________________
मञ्जरीजालिभिमौलिभिरावर्जितकुसुमशेखरच्युतमधुसीकरसिक्तनृपसभं दूरावनतिप्रेवोलितमणिकुण्डलकोटिसंघट्टिताङ्गदं राजकमाननाम । तस्मिन्नपि चलिते चलितचटुलतुरगबलमुखरखुररवबधिरीकृतभुवनान्तरालाः, बेलभरप्रचलवसुधातलदोलायमानगिरयः, गलन्मदान्धगन्धगजदानधारान्धकाराः, संसर्पदतिबहुलधूलिपटलधूसरितसिन्धवः, पंचलत्पदातिबलकलकलरवस्फोटितकर्णविवराः, सरभसोद्धष्यमाणजयशब्दनिर्भरीः, प्रोद्ध्यमानधवलचामरसहस्रसंछादिताः, पुजितनरेन्द्रवृन्दकनकदण्डातपत्रसंघट्टनष्टदिवसा दश दिशो बभूवुः ।
एवं तस्य राज्ञो मन्त्रिविनिवेशितराज्यभारस्य यौवनसुखमनुभवतः कालो जगाम । भूयसा च कालेनान्येषामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु सुतमुखदर्शनसुखं न लेभे । तथोपभुज्यमानमपि निष्फलपुष्पदर्शन शरवणमिवान्तःपुरमँभूत् । यथा यथा -
***********
राजकं विशेषयन्नाह-आवर्जितो धृतो यः कुसुमशेखरः पुष्पावतंसस्तस्माच्च्युताः सस्ता ये मधुसीकरा रसबिन्दवस्तैः सिक्ता सिञ्जिता नृपसभा राजपरिषद्येन तत् । दूरेति । दूरादूप्रदेशाद्यावनतिः प्रणामस्तत्र प्रेड्डोलितान्यान्दोलितानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तेषां कोटयोऽग्रभागास्तैः संघट्टितं संघर्षितमङ्गदं बाहुकटकं यस्य तत्तथा । तस्मिन्निति । तस्मिन्नपि शुकनासे चलिते प्रस्थिते सत्येवभूता दश दिशो बभूवुः । कीदृशाः । चलितेति । चलिताः प्रस्थिताश्चटुलाश्चपलास्तुरगा अश्वा यस्मिन्नेवंभूतं यद्वलं सैन्यं तस्य मुखेरा वाचाला ये खुराः शफास्तेषां रवः शब्दस्तेन बधिरीकृतानि भुवनान्तरालानि मध्यभागा यासु ताः । बलेति । बलभरेण सैन्यभारेण प्रचल कम्पित यद्वसुधातलं पृथ्वीतलं तेन दोलायमानाः कम्पायमाना गिरयः पर्वता यासु ताः । गलदिति । गलन्तः सवन्तो ये मदान्धा मदोन्मत्ता गन्धगजा गन्धेभास्तेषां दानधारा मदपङ्क्तय एवान्धकारा यासु ताः । संसर्पदिति । संसर्पदूधं गच्छद्यदतिबहुलमतिदृढं धूलिपटलं रजःसमूहस्तेन धूसरिता धूसरवर्णीकृताः सिन्धवो नद्यो यासु ताः । प्रचलदिति । प्रचलद् गच्छद्यत्पदातीनां पत्तीनां बलं सैन्य तस्य कलकलः कोलाहलस्तल्लक्षणो यो रवः शब्दस्तेन स्फोटितानि भेदं प्रापितानि कर्णविवराणि श्रवणविवराणि यासु ताः । सरभसेति । सरभस वेगेनो ष्यमाणो यो जयजयेति शब्दस्तेन निर्भराः । भृता इत्यर्थः । प्रोद्ध्येति । प्रोद्ध्यमानानि वीज्यमानानि यानि धवलचामरसहस्राणि तैः संछादिता आच्छादिताः । पुञ्जितेति । पुञ्जितं संधीभूतं यन्नरेन्द्रवृन्दं तस्य यानि कनकदण्डान्यातपत्राणि छत्राणि तैः संघट्टो पिमर्दस्तेन नष्टा दिवसा यासु ताः ।
एवमिति । एवं पूर्वोक्तप्रकारेण तस्य राज्ञस्तारापीडस्य मन्त्रिण्यमात्ये विनिवेशितः स्थापितो राज्यभारो येन स तथा तस्य यौवनसुख तारुण्यसौख्यमनुभवतोऽनुभवविषयीकुर्वतः कालोऽनेहा जगाम गतवान् । भूयसा भूयिष्ठेन कालेन प्रायो बाहुल्येनान्येषामपि जीवलोकसुखानां प्रजालोकसुखानां सर्वेषामन्तं पारं ययौ । लोकानामपि सर्वविषयानुभवो जात इत्यर्थः । एक त्विति । तु पुनरर्थे । सुतमुखदर्शनजनितं यत्सुखं तदेकं न लेभे न प्राप । तथेति । तथा तेन प्रकारेणोपभुज्यमानमुपभोगविषयीक्रियमाणमपि शरवणमिवान्तःपुरमभूत् । उभयं विशिनष्टि - निष्फलेति । निर्गतं फलं यस्मादेवंभूतं पुष्पं प्रसून रजश्च स्त्रीणां तस्य दर्शनं यस्मिन् । यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यमतिचक्रामातिक्रमितवान् । - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 कम्पमाना इत्याशयः । 2 कनकनिर्मिता दण्डा येषां तानीत्यर्थः ।
-------------------
-
-
पाठा० - १ सिक्तनृपसभदूरावनतिम्; सिक्तसभं दूरावनति. २ प्रेङ्खित. ३ चलति चटुलतुरंग. ४ भुवनाः. ५ बलप्रचल. ६ बहल. ७ धूलिप्रबलपदातिवल. ८ प्रवलपदाति. ९ कलकलस्फोटित. १० श्रवणविवराः. ११ निरन्तराः. १२ संघट्टन. १३ मन्त्रिनिवेशित. १४ कश्चित्कालो. १५ तनय; तोक. १६ संभुज्यमानम्. १७ अभवत्. १८ यथा यथा यौवनम्.
134
कादम्बरी।
V कथायाम