________________
इयमनया कथयापि लज्जते । त्यज कुलवर्धनाकथितवार्तासंबद्धमालापकैम्' इत्यब्रवीत् । एवंविधाभिश्च नर्मप्रायाभिः कथाभिः सुचिरं स्थित्वा शुकनासः स्वभवनमयासीत् । नरेन्द्रोऽपि तस्मिन्नेव वासगृहे तया सह तां निशामत्यवाहयत् ।
ततः क्रमेण समीहितगर्भदोहदसंपादनप्रमुदिता पूर्णे प्रसवसमये पुण्येऽहन्यनवरतगलनाडिकाकलितकालकलैर्बहिरागृहीतच्छायैर्गणकैर्गृहीते लग्ने प्रशस्तायां वेलायामिरंमदमिव मेघमाला सकललोकहृदयानन्दकारिण विलासवती सुतमसूत । तस्मिजाते सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशतसंक्षोभचलितक्षितितलो भूपालाभिमुखप्रसृतस्खल -
***********
हे देव स्वामिन्, देवीं विलासवती किमायासयसि खेदयसि । इयं देव्यनया पूर्वोक्तया कथया वार्तयापि लज्जते त्रपां प्राप्नोति । त्यज दूरीकुरु । कुलवर्धना पूवोक्ता तया कथिता प्रोक्ता या वार्ता प्रवृत्तिस्तत्संबद्धमालापकं ज्ञातस्याप्यर्थस्यावेदने लज्जाकारिवाक्प्रयोगरूपम् । एवमिति । एवंविधाभिः पूर्वोक्ताभिर्नर्मप्रायाभिः परिहासबाहुल्याभिः कथाभिर्वार्ताभिः सुचिरं चिरकालं स्थित्वा तत्रावस्थानं कृत्वा शुकनासः स्वभवनं स्वगृहमयासीदाययौ । नरेन्द्रोऽपि नृपोऽपि तस्मिन्नेव वासगृहे तां निशां रात्रिं तया सह विलासवत्या सममत्यवाहयदनैषीत् ।
तत इति । ततः तदनन्तरं पुण्येऽहनि पवित्रवासरे प्रसवस्य जननस्य समयः कालस्तस्मिन्पूर्णे परिपक्वे सति गणकैयॊतिविद्भिगृहीते लग्ने मेषादिके प्रशस्तायां सर्वदोषराहित्येन मनोभीष्टायां वेलायां लग्नान्तर्वर्तिहोरायां विलासवती सुतं पुत्रमसूत सुषुवे । कीदृशी । समीहित ईप्सितो यो गर्भस्तन्निमित्तको दोहदो मनोरथः । नानारसविषयकोभिलाष इति यावत् । तस्य संपादनं परिपूर्णतापादनं तया प्रमुदिता संतुष्टा । अथ गणकान्चिशिनष्टि - आगृहीतेति । बहिरङ्गणादावागृहीता पूर्वपश्चिमादिदेशविशेषेण निश्चिता छाया यैः । अनवरतेति । अनवरतं नित्यं गलन्ती जलं त्यजन्ती या नाडिका घटिका । नाडिकाशब्दस्य समयवाचित्वेऽपि नाडीबोधकं पात्रविशेष लक्ष्यते । तया कलिता निश्चिता ज्ञाता कालकला सूक्ष्मकालो यैः । नित्यं चलन्ती या नाडिका मुहूर्ता) तस्मिन्कलिता कालकला यैरिति वा । का किमिव । मेघमाला कादम्बिनीरंमदमिव मेघवह्निमिव । 'मेघवहिरिरंमदः' इति हैमः । सुतं विशेषयन्नाह - सकलेति । सकला समग्रा ये लोकास्तेषां हृदयानि चित्तानि तेषामानन्दकारिणं प्रमोदजनकम् । अथ च तस्मिन्पुत्रे जाते परिजनस्य बाह्याभ्यन्तरसेवकजनस्य राजकुले राज्ञां समुदाये राजगृहे वा दिष्टिरानन्दस्तस्य या वृद्धिस्तस्याः संभ्रमः सोत्साहकर्मातिमहानभूदित्यन्वयः । परिजनं विशेषयन्नाह - सरभसमिति । सरभसं त्वरितमितस्ततः समन्तात्प्रधावितस्योच्चलितस्य । दिष्टिसंभ्रमं विशेषयन्नाह - चरणेति । चरणानां पादानां शतं तस्माद्यः संक्षोभः प्रघातस्तेन चलितं कम्पितं क्षितितलं यस्मात्स तथा । भूपालेति । भूपालाभिमुखं नृपसंमुखं -
टिप्प० - 1 बहिः आगृहीता पादच्छाया शङ्कच्छाया वा यैः । पादच्छायाग्रहणेन पूर्वं समयनिरूपणमक्रियत । यथा-'पच्छायां द्विगुणीकृत्य चतुर्दशसमन्विताम् । पक्षग्रहकराद्भागलब्धं दण्डादिकं भवेत् ॥ इति । 2 समयनिरूपकयन्त्रविशेषः । सार्धद्वादशपलपरिमितताम्रनिर्मितः सार्धद्वादशपलपरिमितजलपूरणीयः पञ्चरत्तिकापरिमितस्वर्णनिर्मितशलाकया अधश्छिद्रसंयुक्तो यन्त्रविशेष इत्यर्थः । तया च शलाकया जलबिन्दुपतनात्तज्जले च चिह्नविशेषोपगते समयनिरूपण पूर्वमक्रियत ।
पाठा० - १ अनयापि कथया. २ आलापम्; आलापमपि. ३ वासगृहे ताम्. ४ यथासमीहित; समुचित. ५ पूर्णप्रसवः. ६ कलेः; कले. ७ जलधरमाला.
चन्द्रापीडजन्मोत्सवः
पूर्वभागः ।।