________________
मम हृदयेन दृष्टया च सह परिभ्रमन्भवनाङ्गणम् । कदा केसरिकिशोरक इव संजातजानुचङ्क्रमणावस्थः संचरिष्यतीतस्ततः स्फटिकमणिभित्त्यन्तरितान्भवनमृगशावकाजिघृक्षुः । कान्तःपुरनूपुरनिनादसङ्गतागृहकलहंसकाननुसर
कक्षान्तरप्रधावितः कनकमेखलाघष्टिकारवानुसारिणीमायासयिष्यति धात्रीम् । कदा कृष्णागुरुपङ्कलिखितमदलेखालंकृतगण्डस्थलकः मुंखडिण्डिमध्वनिजनितप्रीतिरूवंकरविप्रकीर्णचन्दनचूर्णधूलिधूसरः कुञ्चिताङ्गुलिशिखराङ्कुशाकर्षणविधूतशिराः करिष्यति मत्तगजराजलीलाक्रीडाः । कदा मातुश्चरणयुगेलरागोपयुक्तशेषेण पिण्डालक्तकरसेन वृद्धकञ्चुकिनां विडम्बयिष्यति मुखानि । कदा कुतूहलचञ्चललोचनो मणिकुट्टिमेष्वधोदत्तदृष्टिरनुसरिष्यति स्खलद्गतिरात्मनः प्रतिबिम्बानि ।
***********
च लोचनेन सह सार्धं परिभ्रमन्नितस्तः पर्यटन्भवनाङ्गणं गृहाङ्गणं मण्डयिष्यति भूषयिष्यति । एतेन राज्ञश्चित्तनेत्रयोस्तृतीय एवायं सखेति ध्वनितम् । कदेति । कदेति पूर्ववत् । इतस्ततः संचरिष्यति संचरणं करिष्यति । क इव । केसरी सिंहस्तस्य किशोरकः शिशुस्तद्वदिव । संजातेति । संजाता समुत्पन्ना जातु कदाचित् चक्रमणावस्था गमनयोग्यता यस्य स तथा । स्फटिकेति । स्फटिकमणीनां या भित्तयः कुड्यानि ताभिरन्तरितान्व्यवहितान्भवनमृगाणां गृहकुरङ्गाणां शावकान्पोतान्प्रतिबिम्बादिना दृश्यमानमूर्तीजिघृक्षुर्गृहीतुमिच्छुः । कदेति । कदा कस्मिन्काले धात्रीमुपमातरमायासयिष्यति प्रयास जनयिष्यति । कीदृक् । कक्षान्तरे गृहकोणान्तरे प्रधावित उच्चलितः । दर्शनविषयत्वाभावादाह - कनकेति । कनकस्य सुवर्णस्य या मेखला रसना तस्या घण्टिकाः किङ्किण्यस्तासां यो रवः शब्दस्तमनुसर्तुं शीळं यस्याः सा ताम् । किं कुर्वन् । अनुसरन्ननुलक्ष्यीकृत्य गच्छन् । कान् । गृहकलहंसकान्भवनसितच्छदान् । कीदृशान् । अन्तःपुरेऽवरोधे यो नूपुरस्य पादकटकस्य निनादः शब्दस्तेन संगतान्मिलितान् । कदेति । कदेति पूर्ववत् । मत्तो यो गजराजो हस्ती तस्य लीला विलासो यस्यामेवंविधाः क्रीडाः खेलनं करिष्यति रचयिष्यति । उभयोः साम्यप्रतिपादनार्थमाह - कृष्णेति । कृष्णागुरुः काकतुण्डस्तस्य पङ्को द्रवस्तेन लिखिता लिपीकृता या मदलेखावल्लेखा तयालंकृतं विभूषितं गण्डस्थलं यस्य स तथा । 'शेषाद्विभाषा' इति कप्प्रत्ययः । पक्षे कृष्णागुरुपङ्कचन्मदलेखा दानपद्धतिः । मुखेति । धात्र्यादीनां लालनार्थं मुखेन यो डिण्डिमध्वनिः, अथ चानुरक्तहस्तिपकानां मुखेन समाधानार्थ यो डिण्डिमध्वनिस्तेन जनितोत्पादिता प्रीतिर्यस्य स तथा । ऊचेति । उर्ध्वकरणोध्वींकृतहस्तेन, तादृशशुण्डया च विप्रकीर्णा विक्षिप्ता चन्दनचूर्णस्य मलयजक्षोदस्य धूलिस्तया, च चन्दनचूर्णवद्धूलिः पांसुः तया धूसरो मलिनः । कुञ्चितेति । कुञ्चिता वक्रीकृता याङ्गुली तस्याः शिखरमग्रम् । 'शिखर पुलकाग्रयोः' इत्यनेकार्थः । तदेवाङ्कुशः सृणिः । गजपक्षे कुञ्चिताङ्गुलिशिखरवदङ्कुशस्तेनाकर्षण पृष्ट पुरतो वा चालनं तेन विधूतं कम्पितं शिरो मस्तकं येन स तथा । कदेति । मातुरिति । माता जननी तस्याश्चरणयुगल पादद्वन्द्व तस्य रागो रञ्जनं तत्रोपयुक्तः सन् यः शेष उर्वरितस्तेन, पिण्डालक्तकः पिण्डीकृतो यो लाक्षाद्रवस्तस्य यो रसः तेन वृद्धकञ्चुकिना स्थविरसौविदल्लानां मुखानि वदनानि विडम्बयिष्यति । तद्रसाश्लेषेण विरूपाणि करिष्यतीति भावः । कदेति । कदेति पूर्ववत् । कुतूहलेन कौतुकेन चञ्चले चपले लोचने नेत्रे यस्य स तथा । मणिकुट्टिमेषु रत्नबद्धभूमिषु संक्रान्तमात्मीयमुखारविन्दं द्रष्टुमधोदत्ता दृष्टियेन स तथा तदलाभखेदात्स्खलन्ती गतिर्यस्यैवंभूत आत्मनः स्वकीयस्य प्रति -
पाठा० - १ किशोर. २ चक्रमणारम्भः. ३ मणिमय. ४ आजिघृक्षुः. ५ अन्तःपुरिकानपुर. ६ गृहहंसकान्. ७ पक्षान्तर. ८ प्रधाविताम्. ९ गण्डस्थलः कोमल. १० मुखरबडिण्डिम. ११ जात. १२ मदमत्तगजराजलीलाम; मत्तगजक्रीडाम्; मत्तगजरालीलान्; मत्तगजराजलीलः क्रीडाम्; मत्तगजराजलीला. १३ चरणरागोपयुक्त. १४ कञ्चुकिनाम्. १५ लोक. १६ प्रतिविम्बितानि.
(142)
कादम्बरी।
कथायाम्