SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मधुरमुद्गायता हर्षनिर्भरतया मत्तेनेवोन्मत्तेनेव ग्रहगृहीतेनेवांपगतवाच्यावाच्यविवेकेन नृत्तंक्रीडाप्रसक्तेनान्तःपुरिकाजनेन पँचलमणिकुण्डलाहतकपोलभित्तिना च विधूर्णमानकर्णोत्पलेनाधोविंगलितविलोलशेखरेण दोलायमानवैकक्षककुसुममालेन निर्दयप्रहतभेरीमृदङ्गमर्दलपटहनिनादानुगतकाहलशङ्खवजनितरभसेन चरणसंनिपातैरियतेव वसुधां राजपरिजनेन प्रवृत्तनृत्येन च चारणगणेन विविधमुखवायंकृतकोलाहलेन पठता गोयता चानुगम्यमानः शुकनासभवनं गत्वा द्विगुणतरमुत्सवमकारयत् । अतिक्रान्ते च षष्ठीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्णं च कोटिशो ब्राह्मणसात्कृत्वा ‘मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन्द्रष्टः' इति स्वप्नानुरूपमेव राजा स्वसूनोश्चन्द्रापीड इति नाम चकार । अपरेयुः शुकनासोऽपि कृत्वा ब्राह्मणोचिताः सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे । *********** वेणुवंशः, मुरजो मृदङ्गः, कांस्यतालं प्रसिद्धम्, एतेषां यो लयः साम्यावस्था तदनुगतेन कलं मधुरं यथा स्यात्तथोद्गायता गानं कुर्वता, हर्षस्य यो निर्भरोऽतिशयस्तस्य भावस्तत्ता तया मत्तेनेव क्षीबेणेवोन्मत्तेनेव वातग्रस्तेनेव ग्रहगृहीतेनेव ग्रथिलेनेव । अपेति । अपगतो दूरीभूतो वाच्यावाच्ययोविवेकः पृथगात्मता यस्मात्स तेन । नृत्तेति । नृत्तलक्षणा या क्रीडा विनोदस्तस्यां प्रसक्तेन लग्नेन । अथ च राजपरिजनेन नृप परिवारेणानुगम्यमानः । परिजनं विशेषयन्नाह - प्रचलेति । प्रचलानि चञ्चलानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तैराहता कपोलभित्तिर्यस्य स तेन । विघूर्णमानं पतनायोन्मुखं कर्णोत्पलं यस्य स तेन । अध इति । अधो विगलितो विलोलश्चञ्चलः शेखरोऽवतंसो यस्य स तेन । दोलायमानाः कम्पमाना वैकक्षकीकृतोत्तरासङ्गीकृता कुसुममाला यस्य स तेन । निर्दयमिति । निर्दयमतिशयेन प्रहता वादिता भेर्यो दुन्दुभयः, मृदङ्गा वाद्यविशेषाः, मर्दला मुरजाः, पटहाः प्रसिद्धाः एतेषां यो निनादः शब्दस्तदनुगतस्तन्मिश्रितः काहला वाद्यविशेषः शङ्खः प्रसिद्धः, तयो रवः शब्दस्तेन जनितो निष्पादितो रभसो वेगो यस्य स तेन । चरणसनिपातैः पादविक्षेपैर्वसुधां पृथ्वी दारयतेव विदीर्णां कुर्वतेव । प्रवृत्तं प्रारब्धं नृत्यं येन स तथा तेन । चारणगणेन कुशीलवसमुदायेन । कीदृशेन विविधं यन्मुखमेवं वायं तेन कृतो विहितः कोलाहलः कलकलो येन स तेन । पठतोच्चैःस्वरेण राजस्तुतिं गायता गानं कुर्वता च । अनुगम्यमान इत्यस्य सर्वत्रानुषङ्गः ।। __ अतीति । अतिक्रान्ते व्यतीते षष्ठीजागरे षष्ठदिवसकृत्ये च सति दशमेऽहनि दशमे दिवसे प्राप्ते सति पुण्ये पवित्रे मुहूर्ते वेलाया गाः सुरभीः कोटिशः सुवर्णं कनकं ब्राह्मणसाद् ब्राहाणाधीनं कृत्वा विधाय, मया स्वप्ने परिपूर्णमण्डलश्चन्द्रः शशी अस्य मातुर्जनन्या मुखकमलं वदनाम्भोजमाविशन्प्रविशन्दृष्टोऽवलोकित इति स्वप्नानुरूपमेव स्वप्नसदृशमेव राजा नृपः स्वसूनोः स्वपुत्रस्य चन्द्रापीड इति नाम चकार निर्ममे । अपरेघुरन्यस्मिन्दिने शुकनासोऽपि ब्राह्मणोचिता विप्रकुलयोग्याः सकलाः समग्राः क्रियाः कृत्वा विधाय राजानुमतं नृपेणानुज्ञातमात्मजस्य पुत्रस्य विप्रजनोचितं ब्राह्मणजनयोग्यं वैशम्पायन इति नाम चक्रे कृतवान् । - - - - - टिप्प० - भूताविष्टेनेवेत्युचितम् । 2 आनन्दो यस्य स इत्यर्थः । 3 विविधं यन्मुखवाद्यम् (मुखद्वारा नानाविधाव्यक्तध्वनिनिःसारणम्) । पाठा० - १ व्यपगत. २ विवेकेनेव. ३ नृत्यगीतक्रीडा. ४ प्रचलितमणि. ५ उद्घट्टितकपोल. ६ गलित. ७ वैकक्षिक वैकक्ष. ८ काहल. ९ विदारयता. १० वसुंधराम्. ११ प्रवृत्तनृतेन; नृत्ते प्रवृत्ते. १२ विविधवाद्य. १३ गायता वल्गता च. १४ कोटिशो वत्त्वा. १५ सूनोः. 166 कादम्बरी। कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy