________________
तम् । अस्य तु किं प्रतिविधास्यति विघटमानदलकोशविशदचम्पकद्युतेः । सवर्णतया परिमलानुमीयमानस्य कुङ्कुमाङ्गरागस्य पाण्डुरतामापद्यमानस्य, अनयोश्च गर्भसंभवामृतावसेकनिर्वाप्यमाणशोकानलप्रभवं धूममिव वैमतोर्गृहीतनीलोत्पलयोरिव चक्रवाकयोस्तमालपल्लवलाञ्छितमुखयोरिव कनककलँशयोः सकृदिवालिखितकृष्णागुरुपङ्कपत्रलतयोः श्यामायमानचूचुकयोः पयोधरयोः अस्य च प्रतिर्दिनमतिगाढतरतामापद्य मानेन काञ्चीकलापेन दूयमानस्य नश्यत्त्रिवलिरेषावलयस्य क्रशिमानमुझेतो मध्यभागस्य ।' इत्येवं ब्रुवाणमवनिपालमन्तर्मुखहासः शुकनासः ‘देव, किमायासयति देवीम् ।
**:
मदीयने मदुक्तेन वचसा वाक्येन यदि तव त्रपा लज्जा वितन्यते विस्तार्यते । तदिति हेत्वर्थे । अयमहमिति सोऽहमिति यदिदन्ताविषयेणाहमि यस्याभेदप्रत्यभिज्ञानम् । निभृतमत्यर्थं तूष्णीस्थितः । अस्येति । अस्य कुङ्कुमाङ्गरागस्येत्यन्वितम् । किमिति प्रश्ने प्रक वा । प्रतिविधास्यसि । तस्य गोपनं कथं करिष्यसीत्याशयः । विघटेति । विघटमानानि भिद्यमानानि दलानि यस्यैवभूतः कोशो मुकुलस्तेन विशदो निर्मलो यश्चम्पको हेमपुष्पकस्तस्य द्युतिः कान्तिस्तस्यां सवर्णतया सरूपतया । अतएव विशेषाज्ञाने परिमलानुमीयमानस्येत्युक्तम् । तथा च चम्पकपरिमलो न्यूनोऽङ्गरागपरिमलस्त्वधिक इति विशेषाद्विशिष्यानुमानं भवत्येवेत्याशयः । कुङ्कुमं काश्मीर तेनाङ्गराग उद्वर्तनं तस्यै । अन्तर्वत्नीत्वनितया पाण्डुरता तामापद्यमानस्य प्राप्यमाणस्येत्यर्थः । अथ चानयोः पयोधरयोरिति संबन्धः । कीदृशयोः गर्भसंभव एवामृतं तस्यावसेकः सिञ्चनं तेन निर्वाप्यमाणो विलुप्यमानश्चिरकालीनपुत्रानुत्पत्तिनिमित्तकः शोक एवानलो बह्निस्तस्मात्प्रभव उत्पत्तिर्यस्यैवंभूतं स्तनवृन्तोपरि श्यामतालक्षणधूममिव वमतोस्त्यजतोः । पुनरुत्प्रेक्षां कुर्वन्नाह - गृहीतेति । गृहीतमात्तं नीलोत्पलं कुवलयं याभ्यामेवंभूतयोश्चक्रवाकयोरिव रथाङ्गाह्वयोरिव । पुनरुत्प्रेक्षां कुर्वन्नाह - तमालेति । तमालस्तापिच्छस्तस्य पल्लवाः किसलयास्तैर्लाञ्छितं चिह्नितं मुखं ययोरेवंभूतयोः कनककलशयोरिव सुवर्णकुम्भयोरिव । पुनः प्रकारान्तरेणोठप्रेक्षां कुर्वन्नाह - सकृदिति । सकृदेकवारमालिखिता कृष्णागुरुपङ्केन पत्रलता पत्रवल्ली ययोरेतादृशयोरिव श्यामायमानं श्यामतामापद्यमानं चूचुकं स्तनवृन्तं ययोः पयोधरयोस्तयोर्गोपनं कथं करिष्यसि । स्तनाग्रश्यामता गर्भव्यतिरेकेणानुपपद्यमाना तद्भावमाविष्करोतीति भावः । अस्य चेति । मध्यभागस्येत्यनेनान्वितम् । प्रतिदिनं प्रत्यहमतिगाढतरतामतिदृढतामापद्यमानेन प्राप्यमाणेन काञ्चीकलापेन रशनाकलापेन दूयमानस्य पीड्यमानस्य । नश्यदिति । नश्यद्भ्रश्यत्त्रिवल्यास्त्रिकस्यै रेषावलयं यस्मिन्स तथा तस्य । कृशस्य भावः क्रशिमा कृशत्वमुज्झतस्त्यजतो मध्यभागस्य मध्यप्रदेशस्येत्येवमिति पूर्वोक्तप्रकारेण ब्रुवाणं वदन्तं अवनिपालं नृपं शुकनास इत्यब्रवीदित्यन्वयः । कीदृक् । अन्तर्मुखे मुखमध्ये हासो यस्य सः । एतेन महापुरुषत्वं सूचितम् । इतिशब्दार्थमाह - देवेति ।
टिप्पo. - 1 'परिमलानुमीयमानकुङ्कुमरागस्य पाण्डुरतामापद्यमानस्य वर्णस्य', इत्यपि पाठः । चम्पकपुष्पकान्तेस्तुल्यवर्णतया परिमलेन (सुगन्धेन) अनुमीयमानः काश्मीरजाङ्गरागो यस्मिन् तादृशस्य वर्णस्य तव शरीरकान्तेः किं प्रतिविधास्यतीत्यन्वयः । कुङ्कुमाङ्गरागः शरीरवर्णश्चेत्युभयमपि चम्पकसवर्णमिति पृथक्तया अनुपलक्ष्यमाणत्वात् परिमलेन केशरानुलेपनमनुमीयते इति भावः । उन्मीलितमलंकारः । 2 नश्यत् विलुप्यमानं त्रिवलिलेखानां वलयं मण्डलं यस्मिन्नित्यर्थः ।
पाठा० - १ मानस्य कुङ्कुमरागस्य; मानकुङ्कुमाङ्गरागस्य २ पाण्डुतामापाद्यमानस्य. ३ मानस्य वर्णस्य ४ संभवावसेक. ५ हृदयशोका. ६ वमतोरन्तर्गृहीत; बहतोराननगृहीत. ७ कलशयोरिव ८ लिखित ९ अतिगाढताम् १० आपाद्यमानेन ११ लेखा. १२ उद्वहतः १३ मुखविनिगूढहासः; मुखनिगूढाहासः.
156
कादम्बरी ।
कथायाम्