________________
तपत्रलताकृतरक्षापरिक्षेपम्, शयनशिरोभागविन्यस्तधवलनिद्रामङ्गलकलशम्, आबद्धविविधौषधिमूलयन्त्रपवित्रम्, अवस्थापितरक्षाशक्तिवलयम्, इतस्ततो विप्रकीर्णगौरसर्षपम्, अवलम्बितबालयोक्त्रग्रथितलो पिप्पलपत्रम्, आसक्तहरितारिष्टपल्लवम्, उत्तुङ्गपादपीठप्रतिष्ठितम्, इन्दुदीधितिधवलप्रच्छदपटम्, अचलराजशिलातलविशालम्, गर्भोचित शयनतलमधिशयानाम् कनकपात्रपरिगृहीतैरविच्छिन्नविरलावस्थितदधिलवर्जलतरङ्गतरलश्वेतशालिसिक्थनिकरैरग्रथितकुसुमसनाथैः पूर्णभाजनैरखण्डिताननमत्स्यपटलैश्च प्रत्यग्रपिशितपिण्डमिश्रे -
***********
दृश्यते हि देशविशेषे सद्यो गर्भसंभूत्यर्थं प्रथमौ नवोढायाः फलपत्रान्वितकदलिकया क्रियते । गर्भानन्तरं च पर्यङ्क उत्तरच्छदे शयनीयगृहभित्तौ वा फलपत्रान्विता लिखिता कल्पलता गर्भस्य पुष्ट्यर्थं वृद्ध्यर्थं च क्रियते । शयनेति । शयनस्य शिरोभागे विन्यस्तः स्थापितो धवलश्चन्दनादिना निद्रासमये मङ्गलकलशो यस्मिन् । इयं च देशरीतिः । तदुक्तमन्यत्र-'निद्राकलशो रूप्यमयः सर्वश्वेतः शिरोभागेऽहर्निश पूर्णजलः स्थाप्यते इति । आबद्धेति । आबद्धानि संयतानि विधिधानामनेकप्रकाराणामोषधीनां मूलानि यन्त्राणि चक्रव्यूहप्रभृतीनि पवित्राणि मन्त्रपूतगोरोचनाप्रभृतीनि यस्मिंस्तत् । अवेति । अवस्थापितानि पार्थे रक्षितानि रक्षार्थं शक्तीनां कात्यायन्यादीनां वलयानि बर्हनिर्मितानि यस्मिंस्तथा । इतस्तत इति । इतस्ततः समन्ताद्विप्रकीर्णा विक्षिप्ता गौरसर्षपाः वेतसिद्धार्था यस्मिन् । अवेति । अवलम्बितानि बालानां केशानां योक्त्र मुखबन्धनं तेन ग्रथितानि गुम्फितानि लोलानि चञ्चलानि पिप्पलपत्राण्यश्वत्थदलानि यस्मिन् । आसक्ता अन्योन्यं संलग्ना हरिता नीला अरिष्टपल्लवा निम्बकिसलया यस्मिन् । उतुङ्गेति । उत्तुङ्गान्युच्चानि यानि पादपीठानि पल्यङ्कपादाधारभूतानि काष्टविशेषाणि तेषु प्रतिष्ठितम् । इन्दिति । इन्दोश्चन्द्रस्य या दीधितिः कान्तिस्तस्या धवलः शुभ्रः प्रच्छदपट उत्तरपटो यस्मिन् । अचलेति । अचलराजो हिमाचलस्तस्मिंञ्छिलातलं तद्वद्विशालं विस्तीर्णम् । गर्भेति । गर्भवत्यवस्थायामुचित योग्यमेवंविधं शयनतलं शयनीयतलमधिशयानां विहितस्वापाम् । पुनर्विलासवतीं विशेषयन्नाह - अन्तरिति । अन्तःपुरसक्ता या जरत्यो वृद्धा योषितस्तासां जनेन समुदायेन क्रियमाणं विधीयमानमवतरणकमङ्गलं यस्यास्ताम् । अवतरणकमङ्गलमुत्तारणमिति देशाचारव्यवस्थया प्रसिद्धम् । कीदृशेन । आचारः कुलाचारस्तत्र कुशलेनाभिज्ञेन । तानेवाह - कनकेति । कनकस्य सुवर्णस्य पात्राणि भाजनानि तैः परिगृहीतैरात्तैरविच्छिन्ना अविच्छेदं प्राप्ता विरलावस्थिता अनिबिडतया स्थिता ये दध्नो लवाः खण्डास्तैः । जलेति । जलतरंगाः पानीयकल्लोलास्तद्वत्तरलाः शोभायमानाः श्वेतशालिसिक्थानां पक्वौदनानां शालिलाजानां वा निकराः समूहास्तैः । अग्रथितेति । अग्रथितान्यगुम्फितानि यानि कुसुमानि पुष्पाणि तैः सनाथैः सहितैः, पूर्णानि भृतानि भाजनानि तैः । शालिविशेषणम् । अखण्डितेति । अखण्डितमच्छिन्नमाननं मुखं येषामेवंविधैर्मत्स्यपटलैर्मीनसमूहैः । कीदृशैः । प्रत्यग्रं तत्कालीनं यत्पिशितं मांस तस्य पिण्डाः प्रसिद्धास्तैर्मिश्रितैः । पुनः कैः । शीतलप्रदीपैः -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 तद्वद् धवलः शुभ्र इत्युचितम् । 2 तस्येत्युचितम् । 3 'अवतारणकमङ्गलाम्' इत्यपि प्रचलितः पाठः । दधिलव-शाल्योदनादिभृतैः पात्रैः भूताद्यपसारणार्थं कृतम् अवतारणकरूपं नीराजनरूपेण पात्रपरिभ्रामणरूपं मङ्गलं यस्यास्ताम् । 'उतारा' इति देशभाषा । 'अवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्चने' इति मेदिनी।
पाठा० - १ विन्यस्तरत्न. २ मङ्गलम्. ३ मन्त्रपवित्रम् पत्रम्. ४ अवलम्बि. ५ बालयोक्त्रुद्मथित. ६ लोह; लोहित. ७ दलम्. ८ पादपीठी. ९ अविच्छन्न. १० सित. ११ कुसुमाञ्जलि.
गर्भवती विलासवती
पूर्वभागः ।
153