SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ च यौवनमतिचक्राम, तथा तथा विफैलमनोरथस्यानपत्यताजन्मावर्धतास्य संतापः । विषयोपभोगसुखेच्छाभिश्च मनो विजैघ्ने । नरपतिसहस्रपरिवृतमप्यसहायमिव, चक्षुष्मन्तमप्यन्धमिव, भुवनालम्बनमपि निरौलम्बमिवात्मानमर्मन्यत । अथ तस्यै चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रभेव कैटभारातिवक्षःस्थलस्य, वनमालेव मुसलायुधस्य, वेलेव सागरस्य, मदलेखेव दिग्गजस्य, लतेव पादपस्य, पुष्पोद्गतिरिव सुरभिमासस्य, चन्द्रिकेव चन्द्रमसः, कमलिनीव सरसः, तौरापङ्क्तिरिव नभसः, हंसमालेव मानसस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषणमभून्त्रिभुवनविस्मयजननी जननीव वनिताविभ्रमाणां सकलान्तःपुरप्रधानभूता महिषी विलासवती नाम । एकदा च सैं तदावासगतस्तां चिन्तास्तिमिर्तैदृष्टिना शोकमूकेन परिजनेन परिवृताम्, आदरावस्थितैश्च ध्यानानिमिषलोचनैः कञ्चुकिभिरुपास्यमानाम्, अनतिदू - *********** तथा तथा तेन तेन प्रकारेण । विफलेति । विफलो निष्फलो मनोरथो यस्य स तथा तस्यास्य तारापीडस्य राज्ञः संतापो मानसी व्यथा - वर्धत वृद्धिं प्राप । संतापं विशिनष्टि - अनपत्येति । अनपत्यताऽसंतानत्वं तस्माज्जन्मोत्पत्तिर्यस्य स तथा । विषयेति । विषयाणां सक्चन्दनादीनां य उपभोगोऽसकृद्भोगस्तज्जनितं यत्सुखं सातं तस्येच्छा अभिलाषास्ताभिर्मनश्चित्तं विजघ्ने विरक्तं बभूव । नरेति । नरपतीनां राज्ञां यत्सहस्रं तेन परिवृतं सहितमप्यसहायमद्वितीयमिव चक्षुष्मन्तं सनेत्रमप्यन्धमिव गताक्षमिव भुवनालम्बनमपि निरालम्बमिव निराधारमिवात्मानं स राजामन्यताज्ञासिष्ट | अथेति । तस्य राज्ञो विलासवती नाम महिषी पट्टराज्ञी भूषणमलंकृतिरभूदित्यन्वयः । कस्य केव । हरजटाकलापस्य शंभुजटाजूटस्य चन्द्रलेखेव शशिकलेव । कैटभेति । कैटभारातिर्विष्णुस्तस्य वक्षस्थलं भुजान्तरं तस्य कौस्तुभो मणिस्तस्य प्रभा कान्तिस्तयेव । मुसलायुधस्य बलभद्रस्य वनमालाभरणविशेषः सेव । सागरस्य समुद्रस्य वेलेव जलवृद्धिरिव । दिग्गजस्य दिङ्नागस्य मदलेखेव दानराजिवि । पादपस्य वृक्षस्य लतेव वल्लीव । सुरभिमासस्य वसन्तमासस्य पुष्पोद्गतिरिव कुसुमोद्गम इव । चन्द्रमसः शशिनश्चन्द्रिकेव ज्योत्स्नेव । सरसः कासारस्य कमलिनीव नलिनीव । नभस आकाशस्य तारापङ्क्तिरिव नक्षत्रश्रेणिरिव । मानसस्य मानसाभिधसरसो हंसमालेव चक्राङ्गपङ्क्तिरिव । मलयस्य मलयाद्रेश्चन्दनवनराजिवि मलयजवन श्रेणिरिव । शेषस्य नागाधिपस्य फणामणिशिखेव स्फुटरत्नज्वालेव । त्रिभुवनेति । त्रिभुवनस्य विष्टपत्रयस्य यो विस्मय आश्चर्यं तस्य जननी कारिणी । वनितेति । वनिताः स्त्रियस्तासां विभ्रमाणां भ्रूसमुद्भवानां जननीव मातेव । सकलेति । सकलं समग्रं यदन्तःपुरमवरोधस्तस्मिन्प्रधानभूता मुख्या । एकदेति । एकदा एकस्मिन्समये स तारापीडस्तस्या विलासवत्या आवासं निवासस्थलं तत्र गतः संस्तां ददर्शाद्राक्षीत् । अथ च तस्या विशेषणानि - चिन्तेति । चिन्ता मानसी व्यथा तया स्तिमिता निश्चला दृष्टिर्दृग्यस्य स तेन । शोकेन शुचा मूकेन जडेनैवंभूतेन परिजनेन परिच्छदेन परिवृतां सहिताम् । आरादिति । आराद्दूरादवस्थितैः कृतावस्थानैर्ध्यानेन चिन्तया निमिषरहिते लोचने येषां तैरेवंभूतैः कञ्चुकिभिः सौविदल्लैरुपास्यमाना सेव्यमानाम् । अनतीति । नातिदूरवर्तिनीभिरन्तःपुरवृद्धाभिरवरोधवृद्धस्त्रीभिराश्वास्यमानां भावि - टिप्पo - 1 द्वितीयेन सहायकेन शून्यम्, 'शून्यमपुत्रस्य गृहम्' इति न्यायादित्यर्थः । 2 विलासानामित्याशयः । 3 परिवारजनेन । पाटा० - १ निष्फल. २ महानवर्धत. ३ विजहे, विजगाहे. ४ भुवनालम्बनम्; भुवनावलम्बनम्. ५ निरालम्बनम्. ६ अनपत्यममन्यत ७ अस्य ८ कैटभारि. ९ कल्पपादपस्य. १० कुसुमोद्गतिः; कुसुमोनतिः. ११ तारका. १२ च तदावासमुपगत; च तदावासगत. १३ राजा राशीमिव समुपागतः. १४ दीनदृष्टिना. (विलासवतीगौरवम् पूर्वभागः । 135
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy