________________
स तं समुपजातहर्षः प्रत्युवाच-‘देव, संपन्नाः सुचिरीदस्माकं प्रजानां च मनोरथाः । कतिपयैरेवाहोभि॑िरसंदेहमनुभवति स्वामी सुतमुखकमलाबलोकनसुखम् । अद्य खलु मयापि निशि स्वप्ने धौतैसकलवाससा शान्तमूर्तिना दिव्याकृतिना द्विजेन विर्कचचन्द्रकलावदातदलशतमालोलकेसरसहसैंजटालमकरन्दबिन्दुसीकरवर्षि पुण्डरीकमुत्सङ्गे देव्या मनोरमायानिहितं दृष्टम् । आवेदयन्ति हि प्रत्यासन्नामानन्दमंग्रेपातीनि शुभानि निमित्तानि । किं चान्यदानन्दकारणमतो भविष्यति । अवितथफला हि प्रायो निशावसानसमयदृष्टा भवन्ति स्वप्नाः । सर्वथा नचिरेर्णं मान्धातारमिव धौरेयं सर्वराजर्षीणां भुवनानन्दहेतुमात्मजं जनयिष्यति देवी । शरत्कालकमलिनीवाभिनवकमलोद्गमेन गन्धगजमाह्लादयिष्यति देवम् ।
1
***********
स तथा तस्मिन्नेव क्षणे समये । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । शुकनासं समाहूयाह्वानं कृत्वा स्वप्नं निशादृष्टमकथयदुक्तवान् । 'कथ वाक्यप्रबन्धे' इत्यस्य लङि रूपम् । स इति । स शुकनासस्तं नृपं समुपजातः समुत्पन्नो हर्षः प्रमोदो यस्य स तथा प्रत्युवाच प्रत्यव - वीत् । हे देव हे स्वामिन् सुचिरादतिचिरकालेनास्माकं प्रजानां च मनोरथाश्चिन्तितानि संपन्ना निष्पन्नाः । कतीति । कतिपयैरेव स्तोकैरेवाहोभिर्दिवसैरसदेहं निःसंदेहं स्वामी भवान्सुतस्यात्मजस्य यन्मुखकमलावलोकनमाननपद्मवीक्षणं तस्माद्यत्सुखं सातमनुभवति । अनुभविष्यतीत्यर्थः । ‘वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमानः । अद्येति । खलु निश्चयेन । अद्यास्यां निशायामेव मयापि निशि रात्रौ स्वप्ने धौतानि क्षालितानि सकलानि समग्राणि वासांसि वस्त्राणि येन स तथा तेन । शान्ता निरुपद्रवा मूर्तिः शरीरं यस्य स तथा तेन । दिव्या मनोहारिण्याकृतिराकारो यस्य स तथा तेन । द्विजेन ब्राह्मणेन विकचं विकस्वरं चन्द्रकलावदवदातं शुभ्रं दलशतं पत्रशतं यस्मिंस्तत् । 'पर्णं पत्रं छदं दलम्' इति कोशः । आलोलं चञ्चलं यत्केसरसहस्रं किञ्जल्कसहस्रं तेन जटालं जटिलम् । 'प्राणिस्थादात-'इति मत्वर्थ आलच् । मकरन्दो मरन्दस्तस्य बिन्दवः पृषतास्त एव सीकरा वातास्तवारिकणास्तद्वर्षणकार्येतादृशं यत्पुण्डरीकं सिताम्भोजं देव्या मनोरमायाश्चित्तहारिण्या उत्सङ्गे क्रोडे निहितं स्थापितं दृष्टमवलोकितम् । मयेति पूर्वप्रतिपादितम् । अग्रेपातीनि पुरोजातानि शुभानि शिवानि निमित्तान्यक्षिस्फुरणादीनि प्रत्यासन्नं समीपवर्तिनमानन्दं प्रमोदमावेदयन्ति निवेदयन्ति । किं चेति युक्त्यन्तरे । अतः पूर्वोक्तादन्यदधिकमानन्दकारणं प्रमोदनिदानं भविष्यति । अत्रार्थे हेतुमाह - अवितथेति । प्रायो बाहुल्येन निशावसानसमदृष्ट रात्रिप्रान्तक्षणावलोकिताः स्वप्ना अवितथफलाः सत्यफला भवन्ति संपद्यन्ते । सर्वथेति । सर्वप्रकारेण नचिरेणेति स्वल्पकालेन मान्धातारमिव युवनाश्वजमिव सर्वराजर्षीणां समग्रराज्ञां मध्ये धौरेयं धुरीणम् । एतेनाधिपत्येऽपि सदाचारवत्त्वं सूचितम् । भुवनानन्दहेतुं जगत्प्रमोदकारणमात्मजं सुतं देवी जनयिष्यति प्रसविष्यति । शरदिति । शरत्कालकमलिनीव घनात्ययसमयनलिनीवाभिनवकमलोद्गमेन प्रत्यग्रनलिनप्रादु -
टिप्पo - 1 मनोरमेति तन्त्राम 'चित्तहारिणी' तद्विशेषणम् । 2 ' अतः अन्यत् आनन्दकारणं किं भविष्यति' इत्यन्वयः (पुत्र मुखदर्शनानन्दादन्यत् किं स्यादिति तदर्थः) ।
पाठा० - १ अस्माकं मनोरथाः २ असंशयमनुभविष्यति. ३ धौतधवल; धौतसकलधवल. ४ प्रशान्त ५ विकचम्. ६ जटिल; जटालम्. ७ मधु. ८ संदेह. ९ सितपुण्डरीक. १० अग्रेजातानि; आनन्दपातीनि; अग्रपातीनि ११ शुभनिमित्तानि १२ किं वान्यत्प्रियतरं परमानन्द; किं चान्यप्रियतरमधिकमानन्द; किं चान्यप्रियतरमधिकानन्द; किं चान्यप्रियतरमपरमधिकमानन्द. १३ विद्यते. १४ च १५ समये दृष्टा. १६ नचिरेणैव; अचिरेण. १७ राजर्षीणाम्. १८ शरत्.
पूर्वभागः ।
स्वप्नविषयालोचनम्
147