________________
शलाञ्छिताभिः कुसुम्भकेसरलवाश्लेषलोहिताभिर्लेखाभिरालिखितस्वस्तिकभक्तिजालमुपरचयता हारिद्रद्रावविच्छुरणपिञ्जरिताम्बरधारिणी भगवती षष्ठी देवीं कुर्वता विकचपक्षपुटविकटशिखण्डिपृष्ठमण्डलाधिरुढमालोललोहितपटघटितपताकमुल्लसितशक्तिदण्डप्रचण्डं कार्तिकेयं संघटयता विन्यस्तालक्तकपटलपाटलमध्यभागौ सूर्याचन्द्रमसावाबध्नता कुङ्कुमपङ्कपिञ्जरीकृतामूर्ध्वप्रोतकनकमययवनिकरकण्टकितामविरललग्नगौरसिद्धार्थकप्रकारतया काञ्चनरसखचितामिव मृन्मयगुटिकाकदम्बमालां विन्यस्यता चन्दनजलधवलितेषु भित्तिशिखरभागेषु पञ्चरागविचित्रचेलचीरकलापचिह्नामापीतपिष्टपङ्काङ्किता वर्धमानपरम्परामन्यानि च सूतिकागृहमण्डनमङ्गलानि संपादयता पुरंध्रिवर्गेण समधिष्ठितम्, उपद्वारसंयतविविधगन्धकुसुम -
***********
कुसुम्भेति । कुसुम्भं कमलोत्तरं तस्य केसरलवाः किञ्जल्कखण्डास्तैराश्लेषः रक्ताभिः संबन्धस्तेन लोहिताभी रक्ताभिः । पुनः किं कुर्वता । सृजता । हरिद्रा रजनी तस्या द्रवो रसस्तस्य विच्छुरणं प्रोक्षणं तेन पिञ्जरितं पीतरक्ततां प्राप्तं यदम्बरं वस्त्रं तद्धारिणी भगवती षष्ठी देवीम् । पुनः किं कुर्वता । संघटयता रचयता । कम् । उल्लसितावुल्लासं प्राप्तौ यौ शक्तिदण्डौ । तत्र शक्तिरायुधविशेषः, दण्डो लगुडः, ताभ्यां प्रचण्डो भीषणो यः कार्तिकेयो गृहस्तम् । तमेव विशेषयन्नाह - विकचेति । विकचपक्षपुटाभ्यां विस्तीर्णवाजपुटाभ्यां विकटो विपुलो यः शिखण्डी मयूरस्तस्य पृष्ठमण्डलं तत्राधिरुढमुपविष्टम् । आलोलाश्चञ्चला लोहितपटघटिता रक्तवस्त्रनिर्मिताः पताका वैजयन्त्यो यस्मिन्स तम् । पुनः किं कुर्वता । आबध्नता न्धन विषयीकुर्वता । कौ । सूर्याचन्द्रमसौ पुष्पवन्तौ । देवताद्वन्द्वत्वात्पूर्वपदस्य दीर्घता । तौ विशेषयन्नाह - विन्यस्तेति । विन्यस्तं रचितं यदलक्तकपटलं तेन पाटलौ श्वेतरक्तौ मध्यभागी ययोस्तौ । पुनः किं कुर्वता । विन्यस्यता स्थापयता काम् । मृन्मयगुटिकाकदम्बमालां मृन्मय्यो मृत्तिकाभिर्निष्पन्ना या गुटिका गुलिकास्तासां कदम्बः समूहस्तस्य माला स्त्रक् । ताम् । मालां विशेषयन्नाह - कुङ्कमेति । कुङ्कुमस्य केशरस्य यः पङ्कस्तेन पिञ्जरीकृतां पीतरक्तीकृताम् । ऊर्ध्वप्रोताः स्यूता ये कनकमययवाः सुवर्णहयप्रियास्तेषां निकरः समूहस्तेन कण्टकिता संजातकण्टकाम् । अविरल निबिडं लग्नाः संबद्धा ये गौरसिद्धार्थका गौरसर्षपास्तेषां प्रकारस्तस्य भावस्तत्ता तया हेतुभूतया । काञ्चनस्य सुवर्णस्य यो रसस्तेन खचितामिव संबद्धामिव । अनेन सुवर्णसर्षपयोः साम्यं प्रदर्शितम् । चन्दनेति । चन्दनं मलयजं तस्य जलं द्रवस्तेन धवलितेषु शुभ्रीकृतेषु भित्तिशिखरभागेषु कुड्यप्रान्तप्रदेशेषु वर्धमानपरंपरां शरावश्रेणीमन्यानि च सूतिकागृहमरिष्टगृहं तस्य मण्डनमङ्गलानि शोभाकारिरचनाविशेषास्तानि संपादयता निष्पादयता । वर्धमानपरम्परां विशेषयन्नाह - पञ्चेति । पञ्चरागैर्विचित्रा ये चेलचीरा वस्त्रखण्डास्तेषां कलापः समूहः स एव चिह्न यस्यां सा ताम् । आ ईषत्पीते यः पिष्टपङ्कस्तेनाङ्कितां चिह्निताम् । पुनः प्रकारान्तरेण गृहं विशिनष्टि - उपेति । उपद्वारे द्वारसमीपे संयतो बद्धो विविधो गन्धो यास्वेवंविधाः कुसुममालाः पुष्पसजस्ताभिरलंकृतो भूषितो जरच्छागो वृद्धोडजो यस्मि -
टिप्प० - 1 महारजनपुष्पं 'कसूंभा' इति भाषा । 2 तण्डुलपिष्टद्वारा निर्मिमाणेन । 3 अथवा गुलिका एव कदम्बानि कदम्बकुसुमानि तेषा मालामित्यर्थः । 4 सुवर्णनिर्मिता यवा (यवधान्यानिसुवर्णघटितयवग्रथनेन कण्टकितत्वं प्रतीयत इत्याशयः । 5 प्रकरतया, इत्यपि पाठः । अविरल यथा स्यात्तथाससक्तः श्वेतसर्षपाणां प्रकरः समूहो यस्मिन् तद्भावः, तत्तया । सा माला गौरसर्षपयुक्ता, अत एव सुवर्णलेपखचितेव प्रतीयत इत्याशयः ।
पाठा० - १ हरिद्र. २ परिपिञ्जराम्बर. ३ शिखण्डिमण्डलः, शिखिपृष्ठमण्डल. ४ संघट्टयता. ५ प्रकरतया. ६ पिष्टक; पिष्टातक. ७ वर्धमानक. ८. प्रसवगृह.
(160)
कादम्बरी ।
कथायाम्-)