________________
द्गतिशून्यकञ्चुकिसहसो जनसंमर्दनिष्षिष्यमाणपतितकुब्जवामनकिरातगणो विस्फार्यमाणान्तःपुरजनाभरणशङ्कारमनोहरः पूर्णपात्राहरणविलुप्यमानवसनभूषणः संक्षोभितनगरो राजकुले दिष्टिवृद्धिसंभ्रमोऽतिमहानभूत् । अनन्तरं च मैन्दरमथ्यमानर्जलधिघोष गम्भीरं दुन्दुभिध्वानपुरःसरेण पँहतमृदुमृदङ्गशङ्खकाहलानकनिवहनिर्भरेण मङ्गलपटहपटुरवसंवर्धितेनानेक जनसहसकलकलबहुलेन त्रिभुवनमापूरयतोत्सवकोलाहलेन ससामन्ताः सान्तःपुरा संप्रकृतयः सराजलोकाः सवेश्यायुवतयः सबालवृद्धा ननृतुरांगोपालमुन्मत्ता इव हर्षनिर्भराः प्रजाः । प्रतिदिनमवर्धत चन्द्रोदयेनेव जलधिः कलकलमुखरो राजसूनोर्जन्ममहोत्सवः ।
***********
प्रसृता विस्तृतास्तेषां हर्षोद्रेकात्स्खलन्ती या गतिर्गमनं तया शून्यं कञ्चुकिना सौविदल्लानां सहसं यस्मिन्सः । अनेन सुतोत्पत्तिज्ञापनार्थ सर्वतः कञ्चुकिनः प्रवृत्ता इति ध्वनितम् । जनेति । जनानां समर्दैन समुदायेन निष्पिष्यमाणा पीड्यमाना अतएव पतिताः सस्ताः । येषां शिरः शिरोधिपृष्ठिपादं लक्षणोपेतं न भवति पृष्ठ्युदरहृदयं च सुलक्षणं स्यात्ते कुब्जाः । एतद्विपरीतास्तु वामनाः । केवलं स्वल्पतनवः किराताः । 'किरातः स्यादल्पतनौ भूनिम्बे मलेच्छभिल्लयोः' इत्यनेकार्थः । तेषां गणः समुदायो यस्मिन् सः । विस्फार्येति । विस्फार्यमाणो वृद्धिं प्राप्यमाणो योऽन्तःपुरजनानामाभरणझङ्कारोऽलंकारनिनादस्तेन मनोहरो हृदयहारी । पूर्णेति । उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते तत्पूर्णपात्रं तस्याहरणं ग्रहणं तेन विलुप्यमानानि गृह्यमाणानि बलादाकृष्यमाणानि वसनभूषणानि यस्मिन् सः । संक्षोभितं क्षोभ प्रापितं नगरं येन स तथा । अनन्तरं चेति । अनन्तरं सुतोत्पत्त्यनन्तरमुत्सवकोलाहलेन हर्षस्य निर्भरोऽतिशयो यास्वेवंविधाः प्रजा ननृतुनृत्यं चक्रुरित्यन्वयः । प्रजा विशिनष्टि - ससामन्ता इति । सामन्तां स्वेदशपार्श्ववर्तिनो राजानस्तैः, सहवर्तमानाः, सान्तःपुरा अन्तःपुरेण सहिताः, सप्रकृतयः प्रकृतिः पौरलोकस्तस्या सहवर्तमानाः, सराजलोकाः राजलोको नृपसंबन्धिजनस्तेन सहिताः, सवेश्यायुवतयो वेश्यायुवतिभिर्वाराङ्गनाभिरुपेताः, सबालवृद्धा बालवृद्धैः सहिताः । आगोपालमिति । आगोपालं बल्लवं मर्यादीकृत्य यथा स्यात्तथेति क्रियाविशेषणम् । क इव । उन्मत्ता इव क्षीबा इव । उत्सवकोलाहलेन किं कुर्वता । आपूरयता पूर्णीकुर्वता । किम् । त्रिभुवन त्रिविष्टपम् । उत्सवकोलाहलं विशिष्टि - मन्दरेति । मन्दरेण मेरुणा मथ्यमानो विलोड्यमानो यो जलधिः क्षीराब्धिस्तस्य घोषस्तद्वद्गम्भीरो यो मूदुर्मृदङ्गो मुरजः, शङ्खः कम्बुः, काहलो वाद्यविशेषः, आनको दुन्दुभिः तेषां निवहः समूहस्तेन निर्भरण पूर्णेन । मङ्गलार्थ वाद्यते यः स मङ्गलपटहश्चर्मवाद्यं तस्य यः पटुरवः स्पष्टः शब्दस्तेन संवर्धितेन वृद्धि प्रापितेन, अनेके ये जनास्तेषां सहस्त्रं तस्य यः कलकलः कोलाहलस्तेन बहुलेन दृढेन । अधिकीभूतेनेत्यर्थः । प्रतीति । प्रतिदिनं प्रत्यहं राजसूनोर्नृपात्मजस्य जन्ममहोत्सवो जनिक्षणोऽवर्धत वृद्धि प्राप । केनेव । चन्द्रोदयेन कुमुदबान्धवोद्गमनेन जलधिरिव समुद्र इव । कीदृग्जन्ममहोत्सवः ।
टिप्प० - 1 भूपालाभिमुखं प्रसृतं चलितं स्खलद्गतिशून्यम् (अन्यस्मिन् समये वार्धक्येन स्खलद्गतियुक्तमपि संप्रति हर्षोद्रेकवशात् तच्छून्यमित्यर्थः) । केषाञ्चिन्मते-'भूपालाभिमुखप्रसृतस्खलद्गतिविकलकञ्चुकिसहसः' इत्यपि पाठः । भूपालाभिमुखं प्रसृतं, स्खलद्गति (स्खलन्ती गतिर्यस्य तत्), विकलम् आनन्दव्याकुल च कञ्चुकिना सहस यस्मिन् स इति तदर्थः ।
पाटा० - १ गतिकञ्चुकि; गतिविकलकञ्चुकि. २ घूर्णमान. ३ विलुठ्यमान. ४ च मध्यमान. ५ मन्दराराध्यमान. ६ जलनिधि. ७ स्वान. ८ प्रहतमृदङ्ग. ९ निवहनिनादनिभरण. १० सान्तःपुरजनाः. ११ आगोपम्. १२ प्रतिक्षणम्. १३ जलनिधिः. १४ जन्मनो महोत्सवः.
158
कादम्बरी ।
कथायाम्