________________
प्रयोगे, विषापहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, प्लुतिषु, इन्द्रजाले, कथासु, नाटकेषु, आख्यायिकासु, काव्येषु, महाभारतपुराणेतिहासरामायणेषु, सर्वलिपिषु, सर्वदेशभाषासु, सर्वसंज्ञासु, सर्वशिल्पेषु, छन्दःसु, अन्येष्वपि कलाविशेषेषु परं कौशलमवाप।
सहजा चाजसमभ्यस्यतो वृकोदरस्येव शैशव एवाविर्बभूव लोकॅविस्मयजननी महाप्राणता । यदृच्छया क्रीडताप्यनेन करतलावलम्बितकर्णपल्लवावनताङ्गाः सिंहकिशोरकक्रमाक्रान्ता इव गजकलभकाश्चलितुमपि न शेकुः । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव लुलाव । सकलराजन्यवंशवनदावानलस्य परशुरामस्येवास्य नाराचाः शिखरिशिलातलभिदो बभूवुः । दशपुरुषसंवाहनयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः सर्वाभिरन्याभिः कलाभिरनुचकार तं वैशम्पायनः । चन्द्रापीडस्य तु सकलकलाकलापपरिचयबहुमानेन शुक -
***********
सङ्ग्रामादिषु व्युत्करणादिरूपास्तासु । इन्द्रजालं मायाकूटनिर्मितं तस्मिन् । कथासु बृहत्कथाप्रभृतिषु । नाटकेष्वभिनयात्मकेषु । आख्यायिकासु वासवदत्ताप्रभृतिषु । काव्यं कविकर्म तेषु । महाभारतं प्रसिद्धम् । तदुक्तम्-'भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु । तरणं सर्वतीर्थाना तेन भारतमुच्यते । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, रामायणं रामचरित्रम्, एतेषु । सर्वलिपिष्वष्टादशविद्याक्षरविन्यासेषु । सर्वेषा देशानां भाषासु वचनव्यापारेषु । सर्वा याः संज्ञाः परिभाषास्तासु । सर्वेषु शिल्पेषु विज्ञानेषु । छन्दःस्वाम्नायेषु । अन्येष्पप्येतद्व्यतिरिक्तेषु कलाविशेषेषु परमधिकं कौशलं चातुर्यमवाप प्राप्तवान् । अस्य कुमारस्याजसं निरन्तरमभ्यस्यतो विद्यापरिश्रम कुर्वतो वृकोदरस्येव भीमस्येव शैशव एव बाल्य एव सहजा नौपाधिकी लोकानां जनानां विस्मयजनन्याश्चर्यकारिणी महाप्राणता महासाहसशक्तिराविर्बभूव प्रकटीबभूव । एतदेव विवृणोति - यदृच्छयेति । यदृच्छया स्वेच्छया क्रीडतापि केलिं कुर्वताप्यनेन कुमारेण गजानामनेकपानां कलभा एव कलभकाः । स्वार्थे कः । 'कलभास्त्रिंशदब्दकः' इति कोशः । सिंहस्य हर्यक्षस्य किशोरको वालस्तस्य क्रमो पादौ ताभ्यामाक्रान्ताः पीडिता इव चलितुमपीतस्ततो गन्तुमपि न शेकुर्न शक्ता बभूवुः । कीदृशाः । अनेन करतलेनावलम्विता गृहीता ये कर्णपल्लवास्तैरवनतान्यङ्गानि येषां ते तथा । कर्णे धृत्वैव नम्रीकृता इति भावः । अन्यदप्याह - एकैकेति । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव नलिनदण्डानिव लुलाव चिच्छेद । सकलेति । अस्य नाराचा बाणाः शिखरिशिलातलभिदो बभूवुः । अस्य किंविशिष्टस्य । सकलाः समग्रा राजन्या राजनस्तेषां वंशा अन्वयास्त एव वनानि काननानि तेषु दावानलस्य । वनवह्निसदृशस्येत्यर्थः । कस्येव । परशुरामो जामदग्न्यस्तस्येव । यथा तस्य बाणाः शिलातलभिदस्तथास्यापीति भावः । दशेति । दशपुरुषैः संवाहनयोग्येनोत्थापनोचितेन । अतिप्रमाणेनेत्यर्थः । अयोदण्डेन लोहदण्डेन श्रममकरोत्परिश्रममकार्षीत् । ऋते चेति । 'ऋतेयोगे द्वितीया' इति केषांचिन्मतम् । तेनान्यशब्दार्थयुक्तायाः पञ्चम्या न विरोधः । महाप्राणताया ऋतेऽन्याभिः सर्वाभिः कलाभिर्वेशम्पायनस्तं कुमारमनुचकार सादृश्यमकरोत् । वैशम्पायनस्य ब्राहाणपुत्रत्वात्तस्मिन्नापेक्षिता साहसशक्तिरिति भावः । चन्द्रेति । चन्द्रापीडस्य वैशम्पायनः पर मित्रमासीदित्यन्वयः । तत्र हेतुमाह - सकलेति । सकलाः समग्रा याः कला विज्ञानैकदेशास्तासां कलापः समूहस्तदर्थं यः परिचयः - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 व्याघ्रवदुल्लम्फनम् । 2 पिङ्गलादिप्रणीतछन्दःशास्त्रेषु च।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ प्लुतिषु आरोहणे, रतितन्त्रे; प्लुतिषु आरोहणावरोहणे, रतितन्त्रेषु. २ शिल्पेषु सर्वशिल्पिषु. ३ सर्वकौशलम्. ४ श्रमम् अस्य श्रमम्; चाजसश्रमम्. ५ अभ्यस्यतो वृकोदरस्य. ६ शैशवमेव. ७ सर्वलोक. ८ आलम्बित; आकुञ्चित. ९ किशोर. १० बाल एव तालतरून. ११ सर्वविद्याभिः.
(चन्द्रापीडस्य यौवनोद्गमः।
पूर्वभागः ।