________________
मपि परिजनप्रयत्नाट्प्रव॑र्त्यमाना सशोकेवासीत् । देवह्रदयपीडापरिजिहीर्षया च न दर्शितवती विकारम् । अद्य तु चतुर्दशीति भगवन्तं मँहाकालमर्चितुमितो गतया तत्र महाभारते वाच्यमाने श्रुतम् - 'अपुत्राणां किल न सन्ति लोकाः शुभाः । पुंनाम्नो नरकात्त्रायत इति पुत्रः' इत्येतच्छ्रुत्वा भवनमागत्य परिजनेन सशिरः प्रणाममभ्यर्थ्यमानापि नाहारमभिनन्दति, न भूषणपरिग्रहमाचरति, नोत्तरं प्रतिपद्यते । केवलमविरलेबाष्पदुर्दिनान्धकारितमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम्' इत्येतदभिधाय विरराम । विरतवचनायां तस्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निजगाद - ‘देवि, किमत्र क्रियतां दैवायत्ते वस्तुनि । अलमतिमात्रं रुदितेन । 'वयमनुग्राह्याः प्रायो देवतानाम् । आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् । अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्येह
***********
योग्येष्वपि दिवसव्यापारेषु दिनकृत्येषु कथंकथमपि महता कष्टेन परिजनः परिच्छदस्तस्य प्रयत्न आग्रहस्तेन प्रवर्त्यमाना प्रेर्यमाणा । अन्वयस्तु प्रागेवोक्तः । तर्हि मया कथं न ज्ञातेत्याशयेनाह - देवेति । देवो भवांस्तस्य या हृदयपीडा चेतसोऽस्वास्थ्यं तस्याः परिजिहीर्षा परिहर्तुमिच्छा तया च विकारं शोकज्ञप्तिलक्षणं न दर्शितवती न ज्ञापितवती । तर्ह्यद्य कथं तत् (स) प्रदर्शित इत्याशयेनाह - अद्येति । तु पुनरर्थे । अद्य चतुर्दशीति कृत्वा भगवन्तं माहात्म्यवन्तं महाकालमर्चितुं पूजितुमितो गृहाद् गतया तत्र महाकालप्रासादे महाभारते शास्त्रे वाच्यमाने पठ्यमाने श्रुतमाकर्णितम् । किमित्याशङ्कायामाह - अपुत्राणामिति । अपुत्राणां सुतवर्जितानाम् । किलेति सत्ये । शुभा लोका देवलोका न सन्ति न विद्यन्ते । अत्रार्थे पुत्रशब्दव्युत्पत्तिं प्रदर्शयन्नाह - पुंनाम्न इति । पुंनाम्नो नरकात्त्रायत इति पुत्रः । एतेन पुत्रोऽपि नरकत्रायको भवतीति ज्ञापितम् । इत्येतदिति । इति पूर्वोक्तप्रकारेणैतच्छ्रुत्वाकर्ण्य भवनं गृहमागत्यैत्य परिजनेन परिच्छदलोकेन सशिरः प्रणामं शिरोवनतिपूर्वकं यथा स्यात्तथाभ्यर्थ्यमानापि प्रार्थ्यमानाप्याहारं भोजनं नाभिनन्दति नाभिलषति । भूषणानामाभरणानां परिग्रह स्वीकारं नाचरति न करोति । उत्तरं प्रतिवचो न प्रतिपद्यते । न ददातीत्यर्थः । तर्हि किं करोतीत्याशयेनाह केवलति । केवलं रोदिति रोदनमेव करोति । नान्यत्किमपीति भावः । कीदृशी । अविरलो घनो बाष्पो नेत्राम्बु स एव दुर्दिनं मेघजं तमस्तेनान्धकारितं संजातान्धकारं मुखं यस्याः सा । एतन्मदुक्तं वच आकर्ण्य श्रुत्वा देवः प्रमाणमिति । देवो भवान्यदाज्ञापयिष्यति तदेव सर्वैर्वेदवाक्यवत्स्वीकरिष्यति इति भावः । इति पूर्वोक्तप्रकारेणाभिधायोक्त्वा विरराम विरता बभूव ।
विरतवचनायां तस्यां मकरिकायां भूमिपालो राजा मुहूर्तमिव मुहूर्तमात्रं तूष्णीं मौनं स्थित्वा । तदवस्थतयास्थायेत्यर्थः । दीर्घं लम्वायमानमुष्णं तप्तं निश्वस्य निश्वासं मुक्त्वा निजगादाब्रवीत् । हे देवि । किमत्रेति । दैवायत्ते दैवाधीने वस्तुनि कृत्ये किं क्रियतां किं कर्तुं शक्यम् । अतएवातिमात्रं रुदितेनात्यन्तरोदनेनालं कृतम् । प्रायो बाहुल्येन देवतानां सुराणां न वयमनुग्राह्या अनुग्रहविषयाः । नूनम् अस्माकं हृदयं वक्ष आत्मजस्य पुत्रस्य यः परिष्वङ्ग उपगूहनं तदेवामृतं पीयूषं तस्यास्वादसुखमुपभोगसुखं तस्याभाजनमनाधारस्थलम् । अत्रार्थे हेतुमाह - अन्यस्मिन्निति । अन्यस्मिञ्जन्मनि भवान्तरेऽवदातं कर्म शुद्धं कर्म न कृतं न विहितम् । हि निश्चये । जन्मान्तरकृतं कर्म पूर्वभवार्जितं कर्म फलं शुभाशुभरूपमुपनयति प्राप
पाटा० - १ प्रवर्तमाना. २ परिजिहीर्षया न. ३ अथ चतुर्दशी; अद्य चतुर्दशी. ४ महाकालाभिधानम्. ५ अपुत्राणां न सन्ति; अपुत्राणां किल गतिर्नास्ति न वा सन्ति. ६ वाष्पविन्दु. ७ इत्यभिधाय. ८ च तस्याम् ९ अतिमात्रमलं रुदितेन; अलमतिरुदितेन. १० वयमननुग्राह्याः. ११ विहितम्.
( राज्ञा विलासवतीसान्त्वनम्
पूर्वभागः ।
139