________________
कृतविचित्रदेवतोपयाचितकानि सिषेवे । दर्शितप्रत्ययानि संनिधानमातृकाभवनानि जगाम । प्रसिद्धेषु नागकुलहृदेषु ममज्ज । अश्वत्थप्रभृतीनुपपादितपूजान्महावनस्पतीन्कृतप्रदक्षिणा ववन्दे । दोलायमानवलयेन पाणियुगलेन स्नाता स्वयमखण्डसिक्थसंपादितं रजतपात्रंपरिगृहीतं वायसेम्भ्यो दध्योदनबलिमदात् । अपरिमितकुसुमधूपविलेपापूपपललपायसबंलिलाजकलितामहरहरम्बादेवीसपर्यामाततान । स्वयमुपहृतपिण्डपात्रान्भक्तिप्रवणेन मनसा सिद्धादेशानग्नक्षपणकान्पप्रच्छ । विप्रश्निकादेशवचनानि बहु मेने । निमित्तज्ञानुपचचार । शकुनज्ञानविदामादरमदर्शयत् । अनेकवृद्धपरम्परागैमागतानि रहस्यान्यङ्गीचकार । दर्शनागत -
***********
कृतेति । कृतानि विहितानि विचित्राणि देवतानां प्रतिमानामुपयाचितकानि भैक्ष्यचर्याणि येषु तानि । अथ च संनिधानानि समवर्तीनि यानि मातृकावनानि माहेश्वरीप्रभृतिदेवीनां गृहाणि जगाम गतवती । कीदृशानि । दर्शितः प्रकाशितः प्रत्ययो विश्वासो यस्तानि । प्रत्ययोऽनुष्ठानानुरूपं देवतावचनमिति वा । यद्वा मातृगृहाण्यभिमतमातृणां भवनानि । प्रसिद्धेति । प्रसिद्धेषु जगद्विख्यातेषु नागकुलानि तेषां हृदा द्रहास्तेषु ममज्ज मज्जनं चकार । अश्वत्थः पिप्पलः प्रभृतिरादौ येषां तान्महावनस्पतीन्महावृक्षानुपपादिता विहिता पूजार्चा येषां तान्कृता विहिता प्रदक्षिणा यया सैवंभूता ववन्दे वन्दनं कृतवती । तथा दोलायमानं कम्पमानं वलयं कङ्कणं यस्य तत्तथा तेन पाणियुगलेन हस्तयुग्मेन दध्योदनबलिं दधियुक्तो य ओदनस्तल्लक्षणो यो बलिस्तं वायसेम्यः काकेभ्यः स्वयमात्मना स्नाता कृतस्नाना सत्यदाद्दत्तवती । बलिं विशिनष्टि - अखण्डेति । अखण्डास्फुटितोदनरूपेण पक्वैः सिक्थैरन्नकणैः संपादितं निष्पादितं रजतस्य रूप्यस्य यत्पात्रं भाजन तस्मिन्परिगृहीतमात्तम् । अहरहरिति प्रतिदिनमम्बादेवी दुर्गा तस्याः सपर्या सेवामाततान विस्तारयामास । तामेव विशेषयन्नाह - अपरिमितेति । अपरिमितानि बहूनि कुसुमानि पुष्पाणि, धूपो गन्धपिशाचिका, विलेपो विलेपनम् अपूपः पिष्टकः, पिष्टतिलयोजितमन्नं पललम, पायस परमान्नम् । बलिलाजा बल्यर्थमक्षताः, एतैः कलितां व्याप्ताम् । स्वयमिति । स्वयमात्मना । भक्तिः पूर्वं व्याख्याता, तया प्रवणेन युक्तेन मनसा स्वान्तेनोपहृतान्युपढौकितानि पिण्डपात्राणि येम्भ्यस्तान्सिद्धादेशान्सिद्धसंज्ञितान्नग्ना वस्त्ररहिता ये क्षपणका दिगम्बरास्तान्पप्रच्छाप्राक्षीत् । विप्रश्निकेति । शुभाशुभप्रकाशिकाः स्त्रियो विप्रश्निकास्तासामादेशवचनान्याज्ञावचनानि बहु मेन आदरविशेषेणाङ्गीचकार । निमित्तेति । निमित्तं भौमायष्टविधं जानन्तीति निमित्तज्ञास्तानुपचचार तेषां समीपे ययौ । शकुनज्ञानविदां वसन्तराजादिशास्त्रज्ञानविदामादरं बहुमानमदर्शयद्दर्शितवती । अनेकेति । अनेके ये वृद्धाः स्थविरास्तेषां परम्परा परिपाटी तस्यां य आगमः प्रसिद्धिस्तदागतानि यानि रहस्यानि तत्त्वान्यङ्गीचकार स्वीचक्रे । परिपाट्यां य आगमो मन्त्रशास्त्रं तदागतानि रहस्यानि वा । दर्शनेति । दर्शनार्थमागतं प्राप्तमेवंभूतं द्विजजनं ब्राहाणलोकमात्मजः -
-
-
-
-
-
-
-
-
-
--
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'यदि मे पुत्रलाभः स्यात्तदा पुनरप्येवमेव समर्पयम्.' इत्यङ्गीकारपूर्वमुपहारदानमुपयाचितकम् । 'दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितक दिव्यं दोहदं तद्विदुर्बुधाः ' जटाधरः । 2 'संनिहितमातृकाभवनानि इत्यपि पाठः । संनिहितानि मातृणाम् (ब्राह्मीत्यादीनाम् भवनानीति तदर्थः । 3 अखण्डैः अक्षतैः सिक्थैः धान्यकणैः संपादितम् (दध्योदनम्) इति व्याख्यानमुचितम् । 4 अन्नभाजनानि । 5 सिद्धः सत्यः आदेशः आज्ञावाक्यं येषा तानित्यर्थः । 6 'विप्रश्निका त्वीक्षणिका दैवज्ञा' इत्यमरः ।
पाठा० - १ विविध. २ प्रत्यादेशानि. ३ संनिहितमातृभवनान्याजगाम; संनिधमातृभवनानि जगाम. ४ मणिवलयेन. ५ कृतस्नाना. ६ अखण्डित. ७ सिक्थकुसुमसंपादितम्. ८ पात्रे. ९ अपरिमितधूपविलेपं पललपायसबलिम्. १० सलाज. ११ ज्येष्ठादेवी. १२ उपाहित उपाहत. १३ समागतानि; गतानि. १४ चकार; अङ्गीकरोति स्म. १५ दर्शनागतम्.
विलासवत्या देवताराधनम्
पूर्वभागः ।
N 145