SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ रविच्छिन्नसलिलधारीनुगम्यमानमार्गः पटलकप्रज्वलितैश्च शीतलप्रदीपैर्गोरोचनामिश्रगौरसर्षपैश्च सलिलाञ्जलिभिश्चाचारकुशलेनान्तःपुरजरतीजनेन क्रियमाणावतरणकमङ्गलाम्, धवलाम्बरविविक्तवेषेण प्रमुदितेन प्रस्तुतमङ्गलप्रायालापेन परिजनेनोपास्यमानाम्, उपारूढगर्भतयान्तर्गतकुलशैलामिव क्षितिम्, सलिलनिमग्नैरावतामिव मन्दाकिनीम्, गुहागतसिंहामिव गिरिराजमेखलाम्, जलधरपटलान्तरितदिनकरामिव दिवसंश्रियम्, उदयगिरितिरोहितशशिमण्डलामिव विभावरीम्, अभ्यर्णब्रह्मकमलविनिर्गमामिव नारायणनाभिम्, आसन्नागस्त्योदयामिव दक्षिणाशाम्, फेनावृतामृतकलशामिव क्षीरोदवेलाम्, गोरोचनाचित्रितदशमनुपहतमंतिधवलं दुकूलयुगलं वसानां विलासवतीं ददर्श । *********** कर्पूप्रदीपैः । कीदृशैः पटलके रक्तवस्त्रनिर्मितगृहे मण्डलके वा प्रचलितैरुद्दीपितैः । अविच्छिन्नेति । अविच्छिन्नाऽत्रुटिता या सलिलधारा जलधारा तया अनुगम्यमानोऽनुष्ठीयमानो मार्गो यैस्ते तयाँ तैः । गोरेति । गोरोचना प्रसिद्धा तया मित्रैः संयुक्तैर्गौरसर्षपैः श्वेतसिद्धार्थैः । पुनः कैः । सलिलस्य जलस्याञ्जलयस्तैः । पुनर्विलासवतीं विशेषयन्नाह - धवलेति । धवलाम्बरस्य चेतवाससो विविक्तो निश्चलो वेषो नेपथ्यं यस्य स तेन प्रमुदितेन हर्षितेन । प्रस्तुतेति । प्रस्तुत उपक्रान्तो मङ्गलप्रायो बाहुल्येन मङ्गलरूप आलापः संलापो यस्यैवंविधेन परिजनेन परिच्छदजनेनोपास्यमानां सेव्यमानाम् । अथोपमानान्तरेण तां विशेषयन्नाह - उपेति । उपारूढः प्राप्तो यो गर्भस्तस्य भावस्तत्ता तया हेतुभूतयान्तर्गतः कुलशैलो यस्यामेवंभूतां क्षितिमिव वसुधामिव । सर्वेषामाधारभूतत्वेन कुलशैल-सुतयोः साम्यम् । सलिले पानीये निमग्नो बुडित ऐरावतोऽभ्रमातङ्गो यस्यामेतादृशीं मन्दाकिनी गङ्गामिव । गृहागतः कन्दराप्राप्तः सिंहो मृगारिर्यस्यामेवंविशिष्टां गिरिराजमेखलामिव हिमाचलमध्यमिव । जलधरपटलमभ्रवृन्दं तेनान्तरितो व्यवहितो दिनकरो दिवसकरो यस्यामेतादृशी दिवसश्रियमिव वासरलक्ष्मीमिव । उदयगिरिणोदयाचलेन तिरोहितमाच्छादितं शशिमण्डलं यस्यामेवंभूतां विभावरी रजनीमिव । अभ्यर्णं समीपे ब्रह्मकमलस्य धातृरूपनलिनस्य विनिर्गमो बहिर्भावो यस्यामेतादृशीं नारायणनाभिमिव दामोदरकूपिकामिव । आसनः समीपवर्त्यगस्त्यस्य पीताब्धेरुदय उद्गमनं यस्यामेवंभूतां दक्षिणाशामिवावाचीमिव । फेनेन डिण्डीरेणावृता आच्छादिता अमृतकलशाः पीयूषकुम्भा यस्यामेतादृशीं क्षीरोदवेलामिव दुग्धोदधिजलवृद्धिमिव । गोरोचनया चित्रिता पिञ्जरीकृता दशाः प्रान्ता यस्यैवंभूतमनुपहतमच्छिद्रमतिधवलमतिशुभ्रं दुकूलयुगलं दुकूलयुग्मं वसानां दधानाम् । अन्वयस्तु प्रागेवोक्तः । ततश्च पार्थिवः स राजा तां विलासवतीमुत्तिष्ठन्तीमुत्थानं कुर्वतीम् । हे देवि, अलमलं कृतं कृतमत्यादरेणातिप्रयत्नेन । नोत्थातव्यं नोत्थानं कर्तव्यमित्येवमभिधायेत्युक्त्वा तस्मिन्नेव शयनीये पर्यङ्के तया सह समुपाविशदासेदिवान् । केचित्तु स्त्रीपुरुषयोरेकत्रावस्थितिर्न युक्तेति तस्मिन्नेव शयनीये शयनसंब - - - - - - - - - टिप्प० - 1 वस्त्रनिर्मिते दीपाधारे 'कन्दील 'ढोल' इति भाषाख्याते । 2 केनचिज्जरतीजनेन पश्चात् क्रियमाणा अविच्छिन्ना जलधारा येषु तानित्यर्थः । 3 येनेत्युचितम् । 4 विरिञ्चिजन्मस्थानीभूतपद्मस्येत्युचितम् । 5 अमृतकलश इत्येकवचनमेवोचितम्, उपमायां बिम्बभूतस्य सुतस्यैकत्वात् । पाठा० -१ गम्यमान. २ पटलप्र. ३ शीतलप्रदीपैश्च. ४ अभिचार. ५ अवतारणक. ६ मङ्गल्य. ७ मेखलामिव. ८ दिनश्रियम्. ९ गोरोचनातिलक. १० मणिधवलम्. (154 कादम्बरी । कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy