________________
कदा नरेन्द्रसहसप्रसारितभुजयुगलाभिनन्यमानागमनो भूषणमणिमयूखाकुलीक्रियमाणलोलदृष्टिरास्थानस्थितस्य में पुरः सर्पिष्यति सभान्तरेषु । इत्येतानि मनोरथशतानि चिन्तयतोऽन्तःसंतप्यमानस्य प्रयान्ति रजन्यः । मामपि दहत्येवायमहर्निशमनल इवानपत्यतासमुद्भवः शोकः । शून्यमिव मे प्रतिभाति जगत् । अफलमि पश्यामि राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि । तन्मुच्यतामयं देवि, शोकानुबन्धः । आधीयतां धैर्य धर्मे च धीः । धर्मपरायणानां हि समीपसंचारिण्यः कल्याणसंपदो भवन्ति इत्येवमभिधाय सलिलमादाय स्वयं करतलेनाभिनवपल्लवेनेव विकचकमलोपमानमाननमस्याः साश्रुलेख ममार्ज । पुनःपुनश्च प्रियशतमधुराभिः शोकोपनोदनिपुणाभिर्धर्मोपदेशगर्भाभिर्वाग्भिरावास्य सुचिरं स्थित्वा नरेन्द्रो निर्जगाम ।।
निर्गते च तस्मिन्मन्दीभूतशोको विलासवती यथाक्रियमाणाभरणपॅरिग्रहादिकमुचितं -
***********
बिम्बानि प्रतिरूपाण्यनुसरिष्यति तद्गहणार्थमनुगमिष्यति । कदेति । कदेति पूर्ववत् । नरेन्द्राणां यत्सहसं तेन प्रसारितं विस्तारित यद्भुजयुगलम् । जात्येकवचनम् । तेनाभिनन्द्यमानमपेक्ष्यमाणमागमनं यस्य स तथा । भूषणेति । भूषणानां ये मणयो रत्नानि तेषा मयूखाः किरणास्तैराकुलीक्रियमाणा लोला दृष्टिर्यस्य स तथा । आस्थानस्थितस्य सभोपविष्टस्य मे मम पुरोऽग्रे सभान्तरेषु परिषन्मध्यप्रदेशेषु सर्पिष्यति पुनः पर्यटनं करिष्यति । संतापनिवेदकानि चिन्तावाक्यानि त्रयोदशोपसंहरन्नाह - इत्येतानीति । एतानि पूर्वोक्तानि मनोरथशतानि मनोविकल्पितशतानि चिन्तयतो ध्यायतो राज्ञोऽन्तर्मध्ये संतप्यमानस्य प्रज्वल्यमानस्य रजन्यो रात्रयः प्रयान्ति गच्छन्ति । ममापीति । अनपत्यताऽसंतानता ततः समुद्भवः समुत्पन्नः शोकः शुगनल इव वह्निरिवाहर्निशं प्रतिदिनं मामपि दहत्येव ज्वालयत्येव । शून्यति । मे मम शून्यमिवोदसितमिव जगद्विधं प्रतिभाति प्रतिभासते । अफलेति । राज्यमाधिपत्यमफलमिव निरर्थकमिव पश्याम्यवलोकयामि । अप्रतीति । न विद्यते प्रतिविधेयमस्मान्प्रति यस्य विधातुस्तस्मिन्नप्रतिविधेये प्रतीकारानर्हे वा विधातरि किं करोमि किमनुतिष्ठामि । तदिति । तत् तस्मात्पूर्वोक्ताद्धोतोः । हे देवि, अयं शोकानुबन्धः शोकपरम्परा मुच्यतां त्यज्यताम् । धैर्ये धीरतायां धर्म च धीर्बुद्धिराधीयता स्थाप्यताम् । अत्रार्थे हेतुमाह - धर्मेति । हि निश्चितम् । धर्मपरायणानां सुकृततत्पराणां कल्याणसंपदः श्रेयोविभूतयः सदा सर्वकाल समीपसंचारिण्य पार्श्ववर्तिन्यो भवन्ति संजायन्ते । इत्येवं पूर्वोक्तप्रकारेणाभिधायोक्त्वा । सलिलमिति । सलिलं पानीयमादाय गृहीत्वा स्वयमात्मनः करतलेन पाणितलेनाभिनवपल्लवेनेव प्रत्यग्रकिसलयेनेव विकचं विकस्वरं यत्कमलं नलिनं तदेवोपमान यस्यैवंभूतमस्या विलासवत्यां साश्रुलेखमश्रुराज्या सहवर्तमानमाननं मुखं ममार्ज । शुद्धं चकारेत्यर्थः । 'मृजूष शुद्धौ इति धातोलिटि रूपम् । पुनरिति । पुनः पुनरिवारम् । प्रियेति । प्रियमिष्टं तस्य शतं तेन मधुराभिर्मिष्टाभिः शोकस्य शुचो योऽपनोदो दूरीकरण तत्र निपुणाभिः पण्डिताभिर्धर्मस्य पुण्यस्य य उपदेशः प्रतिपादनं स एव गर्भेऽभ्यन्तरे यासां ताभिरेवंभूताभिर्वाग्भिवचोभिरश्वास्याश्वासना कृत्वा सुचिरं चिरकालं यावस्थित्वा नरेन्द्रो नृपो निर्जगाम गृहाबहिर्ययौ ।
निर्गत बहिर्गते च तस्मिन्मन्दीभूतशोका मन्दीभूतः क्षीणतां प्राप्तः शोको यस्याः सर्वभूता विलासवत्युचितं योग्यम् । यथेति । यथा पूवोक्तप्रकारेण क्रियमाणो विधीयमानो य आभरणपरिग्रहो विभूषणस्वीकारः स एवादौ -
पाठा० - १ मयूखलेखाकुली. २ मम. ३ पर्यटिष्यति. ४ इत्येतानि चान्यानि; इत्येतानि च. ५ यान्ति. ६ संतापः. ७ शून्यमेव. ८ इवाखिलं पश्यामि. ९ जीवित राज्य च. १० मुच्यता देवि. ११ इत्थम् एवम्. १२ कमलतुल्यम्. १३ अपनोदन. १४ सुचिर नरेन्द्रः. १५ शोकावेगा. १६ यथाक्रियमाणम्. १७ परिग्रहादिक समुचितम्, परिग्रहादिकसमुचितम्.
विलासवत्या देवताराधनम्
पूर्वभागः ।
143