________________
जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि । यावन्मानुष्यके शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपादय देवतासु पूजाम् । ऋषिजनसपंर्यासु दर्शितादरा भव । पर हि दैवतमृषयो यत्नेनाराधिता यथासमीहितफलानां दुर्लभानामपि वराणां दातारो भवन्ति । श्रूयन्ते हि पुरा चण्डकोशिकंप्रभावान्मंगधेषु बृहद्रथो नाम राजा जनार्दनस्य जेतारमतुलभुजबलमप्रतिरथं जरासन्धं नाम तनयं लेभे । दशरथश्च राजा परिणतया विभाण्डकमहामुनिसुतस्यर्थ्यश्रृङ्गस्य प्रसादानारायणभुजानिवाप्रतिहतानुदधीनिवाक्षोभ्यानवाप चतुरः पुत्रान् । अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृतस्वादसुखभाजो बभूवुः । अमोघफला हि महामुनिसेवा भवन्ति । अहमपि खेलु देवि, कदा समुपारूढगर्भभरालसीमापाण्डुमुखी -
***********
पुरुषस्य मनुष्यस्य । अत इह जन्मन्यस्मिन्भवे दैवमदृष्टमन्यथाकर्तुमनिष्टफलदं इष्टफलदं कर्तुमेव न शक्यमभियुक्तेनापि पण्डितेनापि । किं पुनर्मन्दमेधसा । अत्र दैवं द्विविधम् । प्रतिबन्धकमप्रतिबन्धकं च । प्रतिबन्धकं तदपि द्विविधम् । स्वतःप्रतिषेधरूपं वन्ध्यस्त्रीपुंयोगादौ । द्वितीयं तु सहकारिविघटनद्वारा राज्यप्राप्त्यादौ कार्योत्पत्तिप्रतिबन्धकम् । अप्रतिबन्धकं तदपि द्विविधम् । स्नानदानादिसामग्रीसमवधानेन प्रतिबन्धकं न भवति । तदभावे तु प्रतिबन्धकम् । अतोऽदृष्टस्याप्रत्यक्षत्वेन विविच्य ज्ञातुमशक्यत्वात् । द्वितीयसंभावनां चेतसिकृत्याह - यावदिति । मानुष्यके मनुष्यजन्मनि यावदुपपादयितुं कर्तुं शक्यं स्वकृतिसाध्यं तावत्सर्वमुपपाद्यतां क्रियताम् । एतदेव दर्शयति - अधिकेति । हे देवि, हिताहितप्राप्तिपरिहारोपदेष्टारो गुरवस्तेषु पूर्वावस्थातोऽधिकामाधिक्येन भक्तिमाराध्यत्वेन ज्ञानं कुरु विधेहि । देवतासु हरिहरादिषु द्विगुणां द्विगुणितां पूजाम_मुपपादय निष्पादय । ऋषिजनसपर्यासु मुनिजनसेवासु दर्शितः प्रकटित आदरः सत्कारो यया सैवंभूता भव । हि निश्चितम् । ऋषयो मुनयः परमुत्कृष्टदैवतं भाग्यम् । एतदेव प्रपञ्चयन्नाह - यत्नेति । यत्नेति प्रयत्नेन । मनःशुध्येत्यर्थः । आराधिताः प्रीणिता मुनयो यथासमीहितानि यथाभिलषितानि फलानि येष्वेवंभूतानां दुर्लभानामपि वराणां मार्गितानां दातारो दायका भवन्ति । अत्रार्थेऽन्यसंमतिं प्रदर्शयन्नाह - श्रूयन्ते हीति । हि निश्चितम् । श्रूयन्त आकर्ण्यन्ते । ग्रन्थान्तरेभ्य इति शेषः । मगधेषु कीकटेषु पुरा पूर्वं चण्डकौशिको मुनिस्तस्य प्रभावान्माहात्म्यादृहद्रथो राजा । नामेति कोमलामन्त्रणे । जनार्दनस्य कृष्णस्य जेतारं जयनशीलमतुलं निरुपम भुजबलं बाहुबलं यस्य स तमप्रतिरथं महारथं जरासन्धं नाम जरासन्धाभिधं तनयं पुत्रं लेभे प्राप्तवान् । दशरथेति । चकारः पूर्वोक्तसमुच्चयार्थः । दशरथो राजा परिणतं पक्वं वयो यस्यैवंभूतः सन्विभाण्डकनामा यो महामुनिस्तस्य सुतस्यर्थ्यश्रृङ्गस्य प्रसादान्माहात्म्यानारायणभुजानिव कृष्णबाहूनिवाप्रतिहतानपराजितानुदधीनिव समुद्रानिवाक्षोभ्याननाकलनीयांश्चतुरः पुत्रानवाप प्राप्तवान् । अन्ये चेति । पूर्वोक्तव्यतिरिक्ता राजर्षयस्तपोधनास्तपस्विन आराध्योपास्य पुत्रस्य सुतस्य यद्दर्शनमवलोकन तदेवामृतं तस्यास्वाद उपभोगस्तज्जनितं यत्सुखं सातं तद्भाजो बभूवुर्जज्ञिरे । अत्रार्थे हेतुं प्रदर्शयन्नाह - अमोघेति । हि निश्चितम् ।
नश्चितं फलं यासांता महामनिसेवाः महातपस्विसपर्या भवन्ति । हे देवि, खल निश्चयेन । अहमपि कदा कस्मिन्काले देवी त्वां द्रक्ष्यामि विलोकयिष्यामि । तामेव विशिनष्टि - समुपेति । समुपारूढः प्राप्तो यो गर्भो भ्रूणस्तस्य भरो भारस्तेनालसा मन्थरामा ईषत्पाण्डु शुक्लं मुखमाननं यस्याः -
टिप्प० -1 अभिलाषाणामित्यर्थः । 2 समग्रस्य वक्ष्यमाणवाक्यार्थस्य कर्मत्वादेकत्वमेव समुचितमिति 'श्रूयते इति पाठः संभाव्यते ।
पाठा० - १ यावत्तु. २ गुरुभक्तिम्. ३ देवतापूजाम्. ४ परिचर्यासु. ५ अतिदुर्लभानाम्. ६ श्रूयते. ७ कौशिका. ८ प्रसादात्; प्रसादप्रभावात्. ९ मगधेशो. १० जनार्दनप्रतिमम्. ११ अतुलबलपराक्रमम्; अमरतुल्यभुजबलम्. १२ यया अपि. १३ आस्वाद. १४ हि महामुनिजनसेवा; हि महामुनिसेवा भवति. १५ खलु कदा. १६ आपाण्डुर.
(140
कादम्बरी।
कथायाम्