________________
युगलम् । एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते।' इत्येवं कथयत्येव तस्मिन्ससंभ्रमापसृतेन राजलोकेन द्वारिस्थितेन दत्तमार्गस्त्वरितगतिरागत्य प्रहर्षोद्गमपुलकिततनुः स्फारीभवल्लोचनो मङ्गलकनामा प्रहप्टवंदनः पुरुषः पादयोः प्रणम्य राजानं व्यजिज्ञपत्-‘देव, दिष्ट्या वर्धसे । प्रतिहतास्ते शत्रवः । चिरं जीव । जय पृथिवीम् । त्वत्प्रसादादत्रभवतः शुकनासस्यापि ज्येष्ठायां ब्राहाण्यां मनोरमाभिधानायां राम इव रेणुकायां तनयो जातः, श्रुत्वा देवः प्रमाणम् इति ।
अथ नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रीतिविस्फारिताक्षःप्रत्यवदत्-‘अहो कल्याणपरम्परा । सत्योऽयं लोकप्रवादो यद्विपद्विपद संपत्सपदमनुबघ्नातीति । सर्वथा समानसुखदुःखता दर्शयता विधिनापि भवतेव वयमनुवर्तिताः' इत्यभिधाय प्रीतिविकसितमुखः सरभसमालिङ्गय विहसन्स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार । तस्मै च प्रीतमनाः प्रियवचनानुरूपं पुरुषायापरिमितं पारितोषिकमादिदेश । उत्थाय च तथैव तेन चरणविकुट्टनक्वणितनू -
*********** सश्लेषस्तत्राचित योग्यमवविध चरणयुगलं पादद्वितयम् । चिह्नान्तरमाह - एष चेति । अस्य बालस्य रुदत एष समीपतरवर्ती दुन्दुभरिव पटहस्येवातिगम्भीरोऽतिमन्द्रः स्वरयोगो ध्वनिसंवन्धः श्रूयत आकर्ण्यते । इत्येवं पूर्वोक्तप्रकारेण कथयत्येवेति क्रियासगतेनैवकारेण सामानाधिकरण्यमुच्यत इति । तस्मिञ्शुकनासे कथयत्येव ब्रुवत्येव मङ्गलकनामा पुरुषो राजानं पादयोश्चरणयोः प्रणम्य व्यजिज्ञपद्विज्ञापना चकार । मङ्गलक विशेषयन्नाह - दत्तेति । दत्तो मार्गो यस्येति स तथा । केन । राजलोकेन राजसमूहेन । कीदृशेन । द्वारि स्थितेन प्रतीहारस्थितेन । पुनः कीदृशेन । ससंभ्रमं सत्वरमपसृतेन दूरीभूतेन । त्वरित (ता) शीधं (घा) गतिर्गमनं यस्य स तथा । प्रहर्षेति । प्रहर्षोद्गमन प्रमोदोद्गमेन पुलकित (ता) कण्टकितं(ता) तनुर्यस्य सः । स्फारीभवती विस्तीर्णता प्राप्यमाणे लोचने यस्य सः । प्रहृष्ट सहर्ष वदनं यस्य सः । देव स्वामिन्, त्वं दिष्ट्या भाग्येन वर्धस एधसे । ते शत्रवः प्रतिहताः क्षयं प्राप्तां । चिरं बहुकाल जीव प्राणिाहे । पृथिवीं वसुंधरा जय गृहाण ! त्वत्प्रसादात्तव माहात्म्यादत्रभवतः पूज्यस्य शुकनासस्यापि ज्येष्ठाया ब्राहाण्याम् । इत्यनेन हातिशयः सूचितः । शूद्राया त्वनौचित्यात् 'तत्राय जायते स्वतः' इत्युक्तत्वात् । मनोरमत्यभिधानं नाम यस्याः सा तस्याम् । कस्या क इव । रेणुकाया तुलजायां राम इव परशुराम इव तनयः पुत्रो जातः समुत्पनः । श्रुत्वेति । श्रुत्वा एतदाकर्ण्य देवो भवान्प्रमाणमिति यदाज्ञापयति देवस्तदेव कर्तव्यमिति भावः ।।
अथेति । अथ एतदाकर्णनान्तरं नृपती राजाऽमृतस्य पीयूषस्य या वृष्टिर्वर्षणं तत्प्रतिम तुल्यं तद्वचन मङ्गलकवच आकर्ण्य श्रुत्वा । प्रतीति । प्रीत्या स्नेहेन विस्फारिते विस्तारिते अक्षिणी येनेति बहुव्रीहिः । ततो डः समासान्तः डित्वाट्टिलोपः । प्रत्यवदत्प्रत्यवोचत् । अहो इत्याश्चर्ये । कल्याणपरम्परा श्रेयःसंततिः । अतो ज्ञायत इति । सत्योऽयमवितथोऽयं लोकप्रवादो जनाना चिरतनो वचनव्यापारः । इतिवाच्यं दर्शयन्नाह - यदिति । यत् यस्माद्धेतोविपदं विपत्, सम्पदं सम्पदनुबघ्नात्यनुगच्छति । सर्वथा सर्वप्रकारेण समान सुखदुःख ययोस्तयोभावस्तत्ता ता दर्शयता ज्ञापयता विधिनापि भवतेव वयमनुवर्तिताः पुत्रोत्पत्तिभ्यां निर्मिताः, यथा पुत्रप्राप्त्या मत्साम्य तव, तथा भवतेव ममापि साम्यमिति भावः । इत्यभिधायेत्युक्त्वा प्रीत्याभ्यन्तरस्नेहेन विकसित विमुद्रं मुखं यस्य सः । सरभस वेगेनालिङ्गयोपगृहन कृत्वा विहसन्स्मित कुर्वन्स्वयमेवात्मनैव शुकनासस्योत्तरीयं निवसनं पूर्णपात्रं पूर्वं व्याख्यातस्वरूपं जहार हृतवान् । तस्मै शुभशंसिने पुरुषाय नराय प्रीतमनाः संतुष्टचित्तः प्रियमिष्टं यद्वचनं तस्यानुरूपं योग्यमपरिमित संख्यातीतं पारितोषिक संतोषप्रयुक्तं दातुमादिदेशाज्ञा दत्तवान् । उत्थाय चेति । तथैव तेनैव प्रकारेण उत्थायात्थानं कृत्वा शुकनासभवनं गत्वा द्विगुणतर -
पाटा० - १ द्वारास्वतन. २ मङ्गल. ३ बदनपुरुषः. ४ जय च. ५ पृथिवीं प्रांतपालय. ६ भूपतिः. ७ जनप्रवादः. ८. अनुवनाति. ९ प्रियवचनश्रवणानुरूपम्. १० विघटन, कुन. ११ माणनपुर.
(164
कादम्बरी।
कथायाम्