________________
मपश्यञ्छुकनासः स्वयमुत्प्रेक्ष्य समुत्सर्पितासनः समीपतरमुपसृत्य नातिप्रकटमाबभाषे 'देव, अस्ति किंचित्तस्मिन्स्वप्नदर्शने सत्यम् ? अत्यन्तमुत्फुल्ललोचना हि कुलवर्धना दृश्यते । देवस्यापीदं प्रियवचनश्रवणकुतूहलादिव श्रवणमूलमुपसर्पदुपरचयदिव नीलकुवलयकर्णपूरशोभामानन्दजलपरिप्लुतं तरलतारकं विकसदावेदयति महत्प्रकर्षकारणमीक्षणयुगलम् । उपारूढमहोत्सवश्रवणकुतूहलमुत्सुकोत्सुकं क्लाम्यति मे मनः । तदावेदयतु देवः किमिदम्' इत्युक्तवति तस्मिन्राजा विहस्याब्रवीत्-'यदि सत्यमनया यथा कथितं तथा सर्वमवितथं स्वप्नदर्शनम् । अहं तु न श्रद्दधे । कुतोऽस्माकमियती भाग्यसंपत् । अभाजनं हि वयमीदृशानां प्रियवचनश्रवणानाम् । अवितथवादिनीमप्यहं कुलवर्धनामेवंविधानां कल्याणानामसंभावितमात्मानंमन्यमानो विपरीतामिवाद्य पश्यामि । तदुत्तिष्ठ । स्वयमेव गत्वा किमत्र सत्यमिति देवी पृष्ट्वा ज्ञास्यामि' इत्यभिधाय विसृज्य सकलनरेन्द्रलोकमुन्मुच्य -
***********
विलासवत्या समाचीर्णानि व्रतानि तन्महिम्नावश्यमेतस्या गर्भो भविष्यतीत्येतादृशस्यार्थस्य सततं निरन्तरं मनसि चित्ते विपरिवर्तमानत्वाद् दृढं स्मर्यमाणत्वादविदितोऽज्ञातो वृत्तान्तो गर्भाधारणरूपो येन स तथैवंविधोऽपि शुकनासस्तत्कालोचितं तत्समययोग्यमपरमन्यदतिमहतोऽत्युत्कृष्टस्य हर्षस्य प्रमोदस्य कारणं नियामकमपश्यन्ननवलोकयन्स्वयमात्मनोप्रेक्ष्य विचार्य समुत्सर्पितमीकृतमासनमवस्थितिबन्धो येन स तथा । समीपतरमतिनिकटमुपसृत्य गत्वा । राज्ञ इति शेषः । नातिप्रकटं सुगोप्यं यथा स्यात्तथा बभाषेऽवोचत् । किं तदित्याह - देवेति । हे देव हे स्वामिन् तस्मिन्पूर्वोक्तस्वरूपे स्वप्नदर्शने किंचित्सत्यमस्ति तद्देवो भवानावेदयतु निवेदयतु । कुत इत्यत आह - अत्यन्तेति । हि यस्मात्कारणादियं कुलवर्धनात्यन्तमुत्फुल्ललोचनोत्याबल्येन विकसितनेत्रा दृश्यतेऽवलोक्यते । देवस्यापि स्वामिनोऽपीदमीक्षणयुगलं नेत्रयुग्मं महाकर्षकारणम् । प्रमोदस्येति शेषः । आवेदयति निवेदयति । किं कुर्वत् । विकसद्धिकासं प्राप्नुवत् । तदेव विशिनष्टि - प्रियेति । प्रियमिष्टं यद्वचनं वचस्तस्य श्रवणमाकर्णनं तस्य कुतूहलं कौतुकं तस्मादिव श्रवणमूलं कर्णमूलमुपसर्पद् गच्छत् । नीलं यत्कुवलयं कुवेलं तल्लक्षणं यत्कर्णपूरं कर्णाभरणं तस्य शोभा कान्तिमुपरचयदिव निष्पादयदिव । आनन्देति । आनन्दजलं प्रमोदबाष्पस्तेन परिप्लुता व्याप्ता तरला चपला तारका कनीनिका यस्य तत् । उपारूढं प्राप्तं महोत्सवस्य महामहस्य श्रवणकुतूहलं येन तत् । उत्सुकोत्सुकम् । अत्युत्सुकमित्यर्थः । मे मम मनश्चितं क्लाम्यति खेदं प्राप्नोति । अन्वयस्तु प्रागेवोक्तः । किमिदं प्रमोदनियामकम् । इति पूर्वोक्तप्रकारेण तस्मिञ्छुकनास उक्तवति कथितवति सति राजा नृपो विहस्य किंचित्स्मितं कृत्वाब्रवीदवोचत् । यदीति । यद्यनया यथा कथितं सत्यं तथा सर्वमवितथं यथार्ह स्वप्नदर्शनम् । धीरोदात्तत्वादाह - अहमिति । अहमित्यात्मनिर्देशः । न श्रद्दधे न विश्वास करोमि । तन्नियामकमाह - कुत इति । अस्माकमियत्येतावती भाग्यस्य भागधेयस्य संपत्संपत्तिः कुतः स्यात् । ममेति शेषः । हि निश्चितम् । ईदृशानां पूर्वोक्तानां प्रियमिष्टं यद्वचनं तस्य श्रवणान्याकर्णनानि तेषां वयमभाजनमपात्रम् । अथ चाहमवितथवादिनीमपि सत्यप्रलापिनीमपि कुलवर्धनाम्, विपरीतामिवासत्यवादिनीमिवाद्यास्मिन्दिने पश्याम्यवलोकयामि । कीदृशोऽहम् । एवंविधानां पूर्वव्यावर्णितस्वरूपाणां कल्याणानां निःश्रेयसानामसंभावितमयोग्यमात्मानं मन्यमानो ज्ञायमानः । तदिति हेत्वर्थे । हे शुकनास, उत्तिष्ठोत्थानं कुरु । स्वयमेवात्मनैव गत्वा । अन्तःपुर इति शेषः । किमत्र सत्यमिति देवीं विलासवतीं पृष्ट्वापृच्छ्य ज्ञास्यामि निर्णेष्यामीत्यभिधायेत्युक्त्वान्तःपुरमयासीत् । लुङि ‘या प्रापणे' एतस्यानिटधातो रूपम् । सकलनरेन्द्रलोकं समग्रराजसमूहं विसृज्य गृहाय गम्यतामित्यनुज्ञाप्य स्वागेभ्यः स्वकीयहस्तपा -
------------ टिप्प० - 1 समुत्सर्पितम् निकटे आकृष्टम् वेत्रासनं (राज्ञः कर्णे वार्ताकथनार्थम्) येनेति स्पष्टोऽर्थः।
-
-
-
-
-
-
-
-
-
-
-
पाठा०.१ प्रकाशम्. २ किमस्ति. ३ किंचित्स्वप्न. ४ अत्यन्तोत्फुल उत्फुल्ल. ५ प्लुततरल. ६ प्रहर्ष. ७ उत्सुकम्. ८ तदा. ९ विसर्य. १० उन्मुच्य च.
गर्भवार्ताऽवगमः
( पूर्वभागः ।
151