________________
द्धमन्येन वा केनचिदस्मदेनुजीविना परिजनेन ? अतिनिपुणमपि चिन्तयन्न पश्यामि खलु स्खलितमप्यात्मनस्त्वद्धिषये । त्वदायत्तं हि मे जीवितं राज्यं च । कथ्यतां सुन्दरि, शुचः कारणम्' इत्येवमभिधीयमाना विलासवती यदा न किंचित्प्रतिवचः प्रतिपेदे तदा विवृद्धवाष्पहेतुमस्याः परिजनमपृच्छत् ।
अथ तस्यास्ताम्बूलंकरङ्कवाहिनी सततप्रत्यासना मकरिका नाम राजानमुवाच - देव, कुतो देवादल्पमपि , रेस्खलितम् । अभिमुखे च देवे का शक्तिः परिजनस्यान्यस्य वा कस्यचिदपराद्धम् । किंतु महाग्रहग्रस्तेव विफलराजसमागमास्मीत्ययमस्या देव्याः संतापः । महाश्च कालः संतप्यमानायाः । प्रथममपि स्वामिनी दानवश्रीरिव सततनिन्दितसुरता शयनस्नानभोजनभूषणपरिग्रहादिषु समुंचितेष्वपि दिवसव्यापारेषु कथंकथ -
***********
स्तनाशुकं पयोधरवस्त्रं यस्तै तथा । कच्चिदिति । कच्चित्प्रश्ने । मयास्मदनुजीविनास्मत्सेवकेन परिजनेन परिच्छदेनान्येन केनचिद्वापराद्धमपराधः कृतः । अतीति । अतिनिपुणमतिचतुरं चिन्तयन्नपि विचारयन्नपि त्वद्विषये । खलु निश्चयेन । आत्मनः स्वकीयस्य स्खलितमपि वैगुण्यमपि न पश्यामि नावलोकयामि । त्वदिति । हि निश्चितम् । मे मम जीवितं प्राणितं राज्यं च त्वदायत्तम् । त्वदधीनमित्यर्थः । हे सुन्दरि, शुचः शोकस्य कारणं नियामकं कथ्यता प्रतिपाद्यताम् । इतीति । इत्येवं पूर्वोक्तप्रकारेणाभिधीयमाना पृच्छ्यमाना विलासवती राजपत्नी यदा न किंचित्प्रतिवचः प्रत्युत्तरं प्रतिपेदे प्रतिपन्नवती । तदेति । तदा तेन प्रकारेणास्या विलासवत्या विवृद्धो वृद्धि प्राप्तो यो बाष्पो नेत्राम्बु तस्य हेतु कारण परिजनमपृच्छदप्राक्षीत् । धातोर्दिकर्मकत्वात्कर्मद्वयम् । __ अथेति । नृपप्रश्नानन्तरं तस्यास्ताम्बूलकरङ्कः स्थगी तद्वाहिका मकरिकेति नाम यस्याः । अनुकरणशब्दत्वान्न ङीप् । राजानं तारापीडमुवाचाब्रवीदित्यन्वयः । कीदृशी । सततं निरन्तरं प्रत्यासत्रा निकटस्थायिनी । किमुवाचेत्याह - देवेति । हे देव हे स्वामिन, देवात्तारापीडादधिपतेरल्पमपि स्वल्पमपि परिस्खलितं कुतः स्यात् । एतस्याः प्रीतिविषयेऽत्यन्तं सावधानत्वादिति भावः । अतश्चाभिमुख एतद्विषये लोकेनानुकूले ज्ञाते देवे राज्ञि परिजनस्यान्यस्य कस्यचित्तद्भिन्नस्यापराद्धुमपराधं कर्तुं का शक्तिः सामर्थ्यम् । न कापीत्यर्थः । तर्हि किमस्तीत्याशयेनाह - किं त्विति । महाग्रहो भूतादिग्रहस्तद्ग्रस्तेव तद्गृहीतेव । विफलेति । विगतं फलं पुत्रादिरूपं यस्मादेवभूतो राजसमागमो राजसंभोगो यस्याः सा तथा । या महाग्रहग्रस्ता स्यात्सापि विफलराजसमागमा स्यात् । राजरङ्कयोविभेदं न जानातीत्यर्थः । अहमस्मीत्यस्या देव्या अयं संतापश्चित्तोद्वेगः । संतप्यमानायाः संतापं कुर्वत्या महान्कालो भूयाननेहा । गत इत्यध्याहार्यम् । प्रथममपि पूर्वमपि स्वामिनीयं सशोकेवासीदित्यन्वयः । तामेव विशिनष्टि - दानवेति । दानवस्यासुरस्य श्रीरिव लक्ष्मीरिव । उभयं विशिनष्टिसततं निन्दितं सुरतं मैथुनं यया सा । पक्षे सुराणां समूहः सुरता । शेषं पूर्ववत् । शयनेति । शयनं स्वापः, स्नानमाप्लवः, भोजनमशनम्, भूषणपरिग्रह आभरणस्वीकारः, इत्यादिषु समुचितेष्वपि -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 'स्खलितमल्पमप्यात्मनः' इत्यपि प्रचलितः पाठः । अल्पमपि आत्मनः स्खलितमिति अपिपदस्वारस्यात् । 2 न किञ्चित्स्वारस्यमस्मिन्नर्थे । वास्तवे तु 'विफलनरेन्द्रसमागमा' इत्येवोचितः पाठः । महाग्रहेण पूतनादिना उत्कटभूतेन ग्रस्ता (आविष्टा) नारी विफलो नरेन्द्रस्य (भूतचिकित्सकस्य) समागम उपस्थितिर्यस्यास्तादृशी भवति (भूतापसारणस्याशक्यत्वात्) । इयं तु पुत्रजननाभावाद्विफलो राज्ञः समागमो यस्यास्तादृशीत्यर्थः ।
पाठा० - १ उपजीविना. २ अतिनिपुणं चिन्तयन्. ३ स्खलितमल्पमपि. ४ जीवितं च राज्यं च. ५ अभिधीयमानापि यदा. ६ प्रतिवचनम्. ७ प्रपेदे. ८ करण्डक. ९ वाहिनी मकरिका. १० महाग्रह. ११ नरेन्द्र. १२ सुमहांश्च. १३ शयनाशनस्नान; शयनासनस्नान. १४ समुचितेषु दिवसव्यापारेषु.
138
कादम्बरी ।
कथायाम्