________________
माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि । तथाहि । अस्य संध्यांशुकरक्तबालशशिकलाकारे ललाटपट्टे नलिननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति । एतद्विकचपुण्डरीकधवलं कर्णान्तायतं मुहुर्मुहुरुन्मिषितैर्धवलयतीव वासभवनमरालपक्ष्म लोचनयुगलम् । विजृम्भमाणकमलकोशपरिमलमनोहरमियमस्य सहजमाननामोदमाजिघ्रतीव दूरायता कनकले
खेव नासिका । रक्तोत्पलकलिकाकारमुबहतीवं चास्याधररुचकम् । रक्तोत्पलकलिकालोहिततलौ भगवतो विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । अभिनवकल्पतरुपल्लवकोमलं लेखामयैर्ध्वजरथतुरगातपत्रकमलैरलंकृतमनेकनरेन्द्रसहस्त्रचूडामणिचक्रचुम्बनोचितं चरण -
***********
दस्फुटानामव्यक्तानामवयवानामपघनानां शोभा यस्यैवंभूतस्यापि चक्रवर्ती सार्वभौमस्तद्वच्चिह्नानि सामुद्रिकशास्त्रोक्तानि माहात्म्य महापुरुषत्वमाविर्भावयन्ति प्रकटीकुर्वन्ति । तदेव दर्शयन्नाह - तथाहीति । 'अस्य इत्यारभ्य ‘रुदतः श्रूयते इतिपर्यन्तं प्रघट्टकः । संध्यांशव एव संध्यांशुकाः । स्वार्थे कः । तै रक्ता लोहिता या बालशशिनः प्रतिपच्चन्द्रस्य कला तस्या आकार आकृतिर्यस्यैवंविधे ललाटपट्टे भालस्थले नलिननालं मृणालं तस्य भङ्गाच्छेदादन्तस्तन्तुनिसरति तद्वत्तन्वी सूक्ष्मा इयं ऊर्जा रोमपद्धतिः परिस्फुरति । एतल्लक्षणद्वयं चक्रवर्तिन एव स्यादिति भावः । अरालं वक्र पक्ष्म नेत्ररोम यस्मिन्नेवंभूतमेतल्लोचनयुगलं मुहुर्मुहुरुन्मिषितैर्निमेषोन्मेषैर्वासभवनं धवलयतीव शुभ्रीकुर्वन्नि (करोती) व । कीदृशम् । विकचं यत्पुण्डरीकं सिताम्भोजं तद्वद्धवलम् । कर्णान्तं यावदायतं विस्तृतम् । विजृम्भेति । विजृम्भमाणः सर्वतः प्रसृतो यः कमलकोशस्तस्य परिमलस्तद्वन्मनोहरं चार्वस्थाननामोदं सहजं स्वारसि(भावि)कमियं नासिका नासा जिघ्रतीव गन्धोपादानं कुर्व(करो)तीव दूरायता दूरमत्यर्थमुच्छ्रिता । केव । कनकलेखेव सुवर्णलेखेव । रक्तोत्पलं कोकनदं तस्य या कलिका तस्या आकारो यस्मिन्नेवंभूतमधररुचकमधरलक्षणं रुचकं मङ्गलद्रव्यं मणिविशेषं वोदहतीवोद्वहनं कुर्व(करो)तीव । 'रुचक मङ्गलद्रव्ये बीजपूरे ससैन्धवे' इत्यनेकार्थः । चिह्नान्तरमाह - रक्तेति । रक्तोत्पलस्य कलिकावल्लोहितौ रक्तौ तलौ ययोस्तो भगवतो माहात्म्यवतो विष्टरश्रवस इवेन्द्रस्येव शङ्खः कम्बुः; चक्र प्रसिद्धम्, एतयोश्चिह्न ययोरेतादृशो करौ हस्तौ । इन्द्रस्यापि करौ शङ्खचक्रलाञ्छितौ भवतः । विष्णोरनुजत्वादिति भावः । करयोरेव द्वितीयं चिह्नमाह - प्रशस्तेति । प्रशस्ता लक्षणोपेता या लेखा रेखा तया लाञ्छितौ चिह्निती करौ हस्तौ । चरणयोरप्याह - अभिनवेति । अभिनवाः प्रत्यग्रा ये कल्पतरुपल्लवाः पारिजातकिसलयास्तद्वत्कोमलं मृदु । इत्येकं लक्षणम् । पञ्चभिर्द्धितीयमाह - लेखेति । लेखामयै रेखानिष्पन्नैः । ध्वजरथतुरगातपत्रकमलैरिति । ध्वजः पताका, रथः स्यन्दनः, तुरगो ययुः, आतपत्रं छत्रम, कमलं नलिनम, एतैरलंकतं भषितम् । वैभवमाह - अनेकेति । अनेके ये नरेन्द्रा राजानस्तेषां सहस्त्रं तस्य चूडामणीनां चक्र समूहस्तेन चुम्बनं -
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 पीडनवशादस्फुटा सर्वतोभावेन अव्यक्ता अवयवशोभा यस्य तादृशस्यापि । इत्युचितम् । 2 'सन्थ्यांशुरक्त' इत्यपि पाठः, निरर्थक'क'प्रत्ययस्य कवेरनभिमतत्वात् । 3 भ्रूयुगलमध्यवर्तिनी 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा ध्रुवोः' इत्यमरः । 4 अस्य अधरो रुचकमिव अधररुचकम् (बिम्बाकार मङ्गलद्रव्यम्) रक्तोत्पलस्य या कलिका तस्या आकारमुबहतीव, इति व्याख्योचिता । 5 'वैकुण्ठोविष्टरश्रवाः' इति विष्णुरप्यर्थः । 6 प्रशस्ताः याः अडशादिरेखाः ताभिरिति बहुवचनमन्ये यथार्थं मन्चते किन्त्वेकवचनेऽपि न व्याकरणबाधा ।
पाठा० - १ आविर्भावयन्तीव. २ संध्यांशुरक्त. ३ ललाटपट्टे च. ४ नवनलिन. ५ विजृम्भमाणकोश. ६ दूरादायता. ७ रक्तोत्पलनिकरम्; रक्तोत्पलकलिकानुरागम्. ८ इवास्य; एतस्य. ९ चास्याधरकम्; चास्याधरपुटकम्. १० कलिकाकारलोहित.
(जातस्य कुमारस्य वर्णनम् ।
पूर्वभागः।
163)