________________
पल्लवम्, उत्फुल्लमिव रक्तारविन्दराशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव रचितावयवम्, अनभिव्यक्तमुखपञ्चकमिव महासेनम्, सुरवनिताकरपरिभ्रष्टमिवामरपतिकुमारकम्, उत्तप्तकल्याणकार्तस्वरभास्वरया स्वदेहप्रभया पूरयन्तमिव वासभवनम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आगामिकालपालनप्रहृष्टयेव श्रिया समालिङ्गितम्, आह्लादहेतुमात्मजं ददर्श । विगतनिमेषनिश्चलपक्ष्मणा च मुहुर्मुहुः प्रमृष्टसंघटितानन्दबाष्पंपटलप्लुततारकेण दूविस्फारितेन स्निग्धेन चक्षुषा पिबन्निवालपन्निव स्पृशन्निव मनोरथसहसप्राप्तदर्शनं सस्पृहं निरीक्षमाणस्तनयाननं मुमुदे । कृतकृत्यं चात्मानं मेने ।
समृद्धमनोरथः शुकनासस्तु शनैःशनैरङ्गप्रत्यङ्गान्यस्य निरूपयन्प्रीतिविस्तारितलोचनं भूमिपालमवादीत्- ‘देव, . पंश्य पश्यास्य कुमारस्य गर्भसंपीडनवशास्फुटावयवशोभस्यापि -
१४
***********
अनुपजातमनुत्पन्न काठिन्यं जरठता यस्मिन्नेवंभूतं कल्पतरुपल्लवमिव पारिजातकिसलयमिव । उत्फुल्लं विकसितं रक्तारविन्दराशिमिव कोकनदसमूहमिव, लोहिताङ्ग मङ्गलमवनिदर्शनं पृथिव्या अवलोकनं तदर्थमवतीर्णमागतमिव । विद्रुमेत्यादि । विद्यमाणा हेमकन्दलाना यानि किसलयदलानि तैरिव, बालातपस्य नवीनातपस्य छेदैः खण्डैरिव, पद्मरागो लोहितमणिस्तस्य रश्मिभिरिव, रचिता निष्पादिता अवयवा अपघना यस्य स तम् । अनेति । अनभिव्यक्तमप्रकटितं मुखपञ्चकं यस्यैवंभूतं महासेनं कार्तिकेयमिव । सुरेति । सुरवनिता देवयोषितस्तासां कराद्धस्तात्परिभ्रष्टममरपतिरिन्द्रस्तस्य कुमारकं बालमिव । उत्तप्तं तापितं यत्कल्याणकारि कार्तस्वरं स्वर्णं तद्वद्भास्वरया दीप्यमानया स्वदेहप्रभया स्वशरीरकान्त्या वासभवनं पूरयन्तमिव परिपूर्णीकुर्वन्तमिव । उद्भासेति । उद्भासमानैः शौभमानैः सहजभूषणैरिव स्वाभाविकालंकारैरिव महापुरुषाश्चक्रवर्त्यादयस्तेषां लक्षणैश्चिद्वैरुपेतं सहितम् । आगामीति । आगामिकाले भविष्यत्काले यत्पालनं रक्षणं तस्मात्प्रहृष्टया हर्षितयेव श्रिया लक्ष्म्या समालिङ्गितमुपगृहितम् । आह्लादस्य प्रमोदस्य हेतुं कारणम् । अन्वयस्तु प्रागेवोक्तः । विगतेति । स राजा चक्षुषा तनयाननं निरीक्षमाणो मुमुदे संतोषमवाप । अथ चक्षुर्विशेषयन्नाह-विगतो निमेषो यस्मादत एव निश्चलं स्थिरं पक्ष्म यस्य तत्तेन मुहुर्मुहुर्वारंवारं प्रमृष्टः प्रमार्जितः संघटितः प्रादुर्भूतो य आनन्दबाष्पः प्रमोदाश्रु तस्य पटलं तेन प्लुता क्लिन्ना तारका कनीनिका यस्मिंस्तत्तेन दूरमत्यर्थं विस्फारितेन विस्तारितेन स्निग्धेन चिक्कणेन । एतेनानन्दस्वरूपरसाभिव्यक्तिः सूचिता । पिबन्निव । अत्यादरेणावलोकनं पानमुच्यते । आलपन्निवालापं कुर्वन्निव । स्पृशनिव स्पर्शं कुर्वन्निव । मन इति । मनोरथानां वाञ्छितानां यत्सहसं तेन प्राप्तं दर्शनं यस्य स तम् । सस्पृह स्पृहासंयुक्तं यथा स्यात्तथेति क्रियाविशेषणम् । कृतेति । आत्मानं च कृतकृत्यं कृतार्थ मेने ज्ञातवान् ।
शुकनासस्तु समृद्धः संपन्नो मनोरथो यस्यैवंभूतः शनैःशनैरस्य कुमारस्याङ्गं शरीरं प्रत्यङ्गानि हस्तपादादीनि निरूपयन्विलोकयन् । प्रीतीति । प्रीत्या स्नेहेन विस्तारित लोचने नेत्रे येनैवंभूतं भूमिपालं नृपतिमवादीदभ्यधात् । देवेति । हे देव हे स्वामिन्, पश्य पश्य विलोकय विलोकय अस्य कुमारस्य गर्भे यत्संपीडनं तदशा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 प्रवालानां वा । 2 शुकनासस्य समृद्धमनोरथताहर्षसूचनाय प्रीतिविस्फारितलोचनो यथा स्यात्तथा निरूपयनिति क्रियाविशेषणमिदम् ।
पाठा० - १ विरचित. २ करतल. ३ भ्रष्ट. ४ अमरपतिकुमारम्; अमरकुमारकम्. ५ भास्वरतया. ६ प्रहृष्टया श्रिया. ७ पक्ष्मणा मुहुर्मुहुः. ८ संघट्टिता. ९ बाष्पबिन्दु. १० दूरम्. ११ ईक्षमाणः. १२ बालस्य. १३ विस्फारितलोचनम्; विस्फारिताक्षः; विस्फारितलोचनः. १४ पश्यास्य. १५ अपरिस्फुट.
(162)
कादम्बरी।
कथायाम्