________________
यणम्, मूर्धावसिक्तैः प्रधाननरेन्द्रैः परिमितैः परिवृतम्, अनतिदूरावस्थितपरिजनम्, अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन धौतधवलाम्बरपरिधानेनानुल्बणवेषेण जलनिधिनेवागाधगाम्भीर्येण समुपारूढविश्रम्भनिर्भरास्तास्ताः कथाः शुकनासेन कुर्वाणं भूमिपालमुपसृत्य रहः कर्णमूले विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् ।
तेन तु तस्या वचनेनाश्रुतपूर्वेणासंभाव्येनामृतरसेनेव सिक्तसर्वाङ्गस्य सद्यः प्ररूढरोमञ्चनिकरकण्टकिततनोरानन्दरसेन विह्वलीक्रियमाणस्य स्मितविकसितकपोलस्थलस्य परिपूरितहृदयातिरिक्तहर्षमिव दशनांशुवितानच्छलेन विकिरतो राज्ञः शुकनासमुखे लोलतारकमानन्दजलबिन्दुक्लिन्नपक्ष्ममालं तत्क्षणं पपात चक्षुः । अनालोकितपूर्वं तु हर्षप्रकर्षमभिसमीक्ष्य भूपतेः कुलवर्धनां च स्मितविकसितमुखीमागतां दृष्टा तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारण
११
***********
I
तस्यान्तरालं मध्यप्रदेशस्तत्र स्थितमासीनं नारायणमिव जनार्दनमिव । मूर्धेति । मूर्धावसिक्तैः कृताभिषेकैः प्रधाननरेन्द्रैः प्रकृष्टराजभिः परिमितैः स्तोकैः परिवृतं सहितम् । अभ्यन्तरे तादृशजनानामेव प्रवेशसंभवात् । अनतीति । न अति नातिदविष्ठप्रदेशेऽवस्थितः परिजनो यस्य स तम् । 'अञ्स्वरे' इति नञोऽनादेशः ( ? ) । पुनः कीदृशम् । शुकनासेन मन्त्रिणा तास्ताः कथाः कुर्वाणं तास्ता अनिर्वचनीयाः कथाः किंवदन्तीः कुर्वाणं विदधानम् । अथ शुकनासं विशेषयन्नाह - अनन्तरमिति । राज्ञः सिंहासनादनन्तरं यथा स्यात्तथोत्तुङ्गमुञ्च यद्वेत्रासनमासनविशेषस्तत्रोपविष्टेन स्थितेन । धौतेति । धौतं क्षालितं यद्भवलाम्बरं तदेव परिधानमधोंशुकं यस्य स तथा तेन । 'परिधानं त्वधोंशुकम्' इति कोशः । अन्विति । अनुल्बणोऽनुत्कटो वेषो नेपथ्यं यस्य स तेन । जलनिधिनेव समुद्रेणेवागाधमलब्धमध्यं गाम्भीर्यं गम्भीरतागुणो यस्य स तेन । अथ कथा विशिनष्टि समुपेति । समुपारूढः सम्यक्प्रकारेणोपारूढः प्राप्तो यो विश्रम्भो विश्वासः निर्भरोऽतिशयो यासु ताः । अन्वयस्तु प्रागेवोक्तः ।
-
T
तेनेति । तु पुनरर्थे । तस्या महत्तरिकायास्तेन वचनेन पूर्वोक्तप्रतिपादितेन राज्ञो नृपस्य चक्षुर्नेत्रं शुकनासमुखे तत्क्षणं पपातापतदित्यन्वयः । वचनं विशेषयन्नाह - अश्रुतेति । अश्रुतपूर्वेणानाकर्णितपूर्वेण । संभावयितुं योग्यं संभाव्यम् । न संभाव्यमसंभाव्यं तेन । कीदृशस्य राज्ञः । सिक्तं सिञ्चितं सर्वाङ्गं समग्रं शरीरं यस्य स तथा तस्य । केनेव । अमृतरसेनेव पीयूषद्रवेणेव । मनोभीष्टत्वाद्दुःखनिवारकत्वाच्च वचनस्यामृतसाम्यम् । सद्यस्तत्कालं प्ररूढः प्रादुर्भूतो यो रोमाञ्चो रोमोद्गमस्तस्य निकरः समूहस्तेन कण्टकिता संजातकण्टका तनुः शरीरं यस्य स तथा तस्य । आनन्देति । आनन्दः प्रमोदः स एव रसस्तेन विह्वलीक्रियमाणस्य व्याकुलीक्रियमाणस्य । स्मितेति । अदृष्टरदं यद्धसितं तत्स्मितम् । तेन विकसितं विस्तीर्णतां प्राप्तं कपोलस्थलं यस्य स तथा तस्य । अत्रोत्प्रेक्षां प्रदर्शयन्नाह - परीति । परिपूरितं पूर्णीकृतं हृदयं तस्मादतिरिक्तंमुर्वरितं हर्षमिव दशनांशुवितानच्छलेन दन्तदीप्तिसमूहमिषेण विकिरतो बहिः क्षिपतः । चक्षुर्विशिनष्टिलोला चञ्चला तारका कनीनिका यस्मिंस्तत् । आनन्देति । आनन्दजलबिन्दुभिः प्रमोदजनितनेत्रजलपृषतैः क्लिन्नं स्विन्नं पक्ष्ममालं नेत्ररोमसमूहो यस्मिंस्तत्तथा । अनालोकितेति । भूपते राज्ञोऽनालोकितपूर्वमवीक्षितपूर्वं हर्षप्रकर्षं प्रमोदातिशयमभिसमीक्ष्य निरीक्ष्य । च पुनरर्थे । कुलवर्धनां स्मितेन विकसितं विकस्वरं मुखमाननं यस्या एतादृशीमागतां समागतां दृष्ट्वा विलोक्य । तस्येति ।
तस्य
-
पाठा० - १ नरेन्द्रैः परिवृतम् २ नात्युल्बण. ३ शुकनासेन सह. ४ संवाससंचारचतुरा विदित. ५ प्रकट. ६ रोगाङ्कुर. ७ मूलस्य ८ रिक्तम् ९ अनालोचितः. १० तु तम्. ११ अभिसंवीक्ष्य. १२ वर्तमानत्वात्; परिवर्तमानत्वात्.
150
कादम्बरी |
कथायाम्