________________
मासनपूर्णचन्द्रोदयामिव पौर्णमासीनिशां देवी द्रेक्ष्यामि ? कदा मे तनयजन्ममहोत्सवानन्दनिर्भरो हरिष्यति पूर्णपात्रं परिजनः ? कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा द्यौरिवोदितरैविमण्डला सबालातपा मामानन्दयिष्यति देवी । कदा सर्वोषधिपिञ्जरजटिलकेशो निहितरक्षाघृतबिन्दुनि तालुनि विन्यस्तगौरसर्षपोन्मिश्रभूतिलेशोगोरोचनाचित्रकण्ठसूत्रग्रन्थिरुत्तानशयो दशनशून्यस्मिताननः पुत्रको जनयिष्यति मे हृदयाह्लादम् । कदा गोरोचनाकपिलद्युतिरन्तः पुरिकाकरतलपरम्परासंचार्यमाणमूर्तिरशेषजनवन्दितो मङ्गलप्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षितिरेणुधूसरो मण्डयिष्यति -
***********
सा ताम् । कामिव । आसन्नेति । आसन्नः समीपवर्ती पूर्णचन्द्रस्योदयो यस्यामेवंभूतां पौर्णमासीनिशामिव राकारात्रिमिव । कदेति । मे मम तनयजन्ममहोत्सवः पुत्रजननलक्षणस्तस्मिन्य आनन्दः प्रमोदस्तेन निर्भरः संभृतः परिजनः पूर्णपात्रं पूर्णापात्रं पूर्णानक हरिष्यति ग्रहीष्यति । 'उत्सवेषु सुहृद्भिर्यद्वलादाकृष्य गृह्यते । वस्त्रं माल्यं च तत्पूर्णपात्रं पूर्णानक च' इति कोशः । कदेति । देवी विलासवती कदा मामानन्दयिष्यति प्रमोदं जनयिष्यति । तामेव विशेषयन्नाह - हारिद्रेति । हरिद्रया रजन्या रक्तं हारिद्रं यद्वसनं तस्य धारिणी धरणशीला । सुतेति । सुतेन पुत्रेण सनाथः सहित उत्सङ्गः क्रोडो यस्याः सा । केव । द्यौरिवाकाशमिव । तां विशिनष्टि - उदितेति । उदितमुदयं प्राप्तं रविमण्डलं सूर्यबिम्बं यस्यां सा । सह बालातपेन वर्तते या सा । हारिद्रवसनस्य कालेन पीतरक्तत्वाद्वालातपसाम्यम् । सूर्यबिम्बपुत्रयोश्च साम्यम् । कदेति । पुत्रकः सुतो मम हृदयं चेतस्तस्याह्लादं प्रमोदं जनयिष्यत्युत्पादयिष्यति । सुतं विशेषयनाह - सर्वेति । सर्वाश्च तो औषधयस्ताभिः पिञ्जराः पीतरक्ता जटिला अन्योन्यं मिलिताः केशाः कचा यस्य स तथा । निहितः स्थापितो रक्षया युतो घृतबिन्दुर्यस्मिन्नेवभूते तालुनि काकुदे विन्यस्तः स्थापितो गौरसर्षपणोन्मिश्रः संयुतो भूतिलेशो भस्मकणिका यस्य स तथा । अयं बालरक्षाविधिः । गोरोचनेति । गोरोचना तया चित्रो विचित्रः कष्ठसूत्रग्रन्थिर्यस्य स तथा । अयमपि रक्षाविधिः । उत्तानेति । उत्तानमूर्ध्वमुखं शेते यः स तथा । दशनेति । दशनैर्दन्तैः शून्यं रहितमेतादृशं स्मितं विकसितमाननं मुखं यस्य स तथा । कदेति । कदा कस्मिन्काले मे मम चक्षुषोर्नेत्रयोर्मङ्गलप्रदीप इव मङ्गलदीप इव शोक एवान्धकारं तिमिरमुन्मूलयिष्यति मूलतो दूरीकरिष्यति । कीदृक् । गोरोचनावत्कपिला पिङ्गला द्युतिः कान्तिर्यस्य स तथा । पुनस्तमेव विशिनष्टि - अन्त इति । अन्तःपुरे भवा अन्तःपुरिकाः पटान्तरिताः स्त्रियस्तासा करतलानि हस्ततलानि तेषां परम्परा श्रेणिस्तया संचार्यमाणा हस्ताद्धस्तं प्रति स्थाप्यमाना मूर्तिः शरीरं यस्य स तथा । अशेषेति । अशेषैः समग्रैर्जनैर्वन्दितो राजपुत्रत्वान्नमस्कृतः । कदाचेति । कदेति पूर्ववत् । वित्याः पृथिव्या यो रेणुधूलिस्तेन धूसरो मलिनो मम हृदयेन चितेन दृष्टया -
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'वर्धापक यदानन्दादलंकारादिकं पुनः । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ इति हारावलीपाठः । 2 'कुष्ठमासी हरिद्राभिर्वचाशैलेयचन्दनैः । सुराचन्दनकर्पूरैर्मुस्तः सर्वौषधिः स्मृतः ॥ इति राजनिघंटः । 3 अन्तःपुरनिवासिन्य इत्यर्थः । 4 एकस्या हस्तादपरस्या हस्ते नीयमानेत्याशयः ।
पाठा० - १ आसत्रचन्द्रोदयाम्. २ प्रद्रक्ष्यामि. ३ उद्यत. ४ पिञ्जरित. ५ घृतमधुबिन्दुतालु. ६ लेखः. ७ चित्रित. ८ जनाभिनन्दिता. ९ क्षितितलरेणु.
राज्ञा विलासवतीसान्त्वनम्
। पूर्वभागः ।