________________
१३
दिवसव्यापारमन्वतिष्ठत् । ततःप्रभृति सुतरां देवताराधनेषु ब्राह्मणपूजासु गुरुजनसपंर्यास्वादरवती बभूव । यद्यच्च किंचित्कुतािच्छुश्राव गर्भतृष्णया तत्तत्सर्वं चकार । न महान्तमपि क्लेशमजीगणत् । अनवरतदह्यमानगुग्गुलुबहुलधूमान्धकारितेषु चण्डिकागृहेषु धेवलाम्बरेण शुचिमूर्तिरुपोषिता हरितकुशोपच्छदेषु मुसलशयनेषु सुष्वाप । पुण्यसलिलपूणैर्विविधकुसुमफलोपेतैः क्षीरतरुपल्लवलाञ्छनैः सर्वरत्नगर्भः शातकुम्भकुम्भैगोकुलेषु वृद्धगोपवनिताकृतमङ्गलानां लक्षणसंपन्नानां गवामधः सस्नौ । प्रतिदिवसमुत्थायोत्थाय सर्वरत्नोपेतानि हैमानि तिलपत्राणि ब्राह्मणेभ्यो ददौ । महानरेन्द्रलिखितमण्डलमध्यवर्तिनी विविधबलिदानानन्दितदिग्देवतानि बहुलचतुर्दशीनिशासु चतुष्पथे स्नपनमङ्गलानि भेजे । सिद्धायतनानि -
***********
यस्मिन्नेवभूतं दिवसव्यापार दिनकृत्यमन्वतिष्ठदकरोत् । तत इति । ततः प्रभृति तद्दिनादारभ्य सुतरामत्यर्थं देवताराधनेषु देवतानां देवीनामाराधनानि प्रसन्नीकरणानि तेषु, ब्राह्मणास्त्रयीमुखास्तेषां पूजा अर्चास्तासु, गुरुजनानां पूज्यजनानां सपर्याःसेवास्तास्वादरवत्यतिबहुमानवती वभूव जज्ञे । यद्यच्चेति । यद्यदश्रुतपूर्वमकृतपूर्वं च किंचिद्वस्तु कुपश्चिदनिर्दिष्टनामकेभ्यो जनेभ्यः शुश्रावाकर्णितवती गर्भतृष्णया भ्रूमलोभेन तत्तत्सर्वं समग्रं चकार कृतवती । न महेति । महान्तं महीयांसमपि क्लेशं कष्टं नाजीगणन्मनसि न गणितवती । अनवरतेति । अनवरतं निरन्तरं दह्यमानो यो गुग्गुलुः पलङ्कद्रवस्तस्य बहुलो निबिडो यो धूमस्तेनान्धकारः संजातो येष्वेवंविधेषु चण्डिका चामुण्डा तस्या गृहेषु सद्मसु । धवलेति । धवलाम्बरेण शुभ्रवाससा शुचिः पवित्रा मूर्तिः शरीरं यस्याः सा तथोपोषिता कृतोपवासा । हरितेति । हरिता नीला ये कुशा दर्भास्त एवोपच्छद उत्तरपटो येष्वेवंभूतेषु मुसलान्ययोग्राणि तेषां शयनेषु तलिनेषु सुष्वाप शयनं चकार । पुण्येति । पुण्यानि पवित्राणि यानि सलिलानि जलानि तैः पूर्ण तैर्विविधानि विचित्राणि यानि कुसुमफलानि तैरुपेतैः सहितैः । क्षीरतरवो बटादय- . स्तेषां पल्लवाः किसलयानि । क्वचित् क्षीरपल्लव-' इति पाठः । तत्र क्षीरपल्लवः कोमलपल्लव इति व्याख्येयम् । त एव लाञ्छनं चिह्न येषां तैः । सर्वाणि समग्राणि रत्नानि गर्भे मध्यभागे येषां तैः शातकुम्भं सुवर्णं तस्य कुम्भैर्निपै (?) गोकुलेषु व्रजेषु । वृद्धेति । वृद्धगोपस्य मुख्यबल्लवस्य या वनिता स्त्री तया कृतं विहितं मङ्गलं तिलकादि याभिस्तासाम् । लक्षणैर्मषीतिलकादिभिः संपन्नानां सहितानां गवां धेनूनामधोऽधोभागे सस्नौ स्नानं कृतवती । प्रतीति । प्रतिदिवसमहर्निशमुत्थायोत्थायोत्थानं कृत्वोत्थानं कृत्वेत्यर्थः । सर्वरत्नैः समग्रमणिभिरुपेतानि खचितानि हैमानि स्वर्णनिष्पन्नानि तिलपत्राणि तिलपर्णाकृतिरूपाणि ब्राहाणेभ्यो विप्रेभ्यो ददौ दत्तवती । अत्र संप्रदाने चतुर्थी । महेति । महानरेन्द्रेण स्वकीयभर्ना लिखितमालिखितं यन्मण्डलं लोकप्रसिद्धं तन्मध्यवर्तिनी तदन्तःस्थायिनी । विविधेति । विविधमनेकप्रकारं यदलिदानं तेनानन्दिताः प्रमोदं प्राप्ता दिग्देवता येषु तानि । बहुलेति । बहुलस्य कृष्णपक्षस्य याश्चतुर्दश्यस्तासां निशासु रात्रिषु चतुष्पथे चत्वरे स्नपनमङ्गलानि स्नानभद्राणि भेजेऽभजत् । सिद्धायतनानीति । सिद्धा योगिनस्तेषामायतनानि चैत्यानि सिषेवे सेवितवती । कीदृशानि । - - - - - - - - - - - - - - - - - - - - टिप्प० -1 मुसलशयनेषु श्रेणीभावेन पातितमुसलशय्यासु, इत्याशयः । पुत्रार्थिनीभिरेवंविधानि तन्त्रमन्त्रानुष्ठानादीनि क्रियन्ते । 2 यासामित्युचितमाभाति । 3 तिलपात्राणीत्यपि पाठः । सर्वरत्नोपेत (पूर्ण) त्वं पात्रेष्वेव घटते, रत्नखचितत्वार्थे तु नास्य स्वारस्यम् । 4 महानरेन्द्रोऽत्रप्रधानभूतो भूतोपचारकर्ता मान्त्रिकः ।
-
-
-
-
-
-
-
-
-
-
पाठा० - १ वासरव्यापारमकरोत्. २ परिचर्यासु च. ३ अधिकमादरवती. ४ शुश्राव व्रतम्. ५ अर्भक. ६ गुग्गुलु. ७ बहल. ८ धूपान्धकारितेषु. ९ धवलाम्बरा; धवलाम्बर. १० हरित्कुश. ११ उपच्छन्नेषु. १२ भूतल. १३ पूरितैः; पूर्तेः. १४ महङ्गला. १५ तिलपात्राणि. १६ बहुलपक्षचतुर्दशी. १७ चतुष्पथेषु. १८ स्लान.
(144
कादम्बरी।
कथायाम्