________________
पुरसहसमुखरितदिगन्तरेण सरभसोत्क्षेपचालितमणिवलयावलीवाचालितर्भुजलतेनोर्श्वीकृतैरुत्तानतलैः करपुटैरनिललैलितामाकाशकमलिनीमिव दर्शयता पर्यस्तमृदितकर्णपल्लवेन परस्पराङ्गदकोटिसंघट्टदष्टपाटितोत्तरीयांशुकेन श्रमजलधौताङ्गरागरञ्जितनॅवीनवाससा किंचिदवशिष्टतमालपत्रेण विलसद्वारविलासिनीहसितैरुन्निद्रकैरववनानुकारं प्रथयता सरभसवल्गनस्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूरतिलकलुलितालकलेखेन विप्रकीणपिष्टार्तकपांसुपुञ्जपिञ्जप्रनृत्र्त्तकलमूककुब्जकिरातवामनबधिरजडजनपुरःसरेणोत्तरीयांशुकग्रीवाबद्धावकृष्टर्विडम्बितजरत्कञ्चुकिकै
रितकेशपाशेन
दम्बकेन वीणावेणुमुरजकांस्यताललयानुगतेन कल
-
मुत्सवमकारयत्कारयामासेति दूरेणान्वयः । कीदृशो राजा । अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं गन्तुं योग्य इत्यर्थः । अथ चान्तःपुरिकाजनं विशेषयन्नाह - चरणेति । चरणानां पादानां प्रमोदातिरेकाद्य द्विकुट्टनमास्फालनं तेन क्वणितं शब्दितं यन्नूपुरसहस्त्रं पादकटकसहस्त्रं तेन मुखरितं वाचालितं दिगन्तरं दिङ्मध्यं येन स तेन । सरभसेति । सरभसेने वेगेन य उत्क्षेपो भुजानां चालन तेन चालिता कम्पिता या मणिवलयावली रत्नकङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य सः तथा तेन । हर्षवशादूर्श्वीकृतैरुच्चैर्विहितैरुत्तानतलैः संमुखतलैः करपुटैर्हस्तपुटैरनिललुलितां वायुना विलुठितामाकाशकमलिनीं व्योमपद्मिनीमिव दर्श प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिताश्चूर्णिताः कर्णपल्लवा येन स तथा तेन । परस्परेति । परस्परमन्योन्यमङ्गद वाहुवलयानां या कोटिरग्रभागस्तस्याः संघट्टोऽभिघातस्तेनेव दष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघट्टवशाच्छ्रमजलेन धीतः क्षालितो योऽङ्गरागो विलेपनं तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमालपत्रं यस्य स तेन । इतरेषां भूषणानां वस्त्राणां च संमर्दवशान्निपतनमभूत् । तमालपत्रं तु महता क्लेशेन सौभाग्यमण्डननिमित्तकत्वाद्व्यवस्थापितमिति भावः । विलसन्त्यो या वारविलासिन्यो वारयोषितस्तासां हसितैर्हास्यैः । उन्निद्रेति । उन्निद्राणि विकसितानि यानि कैरववनानि तेषामनुकारं सादृश्यं प्रथयता विस्तारयता । सरभसेति । सरभसं सवेगं यद्वल्गनं परस्परमङ्गानामामोटनं तेन स्खलन्तीर्लोलाश्चपला या हारलता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन । सिन्दूरेति । सिन्दूरं नागजं तेन जनितं यत्तिलक पुण्ड्रं तत्र श्रमवशालुलिता लुठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन कियतामलकानां तत्रावस्थितिर्न सर्वेषामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिष्टात एव पिष्टातकः । स्वार्थे कः । पटवासकस्तस्य पांसुपुञ्जो धूलिसमूहस्तेन पिञ्जरितः पीतरक्ततां प्राप्तः केशपाशो यस्य स तेन । प्रनृत्तेति । प्रनृत्ताः स्वयमेवारब्धताण्डवाः, कला मनोज्ञाः, मूका अस्फुटवाचः, कुब्जाः पूर्वोक्तलक्षणाः; किराताः स्वल्पतनवः, वामनाः पूर्वव्याख्याताः, बधिरा अकर्णाः, जडा मूर्खाः, एवंविधा जनाः पुरःसरा अग्रगामिनो यस्य स तेन । उत्तरीयेति । उत्तरीयांशुकेन प्रच्छादनवस्त्रेण ग्रीवायां कन्धरायां बद्धं संयमितमवकृष्टमाकृष्टम एव विडम्बि विडम्बनां प्रापितं जरत्कञ्चुकिकदम्बकं येन स तेन । वीणेति । वीणा वल्लकी, I
-
टिप्प० - 1 सरभसं वेगेन इत्युचितम् । 2 संमुखतलानां हस्तानामुपरि उत्थापनात् आकाशकमलिनी (कमलपुष्पयुक्ता कमलिनी, वृक्षः) दर्शितेत्यर्थः । 3 संघट्टेन पूर्वं दष्टानि विद्धानि ततः पाटितानि उत्तरीयांशुकानि यस्य तेनेत्यर्थ उचितः । 4 तिलकम् । ' तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च' इति हैमः ! 5 स्खलन्त्य इत्यर्थः । 6 'प्रनृत्यविकल' इति केषाञ्चनाभिप्रेतः पाठः । 'विशेषनर्तनेन विह्वला मूकाः, इति तदर्थः ।
पाटा० - १ चलित; बलित. २ भुजवलयेन. ३ लुण्टिताम्. ४ आकाशगङ्गा. ५ चीन; स्वच्छचीन; चीर. ६ चलन. ७ लोलित. ८ पांसुपिञ्जरित ९ प्रणत्यविकल; प्रनृत्तकल: प्रवृत्तकल. १० विलम्वित ११ कदम्वेन. १२ अनुयातेन.
(शुकनासपुत्रजन्मोत्सवः)
पूर्वभागः ।
165