________________
द्विजजनमात्मजदर्शनोत्सुका वेदश्रुतीरकारयत् । अनवरतवाच्यमानाः पुण्यकथाः शुश्राव । गोरोचनालिखितभूर्जपत्रगर्भान्मन्त्रकरण्डकानुवाह । रक्षाप्रतिसरोपेतान्योषधीसूत्राणि बबन्ध । परिजनोऽपि चास्याः सततमुपश्रुत्यै निर्जगाम । तन्निमित्तानि च जग्राह । शिवाभ्यो मांसबलिपिण्डमनुदिनं निश्युत्ससर्ज । स्वप्नदर्शनाश्चर्याण्याचार्याणामाचचक्षे । चत्वरेषु शिवबलिमुपजहार ।
एवं च गच्छति काले कदाचिद्राजा क्षीणभूयिष्ठायां रजन्यामल्पावशेषपाण्डुतारके जरत्पारावतपक्षधूने नभसि स्वप्ने सितप्रासादशिखरस्थिताया विलासवत्याः करिण्या इव बिसवलयमानने सकलकलापूर्णमण्डल शशिन प्रविशन्तमद्राक्षीत् । प्रबुद्धश्चोत्थाय हर्षविकाशस्फीततरेण चक्षुषा धवलीकृतवासभवनस्तस्मिन्नेव क्षणे शुकनास समाहूय स्वप्नमकथयत् ।
***********
पुत्रस्तस्य दर्शनमवलोकनं तत्रोत्सुकोत्कण्ठिता वेदस्य श्रुतीः श्रवणमकारयद्ब्राहाणद्वारा कारयामास । अकारयदिति हक्रोरन्यतरस्याम्' इत्यण्यन्तस्य कर्ता द्विजजनः कर्मसंज्ञः । अनवरेति । अनवरतं निरन्तरं वाच्यमाना उच्यमानाः पुण्यकथाः पवित्रकथाः शुश्रावाश्रीषीत् । गोरोचनेति । गोरोचनालिखितं भूर्जपत्रं गर्भे मध्ये यस्यैवंभूतान्मन्त्रकरण्डकान्पिटकानुवाहावहत् । 'वह प्रापणे' इति धातोरभ्याससंप्रसारणे लिटि रूपम् । रक्षेति । रक्षायाः प्रतिसरः कङ्कणं तेनोपेतान्योषधीसूत्राणि बबन्ध बन्धनं कृतवती । अस्या विलासवत्याः परिजनोऽपि परिच्छदोऽप्युपश्रुत्यै रजकादिवाक्याथ विलोकयितुं निर्जगाम बहिर्ययौ । 'देवप्रश्न उपश्रुतिः' इति कोशः । तदिति । तन्निमित्तानि तदुक्तशकुनानि जग्राहाग्रहीत् । शिवेति । शिवाभ्यः श्रृगालीभ्योऽनुदिनं प्रतिदिनं मांसबलिपिण्डं निशि रात्रावुत्ससर्बोत्सृष्टवती । स्वप्नदर्शनाश्चर्याणि स्वप्नालोकनकुतूहलान्याचार्याणां गुरूणामाचचक्षे कथितवती । चत्वरेषु शिवबलिमुपजहाराहृतवती ।
एवं चेति । एवं पूर्वोक्तप्रकारेण गच्छति व्रजति कालेऽनेहसि कदाचित्कस्मिंश्चित्समये स्वप्ने राजा विलासवत्या आनने मुखे शशिन विशन्तं प्रविशन्तमद्राक्षीद्ददर्श । कस्याम् । रजन्या रात्रौ । किंविशिष्टायाम् । क्षीणं भूयिष्ठं यस्या सा तस्याम् । स्तोकरात्रावित्यर्थः । कस्मिन्सति । नभस्याकाशे सति । आकाशं विशेषयन्नाह - अल्पेति । अल्पाः स्वल्पा एव शेषा अविशिष्टाः पाण्डुतारकाः श्वेतनक्षत्राणि यस्मिन् । जरीयान्यः पारावतः कपोतस्तस्य पक्षो वाजस्तबद्भूने धूम्रवर्णे । विलासवती विशेषयन्नाह - सितेति । सितः शुभ्रो यः प्रासादस्तस्य शिखरमग्रं तत्र स्थिताया उपविष्टायाः । कस्याः किमिव । करिण्या हस्तिन्या आनने बिसवलयमिव मृणालवलयमिव । शशिन विशिनष्टि - सकलेति । सकलाः समग्रा याः कलास्ताभिः पूर्णं मण्डलं यस्य स तथा तम् । प्रबुद्धो विगतनिद्रः सन्नुत्थायोत्थानं कृत्वा हर्षाप्रमोदाद्यो विकाशो विमुद्रता तेन स्फीततरेणातिगरिष्ठेन विस्तारितेन चक्षुषा लोचनेन धवलीकृतं शुभ्रीकृतं वासभवनं निवासगृह येन
टिप्प० -1 वेदानां श्रुतीः पाठानिति यावत् । 2 देवप्रश्नाय, दैवं मनुष्यादिद्वारा कीदृशं वचनं श्रावयतीति जिज्ञासायै 'नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकर वचः । श्रूयते तद्विदुर्धीरा देवप्रश्नमुपश्रुतिम् ॥ हारावली । 3 'शिवाबलिम्' इत्यपि पाठः । अयमुपहारो दिवसे इति पूर्वेण न पौनरुक्त्यमाशङ्क्यम् ।
पाटा० - १ द्विजगणान्. २ अनवरतम्. ३ पुण्याः कथाः. ४ गण्डकान्; दण्डकान्. ५ परिसरो. ६ औषधि; औषधी. ७ समुत्ससर्ज. ८ शिवाबलिम्. ९ एवं गच्छति. १० अल्पशेष. ११ पारापत. १२ धूसरे. १३ सौधशिखर. १४ बिसपल्लवम्; किसलयम्. १५ परिपूर्ण. १६ विशन्तम्. १७ सबहुमानं शुकनासमाहूय तम्; समाहूय शुकनासाय तम्.
146
कादम्बरी।
कथायाम्