________________
पार्थिवस्तु तनयाननदर्शनमहोत्सवहृतहृदयोऽपि दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते मुहूर्ते निवारितनिखिलपरिजनः शुकनासद्वितीयो मेणिमयमङ्गलकैलशयुगलाशून्येनासक्तबहुपुत्रिकालंकृतेन विविधनवपल्लनिवहनिरन्तरनिचितेन संनिहितकनकमयहलमुसलयुगेन विरलग्रथितसितकुसुममिश्रदूर्वाप्रवालमालालंकृतेनावलम्बिताविकलव्याघ्रचर्मणा वन्दनमालिकान्तरालघटितघण्टागणेन द्वारेण विराजमानम्, उभयतश्च द्वारपक्षकयोमर्यादानिपुणेन गोमयमयीभिरुत्तानविनिहितवराटकदन्तुराभिरन्तरान्तराबद्धविविधवर्णरागरुचिरसिकुसुमले -
***********
कलकलेन कोलाहलेन मुखरो वाचालः । तदनन्तरं नृपतिर्यच्चकार तदाह - पार्थिवस्त्विति । पार्थिवो राजापि सूतिकागृहमरिष्टगृहमदर्शदिति दूरेणान्चयः । अथ राजान विशिनष्टि - तनयेति । तनयः सुतस्तस्यानन मुखं तस्य दर्शनेनावलोकनेन यो महोत्सवस्तेन हृत गृहीतं हृदयं चित्तं यस्यैवंभूतोऽपि । कदा ददर्शेत्यत आह - दिवेति । दिवसवशेन । शुभदिनानुसारेणेत्यर्थः । मौहूर्तिकानां ज्योतिर्विदा गणस्तेनोपदिष्टे प्रशस्त उत्कटफलसूचके मुहूर्ते । निवारितो दूरीकृतो निखिलः समग्रः परिजनः परिच्छदो येनेति राज्ञो विशेषणम् । शुकनास एव द्वितीयो यस्य स तथा । गृह विशेषयन्नाह - द्वारेति । द्वारेण प्रतीहारेण विराजमान शोभमानम् । द्वारं विशेषयनाह - मणीति । मणिमयं रत्नमयं यन्मङ्गलकलशयुगलं तेनाशून्येन । सर्वदा तत्संयुक्तेनेत्यर्थः । पुत्रवत्या महाद्वारोपरि मणिमयकलशारोपण क्रियत इति राजस्थितिः । आसक्ताः संश्लिष्टा बहुपुत्रिका मषीलिखितास्ताभिरलंकृततमिति गृहविशेषणम् । यस्मिन्गृहे प्रसूतिर्जायते तवारदेशे क्रमव्युत्क्रमाभ्यां मषीलिखिते संश्लिष्टे पुत्रिके क्रियते इति वृद्धाचारः । कैश्चित्तु बहुपुत्रिकानाम श्लक्ष्णफलैरुपेतो विटपिविशेषः । कथ्यते । शतावरीत्यन्ये । विविधा भिन्नभिन्नजातीया ये नवपल्लवा नवकिसलयास्तेषां निवहः समूहस्तेन निरन्तरं नित्यं निचितेन व्याप्तेन । संनिहितानि समीपवर्तीनि कनकमयानि सुवर्णमयानि हलं सीरम्, मुसलमयोग्रम्, युगमीशान्तबन्धनम्, एतानि यस्मिन् । अयं च राज्ञां गृहे क्वचिद् देशाचारः हलमुसलयोर्युगमिति समासो वा । विरलेति । विरलानि ग्रथितान्यन्तरान्तरा गुम्फितानि यानि सितकुसुमानि श्वेतपुष्पाणि तैर्मिश्रा संपृक्ता या दूर्वा बहुप्ररोहा तस्याः प्रवालमालया पल्लवश्रेण्यालंकृतं भूषितं तेन । अवेति । अवलम्बितमविकलं संपूर्ण व्याघ्रचर्म श्वेतपिङ्गलकृत्तिर्यस्मिंस्तत्तथा तेन । वन्दनेति । मङ्गल्यं पुष्पदाम वन्दनमालिका । 'तोरणार्थे तु मङ्गल्यं दाम वन्दनमालिका' इत्यभिधानचिन्तामणिः । तस्या अन्तराले मध्य विभागे घटितो रचितो घण्टागणो यस्मिन्स तेन । पुनस्तमेव विशेषयन्नाह - उभयतश्चेति । पुरंध्रिवर्गेण । 'पुरंध्री सुचरित्रा' इत्यमरः । समधिष्ठितमध्यमिति दूरेणान्वयः । किं कुर्वता । पुरंध्रिवर्गेण । आलिखितो लिपीकृतः स्वस्तिकः । प्रसिद्धो यस्मिन्नेवंभूतं भक्तिजालं रचनासमूहमुपरचयता कुर्वता । कयोः । द्वारपक्षकयोः । उभयत उभयपार्धयोः । ‘पक्षद्वारं तु पक्षकम्' इति कोशः । कीदृशेन । मर्यादानिपुणेन मर्यादा स्थितिस्तत्र निपुणेनाभिज्ञेनेति पुरध्रिवर्गस्य विशेषणम् । काभिः लेखाभिर्वर्तिभिः । अथ लेखा विशेषयन्नाह - गोमयेति । गोमयं छगणं तन्मयीभिः । उत्तानेति । उत्तानमूर्ध्वमुखं विनिहिताः स्थापिता ये वराटकाः कपर्दकास्तैर्दन्तुराभिर्विषमोन्नताभिः अन्तरान्तरा मध्येमध्य आबद्धा नियमिता विविधवर्णा नीलपीतादिधातवस्तेषा रागेण रुचिरं कूर्पासमेव कुसुमं तस्य लेशाश्छेदास्तैलाञ्छिताभिश्चिह्निताभिः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 शुभसमयानुरोधेनेत्यर्थः । 2 आसक्ताभिः परस्पराश्लिष्टाभिः संमिलिताभिर्वा बहुपुत्रिकाभिः बहपुत्रशालिनीभिर्नारीभिः अलंकृतेन इत्यर्थः । संतानरक्षाशकुनार्थं ता द्वारोपरि उपस्थिता भवन्तीत्याचारः ।
पाठा० - १ दर्शनोत्सव. २ कनकमय. ३ कलशाशून्येन. ४ पुत्रिकाप्रतानेन. ५ वन. ६ युगलेन. ७ आलम्बिताविरल; आलम्बिताविकट. ८ माला. ९ द्वारदशेन. १० वराटकप्रकारदन्तुराभिः ११ कार्पास; कास.
(सूतिकागृहवर्णनम् ।
पूर्वभागः ।
159