________________
क्रमेण कृतचूडाकरणादिक्रियाकलापस्य शैशवमतिचक्राम चन्द्रापीडस्य । तारापीडो क्रीडाव्यासङ्गविघातार्थं बहिर्नगरादर्नुसिप्रमर्धक्रोशमात्रायामम्, अतिमहता तुहिनगिरिर्शिखिरमालानुकारिणा सुधाधैवलितेन प्राकारमण्डलेन परिवृतम्, अनुप्राकारमाहितेन महता परिखावलयेन परिवेष्टितम्, अतिदृढकपाटसंपुटम्, उद्घाटितैकद्वारप्रवेशम्, एकान्तोपरचिततुरैङ्गवाह्यालीविभागम्, अधः कल्पितव्यायामशालम्, अमरागाराकारं विद्यामन्दिरमकारयत् । सर्वविद्याचार्याणां च संग्रहे यत्नमतिमहान्तमन्वतिष्ठत् । तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं कृत्वा प्रतिषिद्धनिर्गमम्, आचार्यकुलपुत्रप्रायपरिजनपरिवारम्, अपनीताशेषशिशुजनक्रीडाव्यासङ्गम् अनन्यमनसम्, अखिलविद्योपादानार्थमाचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैशम्पायनद्वितीयमर्पयांबभूव । प्रतिदिनं चोत्थायोत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैनमालोकयामास राजा ।
क्रमेणेति । क्रमेण परिपाट्या कृतो निष्पादितः चूडाकरणं चौलकर्म तदादिकाः क्रियास्तासां कलापो यस्य स तथा तस्य चन्द्रापीडय शैशवं बाल्यमतिचक्राम । कौमारं प्राप्तवानित्यर्थः । तारापीडस्तस्य पिता व्यासङ्गश्चित्तस्यान्यत्र गमनं तस्य विधातार्थं दूरीकरणार्थं नगराद्बहिर्विद्यामन्दिरमकारयदित्यन्वयः । अनुसिप्रंसिप्रासमीपवर्ति । कीदृशम् । अर्धक्रोशमात्रमायामो विस्तारो यस्य तत् । अतिमहतात्युच्चेन तुहिनगिरिर्हिमगिरिस्तस्य या शिखरमाला सानुश्रेणिस्तदनुकारिणा तत्सादृश्यधारिणा, सुधा पूर्वोक्ता तया धवलितेन शुभ्रीकृतेन प्राकारमण्डलेन वप्रवलयेन परिवृतं वेष्टितम्, अनुप्राकारमाहितेन स्थापितेन महता परिखावलयेन परिवेष्टितम् । अतिदृढं कपटसंपुट यस्य तत् । उद्घाटितं यदेकद्वारं तत्र ( तेन) प्रवेशो यस्मिंस्तत् । एकान्तेति । एकान्ते निर्जनस्थल उपरचितस्तुरङ्गाणामश्वानां वाह्य शिबिकादीनां व्यवस्थापनविभागो यस्मिंस्तत् । अध इति । अधोभागे कल्पिता व्यायामशाला बाहुयुद्धाभ्यासादियोग्यं स्थलं यस्मिंस्तत् । अमरेति । अमरागारं देवगृहं तद्वदाकारो यस्य तत् । सर्वेति । सर्वविद्याचार्याणां समग्रविद्याध्यापकानां संग्रहे स्वीकारेऽतिमहान्तमत्युत्कृष्टं यत्नमन्वतिष्ठदकरोत् । तत्रेति । तत्रस्थं तन्निवासिनं तं चन्द्रापीडं पञ्जरगतं केसरिकिशोरकमिव कृत्वा विधाय प्रतिषिद्धो निर्गमो बहिर्गमनं यस्य स तम् । आचार्येति । आचार्यस्य कुलं वैशम्पायनकुलं तस्य पुत्रप्रायो यः परिजनः स एव परिवारो यस्य स तम् । अपेति । अपनीतो दूरीकृतोऽशेषायाः समग्रायाः शिशुजनक्रीडाया बालजनलीलायाः व्यासङ्गो विद्याप्रतिबन्धकं यस्य स तम् । न विद्यतेऽन्यस्मिन्मनो यस्य स तम् । एकाग्रचित्तमित्यर्थः । अखिलेति । अखिलाः समग्रा या विद्यास्तासां यदुपादानं ग्रहणं तदर्थमाचार्येभ्यः पाटकेभ्यः शोभने प्रशस्ते दिवसे दिने वैशम्पायनो मन्त्रिसुतः स एव द्वितीयो विद्याभ्यसने सहायो यस्यैवंभूतं चन्द्रपीडमाचार्येभ्योऽर्पयांबभूवार्पितवान् । अथ च राजा प्रतिदिनं प्रत्यहमुत्थायोत्थायोत्थानं कृत्वा । स्वगृहादिति शेषः । वीप्सायां द्वित्वम् । सहवास विरलपरिजनः स्वल्पपरिच्छदस्तत्रैव गत्वैनं चन्द्रपीडमालोकयामास व्यलोकयत् ।
***
टिप्प० - 1 अतिदृढाभ्यां कपाटाभ्यां संपुटम् पिधानं यस्य तत् । 2 आचार्याः अध्यापकाः, कुलपुत्राः सद्वंशजाताः समानवयसः कुमाराः, एतत्प्रायः (एतद्बहुलः) परिजनो यस्य तम्, इत्यर्थः ।
पाठा० - १ बालक्रिया. २ क्रीडाव्यासङ्ग. ३ अनुक्षिप्रम् ४ शिखरानुकारिणा. ५ धवलेन; प्राकारधवलेन चन्द्रशालावलयेन विलसितं प्राकार. ६ तुरग. ७ विद्यागृहम्. ८ शिशुक्रीडन; शिशुजनक्रीडन. ९ चोत्थाय सह.
चन्द्रापीडस्य शिक्षा
पूर्वभागः ।
167