________________
मालालंकृतजरच्छागम्, अखिलव्रीहिमध्यावस्थापितार्यवृद्धाध्यासितशयनीयशिरोभागम्, अनवरतदह्यमानाज्यमिश्रभुजगनिर्मोकमेषविषाणक्षोदम्, अनलप्लुष्यमाणारिष्टतैरुपल्लवोल्लसितरक्षाधूमगन्धम्, अध्ययनमुखरद्विजगणविप्रकीर्यमाणशान्त्युदकलवम्, अभिनवलिखितमातृपदपूजाव्यग्रधात्रीजनम्, अनेकवृद्धाङ्गनारब्धसूतिकामङ्गलगीतिकामनोहरम्, उपपाद्यमानस्वस्त्ययनम्, क्रियमाणशिशुरक्षाबलिविधानम्, आबद्ध्यमानधवलकुसुमदामशतम्, अविच्छिन्नपठ्यमाननारायणनामसहस्त्रम् अमलहाटकयष्टिप्रतिष्ठापितैरन्तःशुभशतानीव निश्चलशिखैर्ध्यायद्भिर्मगलप्रदीपैरुद्भासितम, उत्खातासिलतासनाथपाणिभिः सर्वतो रक्षापुरुषैः परिवृतं सूतिकागृहमदर्शत् ।
अम्भः पावकं च स्पृष्ट्वा विवेश । प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलासवत्याः, स्वप्रभासमुदयोपहतगर्भगृहप्रदीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डलमिव सवितारम्, अपरसंध्यालोहितबिम्बमिव चन्द्रमसम्, अनुपजातकाठिन्यमिव कल्पतरु -
***********
स्तत् । अखिलेति । 'क्षेत्राद्यप्रहितं खिलम्' इति कोशः । न विद्यते खिलं येषां तेऽखिलाः क्षेत्रोत्पना ये व्रीहयो धान्यानि तन्मध्येऽवस्थापिता यार्यवृद्धा तयाध्यासितः शयनीयशिरोभागो यस्मिन् । 'आयुर्वृद्ध' इति पाठ आयुर्वृद्धा गोमयपुत्तलिका । शेषं पूर्ववन् । अनवरतेति । अनवरतं निरन्तरं दह्यमानः प्रज्वलमान आज्येन सर्पिषा मिश्रः संयुक्तो भुजगस्य सर्पस्य निर्मोकः कञ्चुकः, मेषस्योरणस्य विषाणं श्रृङ्ग तयोः क्षोदचूर्ण यस्मिन् । अनलेति । अनलेन वह्निना प्लुष्यमाणा दह्यमाना येऽरिष्टतरुपल्लवा निम्बवृक्षकिसलयास्तेषामुल्लसितो विकसितो रक्षार्थं धूमगन्धो यस्मिन् । अध्ययनेति । अध्ययनेन मुखरा वाचाला ये द्विजगणा विप्रसमूहास्तैर्विप्रकीर्यमाणा इतस्ततो विक्षिप्यमाणाः शान्त्यर्थमुदकलवाः पानीयपृषता यस्मिन् । अभिनवेति । अभिनवो नूतनो लिखितो यो मातृणां पटो मातरो वालरक्षाकारिण्यो देव्यो यस्मिन्पटे लिख्यन्ते तस्य पूजायां व्यग्रो धात्रीजनो यस्मिन् । सूतिकेति । सूतिकामुद्दिश्य अनेकवृद्धाङ्गनाभिर्जरत्स्त्रीभिरारब्धा या सूतिकामङ्गलगीतिका तया मनोहरम् । उपपाद्यमानं क्रियमाणं स्वस्त्ययनमरिष्टनिवृत्त्युपायो यस्मिन्, क्रियते क्रियमाणं विधीयमानं शिशोर्बालस्य रक्षार्थं बलिविधान यस्मिन् । आबद्ध्येति । आबध्यमानं धवलकुसुमाना श्वेतपुष्पाणा दामशतं सक्शतं यस्मिन् । अवीति । अविच्छिन्नं निरन्तरं पठ्यमानं नारायणस्य कृष्णस्य नामसहस्त्रं यस्मिन् । अमलेति । अमलं निर्मलं यद्धाटक सुवर्णं तस्य यष्टयो दण्डास्तेषु प्रतिष्ठापितैः सम्यक्तया स्थापितैः । निश्चलेति । निश्चला अकम्प्रा शिखार्चिर्येषा ते तथा तैः । अतएवान्तमध्ये शुभशतानि ध्यायद्भिरिव । एवंविधैर्मङ्गलप्रदीपैरुद्भासितं शोभितम् । उत्खातेति । उत्खाताः कोशाहिः कर्षिता असिलताः खङ्गलतास्ताभिः सनाथाः सहिताः पाणयो हस्ता येषामेवंविधैः सर्वतश्चतुर्दिक्षु रक्षार्थं नियुक्तसुभटैः परिवृतं परिवेष्टितम् । अन्वयस्तु प्रागेवोक्तः ।
अम्भ इति । अम्भो जलं पावकं वह्निं च स्पृष्ट्वा तत्स्पर्श विधाय विवेश गृहे प्रवेशं कृतवान् । बालकनिरीक्षणे दृष्टिदोषनिवारकमेतत् । प्रविश्येति । प्रविश्य प्रवेशं कृत्वात्मजं ददर्शेत्यन्वयः । अथात्मजं विशेषयत्राह - प्रसवेति । प्रसवेन वैजननेन परिक्षामा कृशा पाण्ड्वी च मूर्तिः शरीरं यस्या एवंविधाया विलासवत्या उत्सङ्गः क्रोडस्तत्र गतं प्राप्तम् । स्वेति । स्वकीयप्रभायाः कान्त्याः समुदयेन समूहेनोपहता दूर ध्वस्ता गर्भगृहस्य सूतिकागृहस्य प्रदीपप्रभा गृहमणिकान्तिर्येन स तम् । अपरित्यक्तो यो गर्भस्य रागो रक्तिमा तस्य भावस्तत्त्वं तस्मात् । उदयेनोद्गमनेन परिपाटलं श्वेतरक्तं मण्डलं यस्यैवंभूतं सवितारं सूर्यमिव । अपरसंध्या पश्चिमसायंकालस्तयालोहितमा ईषद्रक्त बिम्ब यस्यैवंभूतं चन्द्रमसं निशानाथमिव । अनुपेति ।
पाठा० - १ अवस्थित. २ शयन. ३ निम्बतरु. ४ उद्यत, ५ अपश्यत्. ६ प्रदीपक. ७ संध्यालोहित.
(सूतिकागृहवर्णनम् ।
पूर्वभागः ।
161