________________
मनेकरसवाञ्छितपानभोजनां प्रावृषमिव श्यामायमानपयोधरमुखी केतकीमिव गर्भच्छविपाण्डुरामालोक्येङ्गितकुशलः परिजनो विज्ञातवान् ।
अथ तस्याः सर्वसेवकवर्गप्रधानभूता, सदा राजकुलसंवासचतुरा, सदा च राजसंनिकर्षप्रगल्भा, सर्वमङ्गलकुशला कुलवर्धना नाम महत्तरिका प्रशस्ते दिवसे प्रदोषोत्तरवेलायामभ्यन्तरास्थानमण्डपगतम्, गन्धतैलावसेकञ्चलितदीपिकासहसपरिवारम्, उडुनिकरमध्यवर्तिनमिव पौर्णमासीशशिनम्, उरगराजफणामणिसहसान्तरालस्थितमिव नारा -
*********** यथा भवति तथा । आ समन्ताज्जिहिातं जडीकृतं विकृतं वा निमेषोन्मेषाभ्यां लोचनं यस्याः सा । अनेन गर्भवतीस्वभावः सूचितः । सालसमालस्यसहितं यथा स्यात्तथा निशश्वास निश्वास मुक्तवती । गर्भानुभावानिश्वासग्रहणेऽपि तादृशसामर्थ्याभावादिति भावः । निपूर्वस्य 'श्वस प्राणधारणे' इत्यस्य लिटि रूपम् । तथेति । तथा पूर्वोक्ता एवावस्था दशा यस्यास्ता विलासवतीमालोक्य वीक्ष्येङ्गितेष्वन्तर्गतभावावेदकचे लोऽभिज्ञः । चेष्टितज्ञानवानित्यर्थः । परिजनः संनिहितस्त्रीसौविदल्लजनो विज्ञातवान । अन्तर्वत्नीरूपतया ता निश्चितवान् । तामेव विशेषयन्नाह - अहरिति । अहरहः प्रतिदिनम् । स्वयमित्यात्मनिर्देशः । अनेके बहवस्तिक्तादयो रसा अन्ने स्वादहेतवो यस्मिन्नेवंभूतं वाञ्छितमीप्सितं पानं द्राक्षापानकादि, भोजनमशनं च यस्याः सा ताम् । श्यामायमानं कृष्णतां प्राप्यमाण पयोधरयोः स्तनयोर्मुखं चूचुकं यस्याः सा ताम् । कामिव । प्रावृषमिव वर्षासमयमिव । सापि पयोधरैर्मेधैः श्याममुखी स्यात् । केतकीति । गर्भजनिता या छविदेहदीप्तिस्तया पाण्डुरां शुक्लाम् । कामिव । केतकीमिव । सापि गर्भो मध्यभागस्तस्य छविः कान्तिस्तया पाण्डुरा स्यात् ।
अथ तस्याः कुलवर्धना नाम स्त्री भूमिपालं राजानमुपसृत्य समीपे गत्वा प्रशस्ते शोभने दिवसे रह एकान्ते कर्णमूले विलासवतीगर्भवृत्तान्तं तस्या गर्भोदन्तं विदितं ज्ञातमकार्षीदकरोदित्यन्वयः । कुलवर्धनां विशेषयन्नाह - सर्वेति । सर्वेषु सेवकवर्गेषु प्रधानभूता श्रेष्ठा । नीचस्य तादृशप्रवेशाभावाच्छ्रेष्ठत्वेऽप्यवसरानभिज्ञस्य तदभावादित्यत आह - सदेति । सदा सर्वदा राजकुले नृपपरम्पराया संवासोऽवस्थानं तत्र चतुरा दक्षा । तद्वत्त्वेऽप्यदृष्टस्य तदभावादित्याह - सदेति । सदा सर्वकालं च राज्ञा यः सनिकर्षः संबन्धस्तत्र प्रगल्भा पण्डिता । सर्वेति । सर्वाणि यानि मङ्गलानि श्रेयांसि तत्र कुशला । तत्कृत्यकरणेऽभिज्ञेत्यर्थः । वयसातिशयिता महती महत्तरिका । स्वार्थे कः । प्रदोषेति । प्रदोषोत्तरवेलायाम् । प्रदोषे सर्वनिषेधात् । अथवा प्रदोषो न संध्याकालः । वृत्तान्तस्य गोप्यकथनत्वादिवसे तदभावादिति भावः । भूमिपालं विशेषयन्नाह - अभ्यन्तरेति । अभ्यन्तरे मध्ये य आस्थानमण्डप उपवेशनस्थलं तत्र गतं प्राप्तम् । बाह्ये तथाविधजनसंसर्गादिति भावः । गन्धेति । गन्धतैलं सुगन्धतैलं तस्यावसेकः संपातस्तेन ज्वलितं दीपिकानां सहसं यस्मिन्नेतादृशः परिवारो मण्डपस्थपरिच्छदो यस्य स तम् । दीपिकासहसमेव परिवारो यस्येति वा । तद्दीप्त्या लोकानां तिरोधानादिति भावः । तादृशतैलसंपर्काद्दीपिकाप्रभया नक्षत्रप्रभया अवशिष्टनियुक्तपरिकरस्योडुसाम्यं राज्ञश्चन्द्रसाम्यं च प्रतिपादयन्नाह - उडिवति । उडूनां नक्षत्राणां निकरः समूहस्तन्मध्यवर्तिनं तदन्तःपातिनं पौर्णमासीशशिनमिव राकाचन्द्रमिव । अन्यत्र दिने चन्द्रस्यासपूर्णत्वात्पौर्णमासीग्रहणम् । तादृशपरिकरत्वादेवोपमानान्तरमाह - उरगेति । उरगराजो नागाधिपतिस्तस्य सहसमुखत्वात्फणामणिसहसं - --------- --------------- टिप्प० - 1 शूद्रजातीया स्त्री, शूद्रः स्यात्पादजो दासो ग्रामकूटो महत्तरः । इति त्रिकाण्डशेषः (इति केचित्) । वस्तुतस्तु 'कुलवर्द्धना नाम महत्तरिका' इति महत्तरिकापदेन राजान्तःपुरप्रधानप्रबन्धकी सूच्यते, 'वडेरी' इति गूर्जरगिरायाम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ गर्भपाण्डुरान्. २ अन्तःपुरिकाजनः. ३ सर्वपरिजनप्रधान. ४ सर्वदा. ५ महान्तःपुरिका सा. ६ तैलाभिषेक. ७ परिवृतम्. ८ फण.
(गर्भवार्ताऽवगमः
पूर्वभागः ।