वेति । सर्वो यो विश्रम्भो विश्वासस्तस्य स्थानमाश्रयो द्वितीयं हृदयमिव । एतेन सर्वथाभेदो दर्शितः । निमेषमप्यभिचलनमात्रमप्येकाकी तैन वैशम्पायनेन विना स्थातुं न शशाक न समर्थो बभूव । वैशम्पायनोऽप्युष्णकरं सूर्यं वासर इव दिवस इव तं चन्द्रापीडमनुगच्छन्पश्चाद्व्रजन्क्षणमप्यक्षिस्पन्दनमात्रमपि न विरहयांचकार न विरक्तौ बभूव ।
एवमिति । एवं पूर्वोक्तप्रकारेण तस्य चन्द्रापीडस्य सर्वविद्या परिचयं कलादिकाभ्यासमाचरतः कुर्वतः । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य विलोभनीयो लोभजनको यौवनारम्भो यौवनं बाल्यात्परं वयस्तस्यारम्भः प्रादुर्भवन्प्रकटीभवन्रमणीयस्यापि मनोहरस्यापि द्विगुणां पूर्वतो द्विभागाधिकां रमणीयतां शोभातिरेकैतां पुपोष । कीदृशः । सकललोकानां समग्रजनानां हृदयस्य स्वान्तस्यानन्दजननः प्रमोदोत्पादकः । कस्येव । सागरस्य समुद्रस्यामृतरस इव पीयूषद्रव इव । प्रदोषस्य यामिनीमुखस्य चन्द्रोदय इव । जलधरसमयस्य मेघकालस्य सुरधनुःकलाप इन्द्रचापसमूह इव, बहुविधा अनेकप्रकारा ये रागास्तेषां ये विकारा विकृतयस्तैर्भङ्गुरो वक्रः । उभयोर्विशेषणम्, यौवनारम्भस्याप्येतादृशरूपत्वात् । कल्पपादपस्य पारिजातस्य कुसुमप्रसव इव पुष्पोद्गम इव मकरध्वजस्य कंदर्पस्यायुधभूतः । शस्त्रभूतः । उभयोर्विशेषणम्, द्वयोरपि कामोद्दीपकत्वात् । अभीति । अभिनवो नूतनोऽभिव्यज्यमानः प्रकटीक्रियमाणो यो रागस्तेन रमणीयो मनोहरः । इदमपि द्वयोर्विशेषणम् । उभयत्र रागोदयसद्भावात् । कमलवनस्य सूर्योदय इव । विविधो यो लास्यविलासो नृत्यविलासस्तस्य योग्य उचितः । उभयोर्विशेषणम् । शिखण्डिनो मयूरस्य कलाप इव प्रचलाक ईव । अस्य चन्द्रापीडस्य लब्धावसरःप्राप्तप्रस्तावः सेवक इव भृत्य इव मन्मथः कंदर्पो निकटीबभूव समीपवर्त्यभूत् । इत्यनेन चन्द्रापीडस्य मन्मथाधीनत्वं नास्तीति सूचितम् । एतदेव विवृणोति - लक्ष्म्येति । लक्ष्म्या सह श्रिया सह वक्षःस्थलं भुजान्तरस्थलं वितस्तार विस्तीर्णं बभूव । बन्धुजनानां कुटुम्बजनानां मनोरथैर्वाञ्छितैः सहोरुदण्डद्वयं सक्थियुगलमापूर्यत पूर्णं बभूव । सातिशयमजनिष्टेति भावः । अरिजनेन शत्रुजनेन सह मध्यभागोऽवलग्नप्रदेशस्तनिमानं कृशत्वमभजताश्रयत् । त्यागेन दानेन सह नितम्बभाग आरोहप्रदेशः प्रथिमानं
टिप्प० - 1 न तत्याज इत्यर्थः । 'न वियुक्तो बभूव' इति फलितार्थो वा उचितः । 2 शोभातिरेकमित्यर्थः । 3 रागा विषयाभिलाषाः, नीलपीतादिवर्णाश्च । 4 'रमणीयस्यापि रमणीयतां पुपोष', इत्यत्र सर्वेषां वाक्यानामन्वयः ।
पाठा० - १ गच्छन्क्षणमपि. २ हृदयनयनानन्द. ३ नवसेवकः; अनुसेवकः.
170
-
कादम्बरी |
कथायाम्