________________
येनेयं दिग्गजमदलेखेवाविच्छिन्नसंताना क्षितिभारधारणोचिता भविष्यति कुलसंततिः स्वामिनः' इत्येवमभिदधानमेव तं करेण गृहीत्वा नरेन्द्रः प्रविश्याभ्यन्तरमुभाभ्यामपि ताभ्यां स्वप्नाभ्यां विलासवतीमानन्दयांचकार ।
कतिपयदिवसापगमे च देवताप्रसादात्सरसीमिव प्रतिमाशशी विवेश गर्भो विलासवतीम् । येने नन्दनराजिरिव पारिजातेन मधुसूदनवक्षःस्थलीव कौस्तुभमणिना सुतरामराजत सा । दर्पणश्रीरिव गर्भच्छलेन संक्रान्तमवनिपालप्रतिबिम्बमुवाह । सा शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा निर्भरपरिपीतसागरसलिलभरमन्थरेव मेघमाला मन्द मन्दं संचचार । मुंहुरनुबंद्धजृम्भिकमाजिहिातलोचना सालसं निशश्वास । तथावस्थां तामहरहः स्वय -
***********
भविन गन्धगजं देवं भवन्तमाह्लादयिष्यति प्रमोदयिष्यति । पक्षेऽभिनवा कमला पुत्रसंपत् । अत एव देव्याः कमलिनीसाभ्य राज्ञो गन्धगजसाम्यं चेति भावः । येनेति । येन कारणेन इयं दिग्गजमदलेखेवाविच्छिन्नमत्रुटितं संतानं पुत्रपौत्रादिप्रवाहरूपं च यस्याः सैवभूता स्वामिनो राज्ञः कुलसंततिः क्षितिः पृथ्वी तस्या भारो वीवधस्तस्य धारणं वहनं तत्रोचिता भविष्यति । इत्येवं पूर्वोक्तरूपमभिदधानं ब्रुवाणमेव तं करेण गृहीत्वा हस्तेनादाय नरेन्द्रो नृपोऽभ्यन्तरं मध्यप्रदेशं प्रविश्य प्रवेशं कृत्वा ताभ्यामुभाभ्यामपि स्वप्नाभ्यां विलासवतीमानन्दयांचकार प्रमोदयांचकार ।
कतीति । कतिपये कियन्तो ये दिवसास्तेषामपगमेऽतिक्रमे सति देवताप्रसादाद्देवतानुग्रहाद्विलासवती गर्भो विवेश प्रविष्टो बभूव । अवार्थ उपमानं प्रदर्शयन्नाह - सरसामिति । सरसी कासारं प्रतिमाशशीव प्रतिबिम्बरूपश्चन्द्र इव । येनेति । येन गर्भेण सा सुतरामतिशयेनाराजताशोभत । केनेव केव । पारिजातेन कल्पद्रुमेण । 'मन्दारः पारिजातकः' इति कोशः । नन्दनेतीन्द्रस्य काननम् । 'नन्दन वनम्' इति कोशः । तस्य राजिः श्रेणिरिव । यथा कल्पपादपेन वनमतितरां शोभां प्राप्तं तथा गर्भेणेयमपीति भावः । उपमानान्तर प्रदर्शयन्नाह - कौस्तुभेति । कौस्तुभमणिना प्रसिद्धेन मधुसूदनस्य जनार्दनस्य वक्षःस्थलीव भुजान्तरस्थलीव । अतिविस्तृतत्वेन गौरत्वेन च स्थल्या उपमानं वक्षसः । दर्पणेति । दर्पण आदर्शस्तस्य श्रीः प्रकाशरूपा सेव गर्भो भ्रूणस्तस्य छलेनोपधिना संक्रान्तमन्तःप्रविष्टमवनिपालो भूनेता तस्य प्रतिबिम्ब प्रतिरूपमुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रुपम् । अयं भावः - यथा दर्पणः संक्रान्तं प्रतिबिम्ब वहति तथेयमपि राजप्रतिबिम्बमुवाह । अनेन राजराजसुतयोः सर्वथाऽभेदो दर्शितः । सेति । सा विलासवती मन्द मन्द संचचार चचालेत्यन्वयः । तामेव विशेषयन्नाह - प्रतीति । प्रतिदिन प्रत्यहं शनैः शनैः स्वल्पप्रयासेनेत्यर्थः । स्तोक स्तोकम् । उपचीयेति । उपचीयमानोऽवयवैः पुष्टतां प्राप्यमाणो गर्भो यस्याः सा । निर्भरति । निर्भरमतिशयं परिपीतमास्वादितं सागरस्य समुद्रस्य सलिलं जलं तस्य भरो भारस्तेन मन्थरालसा मेघमालेव कादम्बिनीव । समुद्राज्जलमादाय मेधो वर्षतीति लोकोक्तिः । अन्वयस्तु प्रागेवोक्तः । मुहुरिति । मुहुर्वारंवारमनुबद्धा कर्तुमारब्धा जृम्भा एव जृम्भिका । स्वार्थे कप्रत्ययः यत्र यस्यां क्रियायां वा -
- - - - टिप्प० - 1 शरत्कालकमलिनी गन्धगजमिव देवमालादयिष्यति' इति इवस्य गन्धगजोत्तरमन्चयो योग्यः । 2 दिग्गजस्य मदलेखा दानजलधारा इव । 3 न विच्छित्रः संतानः (वंशः पुत्रपौत्रादिरूपः, इति संततिपक्षे), प्रवाहः (इति मदलेखापक्षे) यस्यां एवंभूता सती स्वामिनः कुलसंततिः क्षितिभारधारणे उचिता भविष्यतीत्युभयपक्षे व्याख्या । 4 कालक्रमेणेत्यर्थः ।
-
-
-
पाटा० - १ विनोदयांचकार. २ येन च. ३ नन्दनवनराजिः. ४ देवी. ५ श्रीरिव च. ६ शनैः. ७ प्रतिदिवसमुपचीयमानगर्भा; प्रतिदिनमुग्धा द्विप्रमाणगर्भा. ८ घनमाला. ९ मुहुर्मुहु. १० विजृम्भिक. ११ लोचनम्. १२ स तथावस्थां च. १३ तामनभिनन्दितपान.
148
कादम्बरी।
कथायाम्