________________
ससंभ्रमपरिजनप्रसारितकरतलालम्बनावष्टम्भेन वामजानुविन्यस्तहस्तपल्लवां प्रचलितभूषणमणिरवमुखरमुत्तिष्ठन्ती विलासवतीम् ‘अलमलमत्यादरेण । देवी, नोत्थातव्यम्' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्टचामीकरचारुपादे धवलोपच्छदे चासन्ने शयनान्तरे शुकनासोऽपि न्यषीदत् । अथ तामुपारूढगर्भामालोक्य हर्षभरमन्थरेण मनसा प्रस्तुतपरिहासो राजा ‘देवि, शुकनासः पृच्छति-यदाह कुलवर्धना किमपि तत्किं तथैव' इत्युवाच । अथाव्यक्तस्मितच्छुरितकपोलाधरलोचना लज्जया देशनांशुजालकव्याजेनांशुकेनेव मुखमाच्छादयन्ती विलासवती तत्क्षणमधोमुखी तस्थौ । पुनःपुनश्चानुबध्यमाना 'किं मामतिमात्र त्रपापरवशा करोषि । नाहं किंचिदपि वेद्मि' इत्यभिदधाना तिर्यग्वलिततारकेण चक्षुषावनतमुखी राजानं साभ्यसूयमिवापश्यत् । अपरिस्फुटहासज्योत्स्नाविशदेन मुखशशिना भूभुजां पतिरेनां भूयो बभाषे-'सुतनु, यदि मंदीयेन वचसा तव त्रपा वितन्यते तदयमहं स्थितो निभृ -
***********
न्धिगृहे पृथगासने राजोपविशदित्यर्थमाहुः । तामेव विशिनष्टि - ससंभ्रमेति । ससंभ्रमं सचकितं सविलास वा, परिजनेन सेवकजनेन प्रसारित विस्तारितं यत्करतलं हस्ततलं तदेवालम्बनमाधारस्तस्यावष्टम्भेन सहायेन वामेऽपसव्ये जानौ नलकीले विन्यस्तः स्थापितो हस्त एव पल्लवो ययेति गर्भवतीज्ञापक लक्षणम् । प्रचलितानि भूषणानि तेषां मणिरवेण मुखरं वाचालं यथा स्यात्तथेति क्रियाविशेषणम् । अलमित्यनेनादरातिशयः सूचितः । ततश्च शुकनासोऽपि शयनान्तर आसनान्तरे न्यषीददुपविष्टवान् । तदेव विशेषयन्नाह - प्रमृष्टेति । प्रमृष्टमुज्ज्वलीकृतं यत् चामीकरं सुवर्णं तस्य चारवो मनोहराः पादा यस्मिन् (यस्य) क्वचित् 'चारुपट्टे' इति पाठः । तत्र चारुः सुन्दरः पट्टो दृढबन्धो यस्मिन्नित्यर्थः । धवलः श्वेत उपच्छद उत्तरपटो यस्मिन् । आसन्ने समीपवतिनि । अथेत्यानन्द प्राप्तो गर्भो ययैवंभूतामालोक्य निरीक्ष्य राजा पार्थिव इत्युवाचेत्यब्रवीत् । कीदृक् । प्रस्तुतः प्रारब्धः परिहासो नर्मवचनविन्यासो येन सः । केन । मनसा चित्तेन । कीदृशेन । हर्षस्य प्रमोदस्य यो भरः संभारस्तेन मन्थरेणालसेन, प्रस्तुतो गर्भधारणरूपो वृत्तान्तस्तत्र परिहासो हास्यमिति वा । एतदेव स्पष्टीकुर्वन्नाह - देवीति । हे देवि, शुकनासः पृच्छति । कुलवर्धना किमपि यदाह तत्किं तथैवेति सव्यङ्ग्यः प्रश्नः । अथेति । अथ प्रश्नानन्तरमव्यक्तमस्फुटं यस्मितं हास्यं तेन छुरितानि विकसितानि कपोलाधरलोचनानि यस्याः सा । लज्जया त्रपया दशना दन्तास्तेषामंशवः किरणास्तेषां जालक समूहस्तस्य व्याजेन मिषेणांशुकेनेव वस्त्रेणेव मुखमाननमाच्छादयन्ती प्रच्छादनं कुर्वती विलासवती तत्क्षणं तस्मिन्समयेऽधोमुख्यवाङ्मुखी तस्थौ स्थिता । पुनरिति । अपश्यदित्यन्वयः । किं क्रियमाणा । पुनःपुनर्वारंवारमनुबध्यमाना सनिर्बन्धं पृच्छ्यमाना । पुनः किं कुर्वाणा । इत्यभिदधानेतिब्रुवाणा । इतिवाच्यमाह - किमिति । किमिति हेतुना मामतिमात्रमतिसंकटं त्रपापरवशां लज्जायत्तां करोषि निर्मासि । नेति प्रतिषेधे । अहमित्यात्मनिर्देशः । किंचिदपि स्वल्पमात्रमपि वेद्मि जानामि । तिर्यगिति । तिर्यग्वलिता तारका कनीनिका यस्मिन्नेवभूतेन चक्षुषा नेत्रेणावनतमुख्यानम्रवदना राजानं नृपं साभ्यसूयमिव सहेjया वर्तमानमिवापश्यदिति प्रागुक्तमेव । पतिव्रताया धीरायास्तादृशप्रश्नस्यानुचितत्वात्साभ्यसूयमिति भावः । अपरिस्फुटोऽप्रकटो यो हासः स एव ज्योत्स्ना चन्द्रिका तया विशदेन निर्मलेन मुखशशिना वदनचन्द्रेणोपलक्षितो भूभुजां पती राजैनां विलासवतीं भूयः पुनरपि बभाष उवाच । किं तदित्याह - सुतन्विति । सुष्टु शोभना तनुः शरीरं यस्यां सेति संबोधनपदम् । यदिति यत्तदोः संबन्धः ।
- - - - - - - - - - - - - टिप्प० - 1 छुरितं कपोलाधरलोचनं यस्या इत्येकवचनमेवोचितम्, प्राण्यङ्गत्वात् । पाठा० - १ अबलम्बना. २ प्रचल. ३ चारुपदे. ४ चासनशयनान्तरे. ५ अव्यक्तच्छुरित. ६ दशनांशुकजाल. ७ अनुरुध्यमाना. ८ किं नाम माम्. ९ पतिर्भूयो. १० मदीयवचसा.
-
-
राज्ञो गर्भवार्ताऽवगमः
। पूर्वभागः ।
155)