________________
रवर्तिनीभिश्चान्तःपुरवृद्धाभिरावास्यमानाम्, अविरलाश्रुपातार्दीकृतदुकूलाम्, अनलंकृताम्, वामकरतलविनिहितमुखकमलाम्, असंयताकुलालकाम्, सुनिबिडपर्यङ्किकोपविष्टाम्, रुदतीं ददर्श । कृताभ्युत्थानां च तां तस्यामेव पर्यङ्किकायामुपवेश्य स्वयं चोपविश्याविज्ञातबाष्पकारणो भीतभीत इव करतलेन विगतबाष्पाम्भःकणौ कुर्वन्कपोलो भूपालस्तामवादीत्
'देवि, किमर्थमन्तर्गतगुरुशोकभारमन्थरमशब्दं रुद्यते । ग्रनन्ति हि मुक्ताफलजालकमिवबाष्पबिन्दुनिकरमेतास्तव पक्ष्मपङ्क्तयः । किमर्थं च कृशोदरि, नालंकृतासि । बालातप इव रक्तारविन्दकोशयोः किमिति न पातितश्चरणयोरयमलक्तकरसः । कुसुमशरसरःकलहंसको कस्मात्पादपङ्कजस्पर्शेन नानुगृहीतौ मणिनपुरौ । किंनिमित्तमयमपगतमेखलाकलापमूको मध्यभागः ।
***********
फलप्रशंसया विश्वास्यमानाम् । अविरलेति । अविरला निबिडा येऽश्रुपाता नेत्रजलपातास्तैराीकृतं क्लिनीकृतं दुकूलं दुगूलं यया सा ताम् । अनलंकृतामविभूषितां वामकरतलेऽपसव्यपाणितले विनिहितं स्थापितं मुखकमलमाननपद्मं यया सा ताम् । अनेन खेदातिशयद्योतकः स्त्रीजातिस्वभावोऽभिहितः । असंयतेति । असंयता असंबंद्धा आकुला इतस्ततः पर्यस्ता अलकाः कचा यस्यास्ताम् । क्षुद्रः पर्यङ्कः पर्यङ्किका । सुनिबिडा दृढा या पर्यङ्किकोपवेशनमञ्जिका तस्यामुपविष्टामासेदुषीं रुदतीं रुदनं कुर्वाणाम् । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतं विहितमभ्युत्थानं समाननं यया सा ताम् । तां विलासवतीं तस्यामेव पूर्वोक्तायामेव पर्यङ्किकायामुपवेश्य संस्थाप्य स्वयं चात्मनान्यत्रोपविश्य । स्त्रीपुंसोरेकत्रावस्थितेरयोग्यत्वात् । तदनन्तरं च भूपालस्तामवादीदित्यन्वयः । स्वयं चेत्यनेन विलासवत्या उपवेशानन्तरं स्वस्योपवेशनेन शोकनिवारक आदरातिशयः सूचितः । अविज्ञातेति । अविज्ञातमविदितं बाष्पस्याश्रुपातस्य कारण नियामक येन स तथेति राज्ञो विशेषणम् । भीतभीत इव त्रस्तत्रस्त इव । स्नेहातिशयद्योतनार्थं वीप्सा । करतलेन पाणितलेन विगतो दूरीभूतौ बाष्पाम्भसो नेत्रजलस्य कणौ ययोरेवंभूतौ कपोलौ कुर्वनिति राजविशेषणम् । अन्वयस्तु प्रागेवोक्तः । किं तदित्याह - देवीति । हे देवि, किमर्थं किंप्रयोजनम् । अन्तरिति । अन्तर्गतो गूढपथगतो यो गुरुशोको गरिष्ठशुक्तस्य भारो भरस्तेन मन्थरमनुब्रटमशब्द शब्दवर्जितं रुद्यते रोदनं क्रियते । अत्राशब्दमित्यनेन धीरायाः स्वभावः प्रदर्शितः । अधीरायास्तु सशब्द रोदनं क्रियते । श्वेतवर्तुलत्वसाम्यात्तदुपमानमाह-ग्रथ्नन्तीति । एतास्तव पक्ष्मपङ्क्तयो नेत्ररोमराजयो मुक्ताफलजालकमिव मुक्ताकलापमिव बाष्पबिन्दुनिकरमश्रुकणसमूह ग्रनन्ति ग्रथनं कुर्वन्ति । हे कृशोदरि क्षामकुक्षि, किमर्थं किंनिमित्तं नालंकृतासि न भूषितासि । किमिति प्रश्ने । रक्तारविन्दकोशयोर्लोहितकमलमुकुलयो लातप इव तत्कालोदितसूर्यालोक इव चरणयोः पादयोरयमलक्तकरसो यावकद्रवो न पातितो न न्यस्तः । कोमलमकलाकारसाम्याच्चरणयोः कोशसाम्यम । आरक्तसाम्यादलक्तकरसे बालातपसाम्यम् । कसमीत । कसमशरस्य मदनस्य यत्सरः कासारस्तस्य कलहंसाविव कलहंसावनुरणनसाम्यान्मणिनपुरौ पादकटके कस्माद्धेतोः पादपङ्कजस्पर्शेन चरणकमलसंस्पर्शेन नानुगृहीती न प्रसादपात्रीकृतौ । किंनिमित्तमिति । किंनिमित्तं किंनिदानमयमपगतो यो मेखला कटिसूत्रं तस्य कलापः समूहस्तेन मूको जंडो मध्यभागो मध्यप्रदेशः । मेखलाया एकत्वेऽपि किङ्किण्यपेक्षया कलापेत्युक्त विवि -
- - - - - - - - - - - - - - - - टिप्प० - 1 हेतुरित्यर्थः । 2 किञ्च-अन्येषां विदुषां मते सशब्दं रोदन न अधीरायाः स्वभावः, अपि तु धीराऽधीराया एव । यथाहि साहित्यदर्पणे-'प्रिय सोत्पासवक्रोक्त्या मध्या धीरा दहेद्रुषा । धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ॥ 3 निःशब्द इत्यर्थं ।
पाठा०-१ अश्रुबिन्दु. २ निबिड. ३ देवीम् रुदती देवीम्. ४ कृतप्रत्युत्थानाम्; कृतप्रत्यभ्युत्थानाम्. ५ उपविश्य. ६ बाष्पवेग. ७ भूमिपालः. ८ तवायताः. ९ कोशयोरयम्. १० चरणयोरलक्तक. ११ किंनिमित्तमपगत.
136
कादम्बरी ।
कथायाम्