________________
चन्द्रापीडोऽप्यनन्यहृदयतया तथा यन्त्रितो रोज्ञाऽचिरेणैव यथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्योपदिश्यमानाः सैर्वा विद्या जग्राह । मणिदर्पण इवातिनिर्मले तस्मिन्संचक्राम सकलः कलाकलापः । तथा हि । पदे, वाक्ये, प्रमाणे, धर्मशास्त्रे, राजनीतिषु, व्यायामविद्यासु, चापचक्रचर्मकृपाणशक्तितोमरपरशुगदाप्रभृतिषु सर्वेष्वायुधविशेषेषु, रथचर्यासु, गजपृष्ठेषु, वीणावेणुमुरजकांस्यतालदर्दुरपुटप्रभृतिषु वायेषु, भरतादिप्रणीतेषु नृत्तशास्त्रेषु नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु; हस्तिशिक्षायाम्, तुरङ्गवयोज्ञाने, पुरुषलक्षणे, चित्रकर्मणि, पत्रच्छेद्ये, पुस्तकव्यापारे, लेख्यकर्मणि, सर्वासु द्यूतकलासु, शकुनिरुतज्ञाने, ग्रहगणिते, रत्नपरीक्षासु, दारुकर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेद, यन्त्र -
***********
चन्द्रापीडोऽपि राज्ञा तारापीडेन तथेति तेन प्रकारेण यन्त्रितो नियमितो यथाऽचिरेणैव स्वल्पकालेनैवानन्यहृदयतयैकाग्रचित्ततयाचार्यगुरुभिरुपदिश्यमाना अध्याप्यमानाः सर्वाः समग्रा विद्या द्वासप्ततिकला जग्राह गृहीतवान् । आचार्यैः किं कुर्वद्भिः । स्वं स्वकीयमात्मकौशलं निजचातुर्यं प्रकटयद्भिराविष्कुर्वद्भिः, पात्रवशादत्युत्कृष्टविद्याग्राहकवशादुपजातः समुत्पन्न उत्साहः प्रगल्भता येषां तैः । आचार्यविशेषणम् । मणिदर्पणे रत्नादर्श इवातिनिर्मलेऽतिस्वच्छे तस्मिन्सकलः कलाकलापः संचक्राम संक्रमं कृतवान् । तमेव दर्शयन्नाह - तथा हीति । पदेति । पदं व्याकरणशास्त्रं तस्मिन् । वाक्येति । वाक्य मीमांसे पूर्वोत्तरे तस्मिन् । प्रमाण न्यायवैशेषिकसाख्यपातञ्जलरूप तस्मिन् । धर्मशास्त्रं मन्वादिप्रणीतो ग्रन्थस्तस्मिन् । इतः परं चतुःषष्टिकला आह - राजेति । राजनीतयः कामन्दकीप्रभृतिशास्त्राणि तेषु । व्यायामः श्रमस्तदर्थं या विद्या मल्लयुद्धादिकास्तासु । चापेति । चापं धनुः, चक्र प्रसिद्धम्, चर्म संनाहः, कृपाणः खङ्गम्, शक्तिः शस्त्रविशेषः, तोमरः प्रहरणविशेषः, परशुः कुठारः, गदा प्रसिद्धा, एतत्प्रभृतिषु सर्वेष्वायुधविशेषेषु । रथचर्यासु रथपरिवर्तनेषु । गजपष्ठप हस्तिशिरोदेशेषु । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं वाद्यविशेषः, दुर्दुरपुटं दर्दुरशब्दाकारशब्दं वाद्यम्, एतत्प्रभृतिए वाद्येष्वातोयेषु । भरतादयो विद्वांसस्तैः प्रणीतानि विहितानि नृत्तशास्त्राणि ताण्डवविधानप्रतिपादकग्रन्थास्तेषु । नारदीयप्रभृतिषु गान्धर्ववेदविशेषेषु । हस्तिशिक्षायां गजशिक्षायाम् । तुरगस्याश्वस्य वयोज्ञाने वयोऽवस्था तस्य ज्ञाने । पुरुषाणां नराणां लक्षणेषु सामुद्रिकप्रतिपादितेषु माषतिलकादिलक्षणेषु । चित्रकर्मण्यालेख्यविद्यायाम् । पत्रच्छेद्ये केतकादिपत्रच्छेदने । पुस्तकानां शास्त्राणां व्यापारे प्रयोगे । लेख्यकर्मणि लेखनविद्यायाम् । सर्वासु समग्रासु द्यूतकलासु । शकुनिरुतज्ञाने पतत्रिशब्दज्ञाने । ग्रहगणिते ज्योतिःशास्त्रे । रत्नपरीक्षासु रत्नाना मण्यादीनां शुद्धाशुद्धज्ञाने । दारुकर्मणि काष्ठकर्मणि । दन्ता गजाना रदनास्तेषां व्यापारो व्या(व्यव)हृतिस्तस्मिन् । वास्तुविद्यासु गृहनिर्मितविद्यासु । आयुर्वेद वैद्यकशास्त्रे । यन्त्राणां सूर्यप्रतापादीनां प्रयोगो व्यापारणं तस्मिन् । विषाणां स्थावरजंगमप्रभृतीनामपहरण दूरीकरणं तस्मिन् । सुरङ्गाऽसंधिशिला तस्या उपभेदो भेदनं तस्मिन् । तरणे नद्यादितरणे । लङ्घने कूपकाद्युल्लङ्घने । प्लुतयो व्याघ्रादिवत्- - - - - - - - - - - - - - - - - - - -- - - - - - -- - - - - - - - - - - - - - टिप्प० -1 तथा तेन प्रकारेण नियन्त्रित नियमितश्चन्द्रापीडः यथास्वम् यथार्थम् 'यथास्वं तु यथायथम्' इत्यमरः । आत्मकौशल प्रकटयद्भिः आचार्यैः उपदिश्यमानाः सर्वाविद्या अचिरेणैव जग्राह, इति योजना, 2 रथचालनेषु, आरोहणेषु वा, इत्यर्थ उचितः । 3 यन्त्रच्छेद्य इति पाठे तु यन्त्रेण दूरवीक्षणादियन्त्रेण परिच्छेत्तुं शक्ये ग्रहनक्षत्रादिनिर्णये इत्यर्थः । 4 'सुरङ्ग इति ख्यातो गुप्तदीर्घपथस्तस्य खनने निर्माणे चेत्यर्थः ।
पाठा० - १ नियन्त्रितः. २ अचिरेणैव कालेन. ३ यथास्वम्. ४ उपदिश्यमानः. ५ सर्वविद्याः. ६ वर्म. ७ गजपृष्टेषु तुरंगमेषुः गजपृष्टेषु तुरंगेषु. ८ नृत्य. ९ तुरगवयोज्ञानेपु. १० यन्त्रच्छेये. ११ द्यूतकलासु गन्धर्वशास्त्रेषु; यूतकलासु गान्धर्वशास्त्रेषु. १२ मन्त्रप्रयोगे.
168
कादम्बरी।
कथायाम्