________________
किमिति च हरिण इव हरिणलाञ्छने न लिखितः कृष्णागुरुपत्रभङ्गः पयोधरभारे । केन कारणेन तन्वीयं हरमुकुटचन्द्रलेखेव गङ्गासोतसा न विभूषिता हारेण वरोरु, शिरोधरा । किं वृथा वहसि विलासिनि सवदश्रुजललवधीतपत्रलतं कपोलयुगम् । इदं च कोमलाङ्गुलिदलनिकरं रक्तोत्पलमिव करतलं किमिति कर्णपूरतामारोपितम् । इमा च केन हेतुना मानिनि, धारयस्यनुपरचितगोरोचनाबिन्दुतिलकोमसंयमितालकिनी ललाटरेखाम् । अयं च ते बहुलपक्षप्रदोष इव चन्द्रलेखाविरहितः करोति मे दृष्टिखेदमतिबहुलतिमिरपटलौन्धकारः कुसुमरहितः केशपाशः । प्रसीद, निवेदये देवि, दुःखनिमित्तम् । एते हि पल्लवमिव सराग में हृदयमाकम्पयन्ति तरलीकृतस्तनांशुकास्तवायताः धासमरुतः कच्चिन्मयापरा -
***********
धमणियुतिसाम्यात् । मेखलैव कलापः प्रचलाक इति वा । किमिति चेति । हरिणलाञ्छने चन्द्रे हरिण इव पयोधरभारे स्तनाभोगे कृष्णागुरुः काकतुण्डस्तस्य द्रवेण यः पत्रभङ्गो रचनाविशेषः किमिति हेतोर्न लिखितो न लिपीकृतः अत्र गौरत्ववर्तुलत्वकिंचित्कृष्णत्वसाम्याच्चन्द्रस्तनभारयोः साम्यम् । गौरकृष्णत्वसाम्याच्च हरिणकृष्णागुर्वोः साम्यम् । केनेति । हे वरोरु, केन कारणेनेयं तन्वी शिरोधरा ग्रीवा हारेण मुक्ताकलापेन न विभूषिता नालंकृता । केनेव गङ्गासोतसा स्वधुनीप्रवाहेण हरमुकुटो जटाजूटस्तस्मिन्या चन्द्रलेखा शशिकलेव । किं वृथेति । हे विलासिनि, सवत्क्षरद्यदश्रुजलं नेत्रजलं तस्य लवा बिन्दवस्तै|ता क्षालिता पत्रलता पत्रभङ्गिर्यस्मिन्नेवभूतं यत्कपोलयुगं वृथा मुधा किं वहसि किं धारयसि । इदं चेति । कोमलानि मृदूनि यान्यगुलिदलानि तेषां निकरः समूहो यस्मिन्नेवभूतं करतलं हस्ततलं रक्तोत्पलमिव कोकनदमिव । किमिति हेतोः कर्णपूरतां श्रवणाभरणतामारोपितं स्थापितम् । इमां चेति । हे मानिनि हे गर्वयुक्ते, केन कारणेन इमां प्रत्यक्षगतां ललाटरेखामलिकराजी धारयसि धत्से । तां विशेषयन्नाह - अन्विति । अनुपरचितमविहितं गोरोचना प्रसिद्धा तस्या बिन्दुभिस्तिलकं पुण्ड्रं यस्याः सा ताम्, असंयमिता असंबद्धा अलकाः केशा विद्यन्ते यस्याः सा ताम् । अयं चेति । अयं ते तव कुसुमरहितः पुष्पशून्यः केशपाशः कुन्तलकलापो मे मम दृष्टिखेदं करोति प्रणयतीत्यन्वयः । क इव । बहुलपक्षप्रदोष इव बहुलपक्षः कृष्णपक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । अत्र प्रदोषेऽपि शुक्लपक्षे चन्द्रलेखादर्शनाद्बहुलग्रहणम् । बहुलपक्षेऽपि पश्चिमरात्रौ चन्द्रनक्षत्राणां दर्शनात्प्रदोषग्रहणम् । कीदृक् । चन्द्रलेखा शशिकला तया विरहितः । प्रदोषं विशेषयन्नाह - अतीति । अतिबहुलान्यतिदृढानि यानि तिमिरपटलानि तमोमण्डलानि तैरन्धकारो नेत्ररश्मीनामप्रसरो यस्मिन्स तथा । अत्र शुक्लत्वसाम्यात्कुसुमचन्द्रलेखयोः साम्यम् । कृष्णत्वसाधर्म्यात्केशकलापप्रदोषयोः साम्यम् । सान्त्वनोपक्रमेण चाटुवचनविस्तारमुपसंहरन्नाह - देवीति । हे देवि हे राज्ञि, प्रसीद प्रसन्ना भव । दुःखनिमित्तं मानसिकव्यथाकारणं निवेदय कथय । एते हीति । हि निश्चितम् । एते दृश्यमानास्तवायता विस्तीर्णाः श्वासमरुतो निःश्वासाः पल्लवमिव किसलयमिव सरागम् । राग आरुण्यं प्रीतिश्च तेन सह वर्तमानमित्यर्थः । एतेन पल्लवसाम्यता सूचिता । मे मम हृदयं चित्तमाकम्पयन्ति धूनयन्ति । श्वासमरुतो विशिनष्टि - तरलीति । तरलीकृतं चञ्चलीकृतं -
.- - - - - - - टिप्प० - 1 अतिबहुलेत्यादिक विशेषणं केशपाशेऽप्यन्वेति । कुसुमरहितः अत एव अतिबहुलतिमिरपटलवत् अन्धकारः केवलकृष्णवर्गः, इति तद्व्याख्या ।
-
-
-
-
-
-
-
-
-
-
-- -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
पाठा० - १ किमिति हरिण. २ आलिखितः. ३ पङ्कपत्रभङ्गः. ४ मुकुटे. ५ भूषिता. ६ वरारोहे. ७ कंधरा. ८ धौतकुङ्कुमपत्रलतम्. ९ युगलम्. १० कोमलागुलिनिकरम्. ११ केन हेतुना. १२ असंस्कृतालकिनीमलिकलेखाम्. १३ च बहुल. १४ दृष्टिवेदनाम्. १५ अन्धकारः केशपाशः. १६ आवेदय. १७ मम. १८ कम्पयन्ति. १९ तवाधिजाः. २० निःश्वासमारुताः. २१ क्वचित्.
(विलासवतीदुःखप्रश्नः
। पूर्वभागः ।