________________
स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा तया च दत्तप्रसादानन्तरमवनितलाश्लिष्टललाटरेखया शिरःप्रणामेनाभ्यर्चितः सह शुकनासेनोत्थाय हर्षविशेषनिर्भरण त्वर्यमाणो मनसा पवनचलितनीलकुवलयदललीलाविडम्बकेन दक्षिणेनाक्ष्णा परिस्फुरताभिनन्धमानस्तत्कालसेवासमुचितेन विरलविरलेन परिजनेनानुगभ्यमानः पुरःसंसर्पिणीनामनिललोलस्थूलशिखाना प्रदीपिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमिरसंहतिरन्तःपुरमयासीत् ।
तंत्र च सुकृतरक्षासंविधाने, नवसुधानुलेपनधवलिते, प्रज्वलितमङ्गलप्रदीपे, पूर्णकलशांधिष्ठितपक्षके, प्रत्यग्रलिखितमङ्गल्यालेख्योज्ज्वलितभित्तिभागमनोहारिणि, उपचरितसितविताने, वितानपर्यंन्तावबद्धमुक्तागुणे, मणिप्रदीपप्रहततिमिरे वासभवने भूतिलिखि -
***********
दादिभ्यो भूषणान्याभरणान्युन्मुच्योत्तार्य कुलवर्धनायै महत्तरिकायै दत्त्वा वितीर्य । कीदृशो नृपः । तया चेति । तया कुलवर्धनयाभ्यर्चितः पूजितः । केन । शिरःप्रणामेनोत्तमाङ्गप्रणमनेन । तां विशिनष्टि - दत्तेति । दत्तो यः प्रीत्या प्रसादो वस्त्रपात्रादिरूपस्तस्यानन्तरं पश्चादवनितले वसुधातले श्लिष्टा संयोजिता ललाटरेखालिकरेखा यया सा तया । अनेन राज्ञोऽतिवदान्यत्वं स्वस्मिन्नभिनवोक्त्या राज्ञः संतोषकरणनिमित्तकोऽभिनिवेशश्च सूचितः । पुनः किं कृतवानित्याह - सहेति । सह समानकालं शुकनासेन उत्थाय उत्थानं कृत्वा हर्षविशेषस्य प्रमोदातिशयस्य निर्भरो यस्मिन्नेवंविधेन मनसा चित्तेन त्वर्यमाणस्त्वरां क्रियमाणः । पवनेति । पवनेन वायुना चलितं यत्रीलकुंवलयं तस्य दलस्य या लीला तस्या विडम्बकेन तिरस्कारिणा दक्षिणेनापसव्येनाक्ष्णा चक्षुषा परिस्फुरता स्पन्दताभिनन्द्यमान आनन्द्यमानस्तत्कालीना या सेवा सपर्या तस्यां समुचितेन योग्येन । विरलेति । विरलविरलेन वीप्सया द्वित्त्वम् । यथा यथा वासभवनाभ्यन्तरगमन राज्ञस्तथा तथा विरलविरलत्वं बोध्यम् । एवंविधेन परिजनेन परिच्छदेनानुगम्यमानोऽनुव्रज्यमानः । पुर इति । पुरोऽग्रे संसर्पिणीनां व्रजन्तीनाम् । अनिलेति । अनिलेन वायुना लोलास्तरलाः स्थूलशिखा यासां तास्तासाम् । प्रदीपिकेति । प्रदीप एव प्रदीपिका । स्वार्थे कः । 'प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः' इति कात्पूर्वमिकारः । तासां प्रदीपिकानामालोकेन प्रकाशेन समुत्सार्यमाणा निराक्रियमाणा कक्षान्तर उत्तरोत्तरप्रदेशे तिमिरसंहतिर्धान्तसमूहो यस्येति राज्ञो विशेषणम् । अन्वयस्तु प्रागेवोक्तः । तत्र चेति । तत्र तस्मिनन्तःपुरे वासभवने शयनतलमधिशयानां विलासवतीं ददर्शति दूरेणान्वयः । वासभवनं विशेषयन्नाह - सुकृतेति । सुष्टु शोभनं कृतं रक्षासंविधानं पापपाखण्डशाकिनीडाकिनीप्रभृतीनां प्रवेशप्रतिबन्धकर्मणि मन्त्राद्यौषधप्रकारो यस्मिन् । नवा प्रत्यग्रा या सुधा तस्या अनुलेपनेन धवलिते शुभ्रीकृते । प्रचलितो मङ्गलाभिधः प्रदीपो यस्मिन् । पूर्णकलशैभृतकुम्भैरधिष्ठित पक्षक पक्षद्वारं यस्मिन । 'पक्षद्वारं त पक्षक इति कोशः । प्रत्यग्रेति । प्रत्यग्रलिखितानि नतनलिपीकतानि यानि मङगल्यानि मङगले हितान्यालेख्यानि चित्राणि तैरुज्ज्वलितो दीप्तिमान्यो भित्तिभागः कड्यप्रदेशस्तेन मनोहारिण्यभिरामे । उपेति । उपरचितं निष्पादित सितवितानं श्वेतकन्दको यस्मिन् । वितानेति । वितानमुल्लोचस्तत्पर्यन्तं तत्यान्तं यावदवबद्धो मुक्तागुणो मुक्ताजालं यस्मिन् । मणीति । मणय एव प्रदीपास्तैः प्रहतं ध्वस्तं तिमिरं तमो यस्मिन् । इतः परमेकादशभिः शयनतलं विशेषयन्नाह - भूतीति । भूत्या ऐश्वर्यार्थं लिखिता या पत्रलता पत्रफलान्विता लता कल्पलता तया कृतो रक्षाया गर्भरक्षायाः परिक्षेपो दायं यस्मिन् ।
पाठा० - १ पूर्यमाणः. २ अभिवन्द्यमान. ३ लोलोच्छलच्छिखानाम्. ४ प्रदीपकानाम्. ५ तिमिरमन्तःपुरम्. ६ तत्र वसुकृत; तत्र बहुकृत. ७ सुधालेप. ८ दीपे. ९ अधिष्ठिते. १० द्वारपक्षके; द्वारपक्षक. ११ मङ्गल्यलेख्य. १२ उज्ज्वल. १३ भागे. १४ समुपरचित. १५ सितवितान. १६ पर्यन्तस्थित. १७ मुक्ताऽऽपणे. १८ प्रतिहत. १९ भुवने. २० भूमि; भित्ति.
152
कादम्बरी।
कथायाम्